________________
यथा न्यग्रोध उपरि संपूर्णावयवोऽधस्तु हीनस्तथेदमपि नाभेरुपरि विस्तारबहुलं संपूर्णलक्षणादिभाग् अधस्तु न तथेति, तथा आदि:इहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, यद्यपि च सर्वमपि शरीरमादिना सह वर्तते तथापि सादित्वविशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लक्ष्यते, तत उक्तंयथोक्तप्रमाणलक्षणेनेति, इदमुक्तं भवति यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादि इति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधो भागः परिपूर्णो भवति उपरितनभागस्तु नेति भावः, तथा वामनं मडहकोष्ठं पाणिपादशिरोग्रीवं यथोक्तप्रमाणलक्षणोपेतं शेषं तूरउदरादिरूपं कोष्ठं शरीरमध्यं मडहं-लक्षणरहितं तद् यत्र तद्वामनमित्यर्थः, अधस्तनकायमडहं कुब्जं पाणिपादशिरोपीवालक्षणोऽधस्तनकायो मडहो-लक्षणविसंवादी यत्र शेषं तु मध्यकोष्ठं यथोक्तलक्षणयुक्तं तत्कुब्जं, वामनविपरीतमित्यर्थः, अन्ये तु दर्शितलक्षणव्यत्ययेन प्रथमं कुब्जं ततो वामनं पठन्तीति, हुण्डं तु सर्वावयवेषु प्रायो लक्षणविनिर्मुक्तं, यस्यैकोऽप्यवयवः प्रायो न लक्षणयुक्तो भवति तत्सर्वत्रासंस्थितं हुण्डमित्यर्थः । तथा वर्ण्यते-अलक्रियते गुणवत्क्रियते शरीराद्यनेनेति वर्ण:-कृष्णादिः पञ्चधा, तत्र कृष्णः कज्जलादाविव नीलः प्रियनुपर्णादाविव लोहितो हिकुलकादाविव हारिद्रो हरिद्रादाविव शुक्लः खटिकादाविव । तथा गन्ध्यते आघ्रायत इति गन्धः, स द्विधा-सुरमिः श्रीखण्डादाविव दुरमिर्लसुनादाविव । तथा रस्यते-आस्वाद्यत इति रसः तिक्तादिः पञ्चधा, तत्र तिक्तः कोशातक्यादाविव कटुः शुण्ठ्यादाविव, शाने हि यत्परिणाममङ्गीकृत्यातिदारुणं तत्कटुकमुच्यते, यच्च परिणामेऽतिशीतलं तनिम्बादिकं लोके कटुकमपि शास्त्रे तिक्तमिति व्यपदिश्यते, कषायोऽपक्ककपित्थादाविव अम्ल आम्लवेतसादाविव मधुरः शर्करादाविव । तथा स्पृश्यत इति स्पर्श:-कर्कशादिरष्टधा, तत्र कर्कशः पाषाणादाविव मृदुर्हसरूतादाविव लघुरर्कतूलादाविव गुरुर्बजादाविव शीतो मृणालादाविव उष्णो वहयादाविव स्निग्धो घृतादाविव रूक्षो भस्मादाविव, एवमेते वर्णादयो यदुदयवशाजन्तुशरीरेषु भवन्ति तान्यपि कर्माण्येतनामकानि वाच्यानीति। तथा सर्वप्राणिनां शरीराणि यदुदयवशादात्मीयात्मीयापेक्षया नैकान्तेन लघूनि नापि गुरूणि किंतु अगुरुलघुपरिणामपरिणतानि भवन्ति तद्गुरुलघुनाम, एकान्तगुरुत्वे हि वोढुमशक्यानि स्युः एकान्तलघुत्वे तु वायुना विक्षिप्यमाणानि धारयितुं न पारयेरनिति । तथा स्वशरीरावयवैरेव प्रतिजिलागलवृन्दलम्बकचौरदन्तादि मिः शरीरान्तर्वर्धमानैर्यदुदयादुपहन्यते-पीड्यते जन्तुस्तदुपघातनाम, तथा यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिघातं च विधत्ते तत्पराघातनाम, तथा कूर्परलागलगोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतु:समयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटी इहाऽऽनुपूर्वी, तत्र नरकगत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समयं च वेद्यमानत्वात्सहचारित्वं, एवं