SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मः कालपुद्गलपरावर्तः ॥४८॥४९॥ साम्प्रतं द्विविधमपि भावपुद्गलपरावर्त विवक्षुः प्रथमं तावदनुभागबन्धस्थानपरिमाणमाह -'एगसमयंमी'त्यादिगाथाद्वयं, लोके इह-जगति एकस्मिन् समये ये पृथिवीकायिकादयो जीवाः 'सुहमागणिजिया उत्ति सप्तम्यर्थत्वात्प्रथमायाः सूक्ष्माग्निजीवेषु-सूक्ष्मनामकर्मोदयवर्तिषु तेजस्कायिकजीवेषु प्रविशन्ति-उत्पद्यन्ते ते भवन्त्यसङ्ख्येयाः, असङ्ख्येयत्वमेवाह-असङ्ख्येयलोकप्रदेशतुल्या:-असोयलोकाकाशप्रदेशराशिप्रमाणाः, इह च विजातीयजीवानां जात्यन्तरतयोत्पत्तिः प्रवेश उच्यते, इत्थमेव प्रज्ञप्ती प्रवेशनकशब्दार्थस्य व्याख्यातत्वात् , ततस्ते जीवाः पृथिव्यादिभ्योऽन्यकायेभ्यो बादरतेजस्कायेभ्यश्च सूक्ष्मतेजस्कायतयोत्पद्यन्ते ते इह गृह्यन्ते,ये पुनः पूर्वमुत्पन्नाः(सूक्ष्म)स्तेजस्कायिकाः पुनर्मृत्वा तेनैव पर्यायेणोत्पद्यन्ते ते न गृह्यते, तेषां पूर्वमेव प्रविष्टत्वात् , ततः सर्वस्तोका एकसमयसमुत्पन्नसूक्ष्माग्निकायिकाः, 'तत्तो'त्ति ततः-तेभ्यः एकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्योऽसङ्ख्यगुणिता-असत्येयगुणा अग्निकायाः पूर्वोत्पन्नाः सर्वेऽपि सूक्ष्माग्निकायिकजीवाः, कथमिति चेदुच्यते-एकः सूक्ष्माग्निकायिको जीवः समुत्पन्नोऽन्तर्मुहूर्त जीवति, एतावन्मात्रायुष्कत्वात्तेषां, तस्मिंश्चान्तर्मुहूर्ते ये समयास्तेषु प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिकाः समुत्पधन्ते, अतः सिद्धमेकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्यः सर्वेषां पूर्वोत्पन्नसूक्ष्माग्निकायिकानामसङ्ख्येयगुणत्वं, तेभ्योऽपि सर्वसूक्ष्मानिकायिकेभ्यस्तेषामेव प्रत्येकं कायस्थिति:-पुनः पुनस्तत्रैव काये समुत्पत्तिलक्षणाऽसङ्ख्यातगुणा, एकैकस्यापि सूक्ष्माग्निकायिकस्यासयेयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कायस्थितेरुत्कर्षतः प्रतिपादितत्वादिति, तस्या अपि कायस्थितेः सकाशात्संयमस्थानान्यनुभागबन्धस्थानानि च प्रत्येकमसोयगुणानि, कायस्थिताव सङ्ख्येयगुणानां स्थितिबन्धानां भावात् , एकैकस्मिंश्च स्थितिबन्धेऽसङ्ख्येयानामनुभागबन्धस्थानानां सद्भावादिति, संयमस्थानान्यप्यनुभागबन्धस्थानस्तुल्यान्येवेति तेषामुपादानं, तत्स्वरूपं चाप्रे वक्ष्यामः । अथानुभागबन्धस्थानानीति कः शब्दार्थः ?, उच्यते, तिष्ठत्यस्मिन् जीव इति स्थानं, अनुभागबन्धस्य स्थानमनुभागबन्धस्थानं, एकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितकसमयबद्धरससमुदायपरिमाणमित्यर्थः, तानि चानुभागबन्धस्थानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, तेषां चानुभागबन्धस्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेऽप्यनुभागबन्धस्थानानीत्युच्यन्ते, कारणे कार्योपचारात् , तेऽपि चानुभागबन्धाध्यवसाया असङ्ख्येयलोकाकाशप्रदेशप्रमाणा इति ॥५०॥ ५१ ।। अथ बादरं सूक्ष्मं च भावपुद्गलपरावर्तमाह'ताणी'त्यादि, तानि-अनुभागबन्धाध्यवसायस्थानानि सर्वाण्यप्यसयेयलोकाकाशप्रदेशप्रमाणानि म्रियमाणेन यदा जीवेनैकेन क्रमेणआनन्तर्येणोत्क्रमेण च-पारम्पर्येण स्पृष्टानि भवन्ति एष बादरभावपुद्गलपरावर्तः, किमुक्तं भवति ?-यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुभागबन्धाध्यवसायेषु वर्तमानो मृतो भवति तावान् कालो बादरभावपुद्गलपरावर्तः, सूक्ष्मः पुनः भावपुद्गलपरावर्तो वोद्धव्यो यदा क्रमेण-परिपाट्या सर्वाण्यप्यनुभागबन्धाध्यवसायस्थानानि स्पृष्टानि भवन्ति, इयमत्र भावना-कश्चिज्जन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसाये वर्तमानो मृतस्ततो यदि स एव जन्तुरनन्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तन्मरणं गण्यते न शेषाण्युत्क्रमभावीन्यनन्तान्यपि मरणानि, ततः कालान्तरे भूयोऽपि यदि द्वितीयस्मादनन्तरे तृतीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तृतीयं मरणं गण्यते न शेषाण्यपान्तरालभावीन्यनन्तान्यपि मरणानि, एवं क्रमेण सर्वाण्यनुभागबन्धाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि भवन्ति तावान् कालविशेषः सूक्ष्मभावपुद्गलपरावर्तः । इह च बादरे प्ररूपिते सति सूक्ष्मः सुखेनैव शिष्यैः समधिगम्यते इति बादरपुद्गलपरावर्तप्ररूपणा क्रियते, न पुनः कोऽपि बादरपुद्गलपरावर्तः कचिदपि सिद्धान्तप्रदेशे प्रयोजनवानुपलभ्यत इति, तथा सूक्ष्माणामपि चतुर्णा पुद्गलपरावर्तानां मध्ये जीवाभिगमादौ पुद्गलपरावतः क्षेत्रतो बाहुल्येन गृहीतः, क्षेत्रतो मार्गणायां तस्योपादानात् , तथा च तत्सूत्र-जे से साइए सपज्जवसिए मिच्छादिही से जहनेणं अंतोमुहुत्तं उकोसेणं अणंतं कालं, अणंताओ उसप्पिणीओसप्पिणीओ कालओ, खेत्तओ अवडं पोग्गलपरियट्ट देसूण मित्यादि [यः स सादिसपर्यवसितो मिथ्यादृष्टिः स जघन्येनान्तर्मुहूर्त्तमुत्कष्टेनानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्ध पुद्गलपरावर्त्त देशोनं ] ततोऽन्यत्रापि यत्र विशेषनिर्देशो नास्ति तत्र पुद्गलपरावर्तग्रहणे क्षेत्रपुद्गलपरावों गृह्यते इति सम्भाव्यते, तत्त्वं तु बहुश्रुता एव विदन्तीति १६२ ।। ५२ ॥ इदानीं 'पन्नरस कम्मभूमीउत्ति त्रिषष्ट्यधिकशततमं द्वारमाह भरहाइ ५विदेहाई ५ एरवयाइंच५पंच पत्तेयं भन्नति कम्मभूमी धम्मजोग्गा उ पन्नरस॥५३॥ भरतानि 'विदेहाईति महाविदेहा ऐरवतानि च प्रत्येकं पञ्च पञ्च भण्यन्ते पञ्चदश कर्मभूमयः, एतासामेव स्वरूपमाह-धर्मस्यश्रुतचारित्ररूपस्य योग्या-उचितास्तदनुष्ठानस्य तत्रैव सम्भवात् , अयमर्थः-कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा तत्प्रधाना भूमयः कर्मभूमयः ताश्च पञ्चदश भवन्ति, तद्यथा-एकं भरतक्षेत्र जम्बूद्वीपे द्वे धातकीखण्डे द्वे च पुष्करवरद्वी महाविदेहा ऐरवतानि च प्रत्येकं पञ्च पञ्चेति १६३ ।। ५३ ॥ इदानीं 'अकम्मभूमीओ तीस'त्ति चतुःषष्ट्यधिकशततमं द्वारमाह हेमवयं १ हरिवासं २ देवकुरू ३ तह य उत्तरकुरूवि ४ । रम्मय ५ एरन्नवयं ६ इय छन्भूमी उ पंचगुणा ॥५४ ॥ एया अकम्मभूमीउ तीस सया जुअलधम्मजणठाणं । दसविहकप्पमहहुमस मुत्थभोगा पसिद्धाओ॥५५॥ 'हेमवय'मित्यादिगाथाद्वयं, हैमवतं हरिवर्ष देवकुरवस्तथा उत्तरकुरवो रम्यकमैरण्यवतं चेत्येताः षड्झूमयः पञ्चमिर्गुणितात्रिंशदक 207
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy