________________
निश्रितं मतिज्ञानमष्टाविंशतिविधं, अश्रुतनिश्रितेन चौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्विधं भवति, जातिस्मरणमपि समविक्रान्तसयातभवावगमस्वरूपं मतिज्ञानभेद एव, तथा चाचाराङ्गटीका – “ जातिस्मरणं त्वामि निबोधक विशेष” इति एतावद्भेदभिन्नस्यास्य एवावद्भेदमेव यदावरणस्वभावं कर्म तन्मतिज्ञानावरणमेकग्रहणेन गृह्यते । तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरी कारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तो ज्ञानविशेष इत्यर्थः श्रुतं च तद् ज्ञानं च श्रुतज्ञानं, तद्भेदाश्च नन्द्यादिभ्योऽवसेयाः, तस्य सभेदस्याप्यावरणस्वभावं कर्म श्रुतज्ञानावरणं । तथा अवशब्दोऽधः शब्दार्थः, अव - अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधि: यद्वाऽवधिः - मर्यादा रुपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः अवधिश्वासौ ज्ञानं च अवधिज्ञानं, तथानन्तद्रव्यभावविषयत्वात्तत्तारतम्य विवक्षयाऽनन्तभेदं असत्येयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदं प्रकारान्तरविवक्षया त्वनुगामिकादिभेदत आवश्यकादिभ्योऽनुसरणीयं तस्यैतावद्भेदभिन्नस्यावरणस्वरूपं कर्म अवधिज्ञानावरणं । तथा संज्ञिमिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमय्या लम्ब्यमानानि द्रव्याणि मनांसीत्युच्यन्ते तेषां पर्यायाः - चिन्तानुगुणाः परिणामास्तेषु ज्ञानं मनः पर्यायज्ञानं, इदं चार्धतृतीयसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यालम्बनं तच्च द्वेधा - ऋजुमति विपुलमति च एतत्स्वरूपं च लब्धद्वारे वक्ष्यते, तस्यैवं भेदभिन्नस्यावरणस्वभावं कर्म मनः पर्यायज्ञानावरणं । तथा केवलं एकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं . वा केवलं तदावरणमलकलङ्कविगमात् सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदृशत्वात् अनंतं वा केवलं ज्ञेयानन्तत्वात् केवलं च तद् ज्ञानं च केवलज्ञानं तस्यावरणं केवलज्ञानावरणं । अत्र चाद्यानि चत्वार्यावरण देशघातीनि केवलज्ञानांवरणोद्धरितज्ञानदेशघातित्वात्, केवलज्ञानावरणं तु सर्वघाति, एतानि मतिज्ञानावरणादीनि पश्चोत्तरप्रकृतयः: तन्निष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिः, यथाऽङ्गुलीपञ्चकनिष्पन्नो मुष्टिः घृतगुडकणिक्कादिभिर्निष्पन्नो वा मोदक इत्यादि, एवमतनेष्वपि भावना कार्या । तथा नयनाभ्यां दर्शनं - सामान्यावबोधरूपं नयनदर्शनं तस्यावरणं नयनदर्शनावरणं चक्षुर्दर्शनावरणमित्यर्थः, इतरैः - चक्षुर्वर्जशेषेन्द्रियमनोमिदर्शनमितरदर्शनं तस्यावरण मितरदर्शनावरणं, अचक्षुर्दर्शनावरणमित्यर्थः, अवधिरेव दर्शनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, केवलमेव दर्शनं केवलदर्शनं तस्यावरणं केवलदर्शनावरणं, तथा 'द्रा कुत्सायां गतौ' नियतं द्राति- कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा-नखच्छोटिकादिमात्रेणैव सुखावबोधा स्वापावस्थेत्यर्थः, कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरति निद्रेत्युच्यते, तथोपविष्ट ऊर्द्धस्थितो वा प्रचलति - विघूर्णयत्यस्यां स्वापावस्थायामिति प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला, तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासः, दुःखप्रबोधा स्वापावस्थेत्यर्थः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद्बहुमिर्घोलनाप्रकारैः प्रबोधो भवति, अतः सुखप्रबोधनिद्रातोऽस्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा, तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादिकमपि कुर्वतः स्वप्नुर्भवतीति स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यास्या अतिशायिनीत्वं, तथा स्त्याना - बहुत्वेन संघातमापन्ना गृद्धिः - अभिकाङ्क्षा जाप्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि जाग्रदवस्थाऽध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा- पिण्डीभूता ऋद्धिः - आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिरुपजायते, तथा च प्रवचने श्रूयते - कचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततस्तस्मिन् द्विरदे बद्धाभिनिवेशो निशि स्त्यानदये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाट्य खोपाश्रयद्वारि च प्रक्षिप्य पुनः प्रसुप्तवान् इत्यादि, तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानर्द्धिर्वोच्यते । तथा वेदनीयं कर्म, वेद्यते - सुखं दुःखं वा आत्मना ज्ञायते तद्वेदनीयं तच द्विधा - सातमसातं च यदुदयवशादारोग्यविषयोपभोगादिजनितमाहादरूपं सातं—सुखं वेद्यते तत्सातवेदनीयं, यदुदयवशाद्रोगादिजनितं परितापरूपमसातं - दुःखमनुभूयते तदसातवेदनीयं । तथा कष्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारः कषमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः - क्रोधमानमायालोभाः, तत्र क्रोषः -अक्षान्तिपरिणतिरूपः मानो - गर्वो जात्याद्युद्भवममार्दवं माया - वञ्चनाद्यात्मिका जीवपरिणतिः लोभः - असंतोषात्मको जीवपरिणामः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाश्चतुर्धा, ततः षोडश, तत्र पारम्पर्येणानन्तं भवमनुबध्नन्ति - अनुसंदधतीत्येवंशीला अनन्तानुबन्धिनः, यद्यप्येतेषामन्यकषायोदयरहितानामुदयो नास्ति तथाऽप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेतेषामेवैतन्नाम, न पुनः सहजोदयानामन्यकषायाणामपि तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात्, नवोऽल्पार्थत्वादल्पं प्रत्याख्यानमप्रत्याख्यानं–देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः, प्रत्याख्यानं - सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः, परीषहोपसर्गादिसंपाते सति चारित्रिणमपि सं-ईषत् ज्वलयन्तीति संज्वलनाः, तथा नोशब्दः साहचर्ये, ततः कषायैः सहचारिणः- सहवतिनो ये ते नोकषायाः, कैः कषायैः सहचारिण इति चेद्, उच्यते, आद्यैर्द्वादशमि:, तथाहि - नाद्येषु द्वादशसु कषायेषु क्षीणेषु नोकषायाणामवस्थानसंभवः, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तिः, अथवा एते प्रादुर्भवन्तोऽवश्यं कषायानुद्दीपयन्ति, ततः कषायसहचारिणः, ते च नोकषाया नव, तत्र यदुदये स्त्रियाः पित्तोदये मधुरद्रव्याभिलाषवत् पुंस्यभिलाषः समुत्पद्यते स कुकूलाग्निसमानः स्त्रीवेदः, यदुदये पुंसः स्त्रियाममिलाषो भवति श्लेष्मोदयेऽम्लाभिलाषवत् स तृणाग्निज्वालासमानः पुंवेदः, यदुदये पण्डकस्य पित्तश्लेष्मोदये
241