________________
पोढा भवति, दर्शनावरणषटकग्रहणे च सर्वत्रापीदमेव दर्शनावरणषट्कं ग्राह्यं, एतदेव दर्शनावरणषट्कं निद्रादिद्विरुक्तप्रकृतिस्त्यानर्षिभिः सहितं नवधा द्रष्टव्यमिति शेषः, सूत्रे च विभक्तिलोप आर्षत्वात् , निद्रादीनि निद्राप्रचलाशब्दौ द्विरुक्तौ वाचकत्वेन ययोस्ते निद्रादिद्विरुक्ते निद्रानिद्रा प्रचलाप्रचला चेत्यर्थः, एतदिह शास्त्रे नवविधं दर्शनावरणमुक्तं, एतच्च जीवे-जीवस्य दर्शनं-सामान्योपयोगरूपमावृणोति-आच्छादयति, केवलं निद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत्, दर्शनावरणचतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति, आह च गन्धहस्ती-"निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तूगमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धि"मिति, वेदनीयं द्विधा-सातवेदनीयमसातवेदनीयं च, एतश्च क्रमेण सुखदुःखनिमित्तं-सुखनिमित्तं सातवेदनीयं दुःखनिमित्तमसातवेदनीयमित्यर्थः, तथा मोहनीयं द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं चेति, दर्शनं-सम्यक्त्वं तन्मोहयतीति दर्शनमोहनीयं, चारित्रं-सावद्येतरयोगनिवृत्तिप्रवृत्तिलिङ्गमात्मपरिणामरूपं तन्मोहयतीति चारित्रमोहनीयं, तत्र बहुतरवक्तव्यत्वात् प्रथमतश्चारित्रमोहनीयं निर्दिशति, तच्च द्विधा-कषायनोकषायभेदात् , तत्र क्रोधो मानो माया लोभश्चेत्यनन्तानुबन्धिनश्चत्वारः कषायाः, एवमेत एव क्रोधादयश्चत्वारः प्रत्येकमप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च मिलिताः षोडश, तथा एष वक्ष्यमाणो नवानां नोकषायाणां संदोहः-समूहः, तत्र स्त्रीपुरुषनपुंसकस्वरूपं वेदत्रयं हास्यरत्यरतिभयशोकजुगुप्सालक्षणं इदं हास्यषटकं च, दर्शनमोहनीयं तु मिथ्यात्वमिश्रसम्यक्त्वानां योगेन-मीलनेन त्रिधा इति मोहस्य-मोहनीयकर्मणोऽष्टाविंशतिभेदाः। तथा आयुषश्चतस्रः प्रकृतयः, तद्यथा -नारकायुस्तिर्यगायुर्नरायुः सुरायुश्च, गोत्रं तु द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, अन्तरायं तु पुनः पञ्चविधं, तद्यथा-दानान्तरायं लाभान्तरायं भोगान्तरायं परिभोगान्तरायं वीर्यान्तरायं च, एतांश्च भेदान् सुखावबोधार्थमर्थकथनद्वारेणैव सूत्रकृन्निर्दिशति-यस्यान्तरायस्य प्रभावतो दातुं न लभते जीवस्तदानान्तराय, एवं यत्प्रभावतो जीवस्य लाभो न भवति तल्लाभान्तरायं, यत्प्रभावतो भोगान् परिभोगांश्च न प्राप्नोति तत्क्रमेण भोगान्तरायं परिभोगान्तरायं च, यत्प्रभावतश्च नीरुजोऽपि-नीरोगोऽपि जीवोऽशक्त:-असमर्थो भवति तद्वीर्यान्तरायं, इयमत्र भावना-यदुदयवशात् सति विभवे समागते च गुणवति पात्रे दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तहानान्तरायं, तथा यदुदयवशाहानगुणेन प्रसिद्धादपि दातुर्गृहे विद्यमानमपि देयमर्थजातं याच्याकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायं, तथा यदुदयवशात् सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलं कार्पण्यानोत्सहते भोक्तुं तद्भोगान्तरायं, एवं परिभोगान्तरायमपि भावनीयं, नवरं भोगपरिभोगयोरयं विशेषः-सकृद्भुज्यते इति भोगः-आहारमाल्यादिः, पुनः पुनः परिभुज्यते इति परिभोगो-भवनवनितादिः, तथा यदुदयवशात्सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति यद्वा बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्त्वतया न प्रवर्तते तद्वीर्यान्तरायमिति, तथा विवक्षान्तरतः कारणान्तरतश्च नामकर्म नानाप्रकारं, तद्यथा-द्विचत्वारिंशद्भेदं सप्तषष्टिभेदं त्रिनवतिभेदं त्र्युत्तरशतभेदं च ॥ ५३॥ ५४॥ ५५ ॥ ५६ ॥ ५७॥ ५८ ॥ ५९॥ ॥६०॥ ६१॥ तत्र तावद् द्विचत्वारिंशद्भेदानाह–'पढमे'त्यादिगाथानवकं, प्रथमा द्विचत्वारिंशदियं द्रष्टव्या, तद्यथा-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम संघातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम अगुरुलघुनाम उपघातनाम पराघातनाम आनुपूर्वीनाम उच्छासनाम आतपनाम उद्योतनाम विहायोगतिनाम सनाम स्थावरनाम बादरनाम सूक्ष्मनाम पर्याप्तनाम अपर्याप्तनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम सुभगनाम दुर्भगनाम सुखरनाम दुःस्वरनाम आदेयनाम अनादेयनाम यशःकीर्तिनाम अयशःकीर्तिनाम निर्माणनाम तीर्थकरनाम चेति । तथा एतेषामेव गत्यादीनां भेदानां यदा नारकगत्यादयः प्रतिभेदा विवक्षिता भवन्ति तदा सप्तषष्टिः॥ ६२॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ तामेव सप्तषष्टिमाह'गई'त्यादिगाथापञ्चकं, गतिनाम चतुर्धा-नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदात् , जातिनाम पञ्चधा एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिभेदात्, शरीरनाम पञ्चधा औदारिकवैक्रियाहारकतैजसकार्मणशरीरभेदात् , अङ्गोपाङ्गनाम त्रिधा औदारिकवैक्रियाहारकाङ्गोपाङ्गभेदात् , संहनननाम षोढा-वनऋषभनाराचऋषभनाराचनाराचअर्धनाराचकीलिकासेवार्तसंहननभेदात्, संस्थाननाम षोढा समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुंडसंस्थानभेदात् , वर्णादिचतुष्क-वर्णगंधरसस्पर्शलक्षणं, तथा अगुरुलघूपघातपराघातं च, आनुपूर्वीनाम चतुर्धा नारकतिर्यग्मनुष्यदेवानुपूर्वीभेदात् , तथा उच्छासं आतपं उद्योतं, विहायोगतिर्द्विधा-शुभाशुभविहायोगतिभेदात् , त्रसादिविंशतिः-त्रसस्थावरादिका यशःकीर्तिअयशःकीर्तिपर्यन्ता, निर्माणं च, एताः प्रकृतयस्तीर्थकरनाम्ना सहिताः सप्तषष्टिर्भवन्ति, एता एव च बन्धमुदयं चाश्रित्य नामकर्मण उत्तरप्रकृतयः परिगृह्यन्ते, शेषाणां च कर्मणां सम्यक्त्वमित्रैविना त्रिपञ्चाशत् , बन्धचिंतायां हि दर्शनमोहनीयोत्तरप्रकृती सम्यक्त्वमिश्रे न गृह्येते, तयोर्वन्धासंभवात् , मिथ्यात्वपुद्गला एव हि तथाविधविशोधिवशात् सम्यक्त्वरूपतया मिश्ररूपतया च परिणमन्तीति । एवं च सप्तषष्टेर्नामकर्मभेदानां त्रिपञ्चाशतश्च शेषकर्मभेदानां भीलने बन्धे विंशत्युत्तरं प्रकृतीनां शतं भवति ज्ञातव्यं । ननु पूर्वोक्तद्विचत्वारिंशदुत्तरप्रकृतिमध्ये ये बन्धनसंघातनाम्नी प्रतिपादिते ते सप्तषष्टिमध्ये कथं न गण्येते ? इत्याह-'बंधणेत्यादि, बन्धनसंघातौ शरीरग्रहणेन शरीरनामकर्मान्तर्भूतत्वेनेह-सप्तषष्टिभेदचिंतायां गृहीताविति पृथग्न विवक्षितौ, तथा सत्तायां चिन्त्यमानायां नामकर्मप्रकृतयस्त्रिनवतिसङ्ख्या मतान्तरेण त्र्युत्तरशतसङ्ख्याश्चाधिक्रियन्ते ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ ततः क्रमेण त्रिनवतिं व्युत्तरशतं चाह-'बंधणे त्यादिगाथाचतुष्क, औदारिकवैक्रियाहारकतैजसकार्मणबन्धनभेदादून्धननाम पञ्चधा, संघावनामापि
239