तिर्यग्मनुष्यदेवानुपूयोऽपि वाच्याः । तथा यदुदयादुच्छासनिःश्वासलब्धिरात्मनो भवति तदुच्छासनाम, सर्वलब्धीनां क्षायोपशमिकत्वादोदयिकी लब्धिर्न संभवतीति चेत्, नैतदस्ति, वैक्रियाहारकादिलब्धीनां औदयिकीनामपि संभवाद्, वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्यौदयिकत्वे झायोपशमिकम्यपदेशोऽपि न विरुध्यते । ननु यदि उच्छासनामकर्मोदयादुच्छासनिःश्वासौ तदा उच्छासपर्याप्तिनाम्नः कोपयोगः १, उच्यते, उच्छासनाम्न उच्छासनिःश्वासग्रहणमोक्षविषया लब्धि रुपजायते, सा च लब्धि!च्छासपर्याप्तिमन्तरेण स्वफलं साधयति, न खल्विषुक्षेपणशक्तिमानपि धनुर्महणशक्तिमन्तरेणेषु क्षेप्नुमलं, तत उच्छ्रासलब्धिनिर्वर्तनार्थमुच्छासपर्या तिनान्न उपयोगः, एवमन्यत्रापि मिन्नविषयता यथायोगं सूक्ष्मधिया भावनीया। तथा यदुदयाजन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्ड. लादिगतेषु पृथिवीकायेष्वेव, न वहौ, प्रवचने प्रतिषेधात् , तत्रोष्णत्वमुष्णस्पर्शनामोदयात् उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वमिति । तथा यदुदयाजन्तुशरीराणि वरूपेणानुष्णान्यनुष्णप्रकाशात्मकमुद्योतमातन्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रप्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम, तथा विहायसा-नभसा गतिः-प्रवृत्तिर्विहायोगतिः, ननु सर्वगतत्वाद्विहायसस्ततोऽन्यत्र गतिर्न संभवतीति किमर्थ विहायसा विशेषणं ?, व्यवच्छेद्याभावात् , सत्यमेतत् , किंतु यदि गतिरित्येवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौमरुक्त्याशङ्का स्यात् , अतस्तद्व्यवच्छित्तये विहायसा विशेषणं, विहायसा गतिर्न तु नारकत्वादिपर्यायपरिणतिरूपति विहायोगतिः, सा च द्वेधाप्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता हंसहस्तिवृषभादीनां, अप्रशस्ता तु खरोष्ट्रमहिषादीनामिति । तथा त्रस्यन्ति-उष्णाद्यमिवप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसा-द्वीन्द्रियादयः तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम, तथा तिष्ठन्तीत्येवंशीला उष्णाद्यमितापेऽपि तत्स्थानपरिहारासमर्थाः स्थावरा:-पृथिव्यादय एकेन्द्रियादयः तत्पर्यायविपाकवेद्यं कर्मापि स्थावरनाम, तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, न तूष्णाद्यमितापेन द्वीन्द्रियादीनामिव विशिष्टमिति । तथा यदुदयाज्जीवा बादरा भवन्ति तद्वादरनाम, बादरत्वं चात्र परिणामविशेषः, यद्वशात्पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्माद्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयाहूनामपि समुदितानां जन्तुशरीराणां चक्षुम्राह्यत्वं न भवति, तथा यदुदया त्खयोग्यपर्याप्तिनिर्वर्तनसमर्थो भवति तत्पर्याप्तकनाम, यदुदयाच वयोग्यपर्याप्तिपरिमाप्तिसमर्थो न भवति तदपर्याप्तकनाम, पर्याप्तिस्वरूपं तु द्वाविंशत्यधिकद्विशततमद्वारे विशेषेण वक्ष्यते, तथा यदुदयात् जीवं जीवं प्रति मिन्नं शरीरमुपजायते तत्प्रत्येकनाम, तस्योदयः
243