________________
माणो यथोक्तकर्मविकला भूमयोऽकर्मभूमयो भवन्ति, षण्णां पश्चानां त्रिंशत्सङ्ख्यात्मकत्वात् , एताश्च सर्वा अपि सदा-सर्वकालं युगलधार्मिकजनानां स्थानं-आश्रयः, युगलधार्मिका एव नरतिर्यश्चस्तत्र वसन्तीति भावः, तथा दशविधा ये कल्पमहाद्रुमा वक्ष्यमाणस्वरूपास्तत्समुत्थेन-तदुत्पन्नेन भोगेन-अन्नपानवसनालङ्कारादिना प्रसिद्धा:-प्रख्याता इति १६४॥५४॥ ५५ ॥ साम्प्रतं 'अट्टमय'ति पश्चपश्यधिकशततमं द्वारमाह
जाइ १ कुल २रूव ३ बल ४ सुय ५ तव ६ लाभि ७ स्सरिय ८ अह मयमत्तो। एयाई चिय बंधइ
असुहाई बहुं च संसारे ॥५६॥ जातिकुलरूपबलश्रुततपोलामैश्वर्यस्वरूपैरष्टमिर्मदैः-अमिमानैर्मत्त:-परवशः प्राणी एतान्येव-जात्यादीन्यशुभानि-हीनानि बनातिअर्जयति बहुंच-प्रभूतं कालं यावदस्मिन् संसारे परिभ्रमतीति शेषः, अयमर्थ:-जातिमदं विदधानो जन्तुरन्यजन्मनि तामेव जाति हीनां लभते विकटां च भवाटवी पर्यटतीति, एवमप्रेऽपि भावना कार्या, तत्र जाति:-मातृकी विप्रादिका वा कुलं-पैतृकमुपादिकं वा रूपं-शरीरसौन्दर्य बलं-सामर्थ्य श्रुतं-अनेकशास्त्रावबोधः तपः-अनशनादि लाभ:-अभिलषितवस्तुप्राप्तिः ऐश्वर्य च-प्रभुत्वमिति, १६५॥ ५६ ॥ इदानीं 'दुन्नि सया तेयाला भेया पाणाइवायस्स ॥' इति षषष्ट्यधिकशततमं द्वारमाह
भू १ जल २ जलणा ३ निल ४ वण ५ बि ६ति ७ चउ ८पंचिंदिएहिं ९ नव जीवा । मणवयणकाय ३ गुणिया हवंति ते सत्तवीसंति ॥५७॥ एक्कासीई सा करणकारणाणुमइताडिया होइ । सचिय तिकालगुणिया दुन्नि सया होंति तेयाला (२४३) ॥ ५८॥ भूः-पृथ्वी जलं-आपः ज्वलन:-अग्निः अनिलो-वायुः वनस्पतयः-प्रतीताः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाश्चेत्येतैर्मेदैन
नोवचनकायलक्षणेखिभिः करणेगुणिताः सप्तविंशतिर्भवन्ति, तथा सा-सप्तविंशतिः करणकारणानुमतिमिस्ताडिता-गुणिता एकाशीतिर्भवति, सैवैकाशीतिरतीतवर्तमानभविष्यल्लक्षणैनिमिः कालैर्गुणिता द्वे शते त्रिचत्वारिंशदधिके भवतः, अयमत्र भावार्थ:-पृथिव्यादीनां नवानामपि जीवानां मनसा वचनेन कायेन च प्रत्येकं वधस्य सम्भवात् सप्तविंशतिर्भेदाः, तत्रापि पृथिज्यादिवधं मनःप्रभृतीभिः कश्चित्स्वयं करोति कश्चिदन्येन कारयति कश्चित्पुनरन्यं कुर्वन्तमनुमन्यते इति प्रत्येकं करणकारणानुमतिसम्भवेनैकाशीतिर्भेदाः, ते च प्रत्येकं कालत्रयेऽपि सम्भवन्तीति द्वे शते त्रिचत्वारिंशदधिके प्राणातिपातभेदा इति १६६ ॥ ५७ ॥५८॥ सम्प्रति 'परिणामाणं अद्भुत्तरसयंति सप्तषष्यधिकशततमं द्वारमाह
संकप्पाइतिएणं ३ मणमाईहिं ३ तहेव करणेहिंशकोहाइचउक्केणं ४ परिणामेट्ठोत्तरसयं च ॥१९॥
संकप्पो संरंभो १ परितावकरो भवे समारंभो २।आरंभो ३ उद्दवओ सुद्धनयाणं च सधेसिं॥६॥ इह सङ्कल्पशब्देन संरम्भ उपलक्ष्यते पर्यायत्वात् , आदिशब्दात्समारम्भारम्भपरिग्रहः, ततो वक्ष्यमाणस्वरूपाः संरम्भसमारम्भारम्भात्रयो मनोवचनकायैर्गुण्यन्ते जाता नव, वथा 'करणेहिं ति बहुवचननिर्देशात्कारणानुमतिपरिग्रहः, ततः पूर्वोक्का नव करणकारणानुमतित्रिकेण गुण्यन्ते जाताः सप्तविंशतिः, साऽपि क्रोधादिचतुष्केण-क्रोधमानमायालोभलक्षणैश्चतुर्भिः कषायैर्गुण्यते जातं 'परिणामे पष्ठीसप्तम्योरर्थ प्रत्यभेदात् परिणामाना-चित्तादिपरिणतिविशेषाणामष्टोत्तरं शवमिति, इदमत्र तात्पर्य-उद्भूतक्रोधपरिणाम आत्मा करोति स्वयं कायेन संरम्भमित्येको विकल्पः, तथा आविर्भूतमानपरिणाम आत्मा स्वयं करोति कायेन संरम्भमिति द्वितीयः, तथा समुपजावमायापरिणतिरात्मा स्वयं करोति कायेन संरम्भमिति तृतीयः, तथा लोभकषायग्रस्त आत्मा करोति स्वयं कायेन संरम्भमिति चतुर्थः, एवं कृतेन चत्वारो विकल्पाः कारितेन चत्वारः अनुमत्याऽपि चत्वारः एते द्वादश कायेन लब्धाः, तथा वचसा द्वादश मन-. साऽपि द्वादश, एते षट्त्रिंशत्संरम्भण लब्धाः तथा समारम्भेणापि षट्त्रिंशत् तथा आरम्भेणापि पत्रिंशदित्येवमष्टोत्तरं परिणामशतं भवतीति ॥ ५९ ।। अथ सङ्कल्पादीनामेव स्वरूपमाह
प्राणातिपातं करोमीति यः सङ्कल्प:-अध्यवसायः स संरम्भः, यः पुनः परस्य परितापकर:-पीडाविधायी व्यापारः स समारम्भः, अपद्रावयतो-जीवितात्परं व्यपरोपयतो व्यापार आरम्भः, एतच्च संरम्भादित्रितयं सर्वेषामपि शुद्धनयानां सम्मतं, अयमर्थः-इह नैगमससन्हव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतलक्षणाः सप्त नयाः, तत्र शुद्धेरन्तर्भूतकारितार्थत्वात् शोधयंति कर्ममलिनं जीवमिति शुद्धा:नेगमसङ्घहव्यवहाररूपात्रयः, ते हि अनुयायिद्रव्याभ्युपगमपराः, ततो भवान्तरेऽपि कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्त्विकी शुद्धिस्तस्मात्त एव शुद्धाः, ऋजुसूत्रशब्दसममिरूद्वैवंभूतखरूपास्तु चत्वारो नया अशुद्धाः, ते हि पर्यायमात्रमभ्युपगच्छन्ति पर्यायाणां परस्परमात्यन्तिकं भेदं च, एवं च सति कृतविप्रणाशादिदोषप्रसङ्गः, तथाहि-मनुष्येण कृतं कर्म किल देवो भुङ्क्ते, मनुष्यावस्थातश्च देवावस्था मिन्ना, ततो मनुष्यकृतकर्मविप्रणाशो, मनुष्येण सता तस्योपभोगाभावात्, देवस्य च फलोपभोगोऽ. कृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् , कृतप्रणाशादिदोषपरिज्ञाने च न कोऽपि धर्मश्रवणेऽनुष्ठाने वा प्रवर्तते इति मिथ्यात्वशुद्ध्यभावः, तदभावाच न ते शुद्धा इति, अथवा शुद्धनयानां चेत्यत्र प्राकृतत्वात्पूर्वस्याकारस्य लोपो द्रष्टव्यः, ततः सर्वेषामप्यशुद्धनयानामेतत्संरम्भादित्रितयं सम्मतं न तु शुद्धानामिति, तत्र नैगमसवाहव्यवहाररूपा आद्यालयो नया अशुद्धा व्यवहाराभ्युपगमपर
208