________________
औदारिकवैक्रियाहारकतैजसकार्मणसंघातभेदात् पञ्चधा, एवमेता दश, तथा वर्णनाम कृष्णनीललोहितहारिद्रसितभेदात् पञ्चधा, गन्धनाम सुरभिदुरभिगन्धभेदाद् द्विधा, रसनाम तिक्तकटुकषायाम्लमधुरभेदात् पथ्वधा, स्पर्शनाम कर्कशमृदुलघुगुरुशीतोष्णस्निग्धरूक्षभेदादष्टधा, एवमेता विंशतिः प्रकृतयः, एतासां मध्याद्वर्णगन्धरसस्पर्शानां सामान्यतश्चतुर्णां सप्तषष्टिपक्षेऽपि गृहीतत्वात्तदपगमे शेषाः पोडश बन्धनसंघातदशकेन सह षडूिंशतिः प्रकृतयो भवन्ति, एताश्च अनन्तरोक्त सप्तषष्टिमध्ये प्रक्षिप्यन्ते, ततो नामप्रकृतीनां त्रिनवतिर्भवतीति । तथा प्रकारान्तरेण बन्धनस्य पञ्चदश भेदाः, के ते इत्याह- ' वेउवे 'त्यादि, दैक्रियाहारकौदारिकाणां प्रत्येकं स्वकतैजसकार्मणयुक्तानां, स्वकं - आत्मीयं, किमात्मीयमिति चेदुच्यते वैक्रियस्य वैक्रियं आहारकस्याहारकं औदारिकस्यौदारिकं तेन स्वकेन तैजसेन कार्मणेन च प्रत्येकं सहितानां बन्धनानि चिन्त्यमानानि नवनवसङ्ख्यानि भवन्ति, तद्यथा - वैक्रियवैक्रियबन्धनं वैक्रियतैजसबन्धनं वैकियकार्मणबन्धनं आहारकाहारकबन्धनं आहार कतैजसबन्धनं आहारककार्मणबन्धनं औदारिकौदारिकबन्धनं औदारिकतैजसबन्धनं औदारिककार्मणवन्धनमिति, तत्र पूर्वगृहीतवैक्रियपुद्गलानां स्वैरेव वैक्रियपुद्गलैर्गृह्यमाणैः सह संबन्धो वैक्रियवैक्रियबन्धनं, तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रियतैजसबन्धनं, तथा तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रियकार्मणबन्धनं, तथा पूर्वगृहीतानामाहारकपुद्गलानां स्वैरेवाहारकपुद्गलैर्गृह्यमाणैः सह यः संबन्धः स आहारकाहारकबन्धनं तथा तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध आहारकतैजसबन्धनं, तथा तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृह्यमाणै: पूर्वगृहीतैश्च सह संबन्ध आहारककार्मणबन्धनं, तथा पूर्वगृहीतानामौदारिकपुद्गलानां स्वैरेवौदारिकपुद्गलैर्गृह्यमाणैः सह यः संबन्धः स औदारिकौदारिकबन्धनं, तेपामेवौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च तेजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिकतैजसबन्धनं, तथा तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिककार्मणबन्धनं, तथा 'इयरदुसहियाणं तिन्नि त्ति इतराभ्यां - तैजसकार्मणाभ्यां द्वाभ्यां समुदिताभ्यां सहितानां वैक्रियाहारकौदारिकाणां त्रीणिबन्धनानि भवन्ति, तद्यथा - वैक्रियतैजसकार्मणबन्धनं आहारकतैजसकार्मणबन्धनं औदारिकतैजसकार्मणबन्धनं च तत्र वैक्रिय - पुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानां च पूर्वगृहीतानां गृह्यमाणानां वा यः परस्परं संबन्धस्तद्वैक्रियतैजसकार्मणबन्धनं, एवमाहारकतैजसकार्मणबन्धनौदारिकतैजसकार्मणबन्धनयोरपि भावनाऽनुसर्तव्या, अनेन च बन्धनत्रिकेण सह पूर्वोक्तानि नव बन्धनानि द्वादश भवन्ति, तथा 'तेसिं च'त्ति तयोश्च तैजसकार्मणयोः स्वस्थाने परस्परं बन्धनचिंतायां त्रीणि बन्धनानि भवन्ति, तद्यथा - तैजस्तैजसबन्धनं तैजसकार्मणबन्धनं कार्मणकार्मणबन्धनं चेति तत्र तैजसपुद्गलानां पूर्वगृहीतानां स्वैरेव तैजसपुद्गलैर्गृह्यमाणैः सह यः परस्परं संबन्धस्तत्तैजसतैजसबन्धनं, तेषामेव तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धस्तैजसक्रार्मणबन्धनं, कार्मणपुद्गलानां पूर्वगृहीतानां स्वैरेव कार्मणपुद्गलैर्गृह्यमाणैः सह संबन्धः कार्मणकार्मणबन्धनं, एतैश्च त्रिभिर्बन्धनैः सहितानि पूर्वोक्तानि द्वादश बन्धनानि पञ्चदश भवन्ति, एतन्निमित्तभूतानि च यानि बन्धननामकर्माणि तान्यपि पञ्चदश, एतैश्च सर्वैरपि बन्धनभेदैर्बन्धनपञ्चक रहितपूर्वोक्तत्रिनवतिमध्ये प्रक्षिप्तैर्नामकर्मण उत्तरप्रकृतीनां ड्युत्तरं शतं भवति । इत्येवं सर्वसङ्ख्यया अष्टानामपि कर्मणामुत्तरप्रकृतीनामष्टपश्चाशदधिकं शतं भवतीति । तदेवमुक्ताः सर्वा अपि नामत उत्तरप्रकृतयः, साम्प्रतमेतासामेवार्थः कथ्यते, तत्र 'मन् ज्ञाने' मननं मतिः यद्वा मन्यते - इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः -- योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः मतिश्वासौ ज्ञानं च मतिज्ञानं तच्च द्विविधं श्रुतनिश्रितमश्रुतनिश्रितं च तत्र प्रायः श्रुताभ्यासमन्तरेणापि यत्सहजविशिष्टक्षयोपशमवशादुत्पद्यते तदश्रुतनिश्रितं – औत्पत्तिक्यादिबुद्धिचतुष्टयं यत्तु पूर्वं श्रुतपरिकर्मितमतेर्व्यवहारकाले तु अश्रुतानुसारतया समुत्पद्यते तत् श्रुतनिश्रितं तच्चतुर्धा, तद्यथा - अवग्रहः ईहा अवायः धारणा चेति, पुनरवग्रहो द्विधा - व्यञ्जनावग्रहोऽर्थावग्रहश्य, तत्र व्यज्यते - प्रकटीक्रियते शब्दादिरर्थोऽनेनेति व्यञ्जनं- उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत्रघ्राणरसनस्पर्शनलक्षणस्य शब्दगन्धरसस्पर्शपरिणतद्रव्याणां च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रं, अपरं च - इन्द्रियेणाप्यर्थस्य व्यश्यमानत्वादिन्द्रियमपि व्यञ्जनमुच्यते, ततश्च व्यञ्जनेन - इन्द्रियलक्षणेन व्यञ्जनस्य - विषय संबन्धलक्षणस्यावग्रहणं - परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपात् व्यञ्जनावग्रहः, किमपीदमिति अव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमात्रमित्यर्थः, अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्धा, नयनमनसोरप्राप्यकारित्वेन विषयसंबन्धाभावाद्, अस्य चेन्द्रियविषययोः संबन्धप्राहकत्वादिति भावः, अर्ध्यत इत्यर्थः तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः, स च मनः सहितेन्द्रियपञ्चकजन्यत्वात् षोढा । अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेव न तु पुरुष इत्यादि वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनं ईहे तिकृत्वा, 'अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥ १ ॥ ' इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखताऽऽलिङ्गितो ज्ञानविशेष ईहा इति हृदयं, साऽपि मनः सहितेन्द्रियपञ्चकजन्यत्वात् षोढैव । ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽवायः, अयमपि पूर्ववत् षोढा । तथा निश्चितस्यैवाविच्युतिस्मृविवासनारूपं धरणं धारणा, साऽपि पूर्ववत् षोढैव । तदेवमर्थावग्रहादीनां चतुर्णा प्रत्येकं षड्विधत्वाद्व्यञ्जनावग्रहभेदचतुष्टयेन सह श्रुत
।
240