________________
तस्स धारणा तह उद्धियपयधरणरूवा वा ४॥८५८॥ दवाइ चिंतिजणं संघयणाईण हाणिमा
सज्ज । पायच्छित्तं जीयं रूढं वा जं जहिं मच्छे ५॥ ८५९॥ 'आगमे'त्यादि व्यवड़ियन्ते जीवादयोऽनेनेति व्यवहारः अथवा व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः तत्कारणत्वाद् ज्ञानविशेषा अपि व्यवहारः, स च पञ्चप्रकारस्तद्यथा-आगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः १ श्रवणं श्रूयते इति वा श्रुतं २ आज्ञाप्यतेआदिश्यते इत्याज्ञा ३ धरणं-धारणा ४ जीयत इति जीतं ५, तत्र प्रथमः आगमव्यवहारः षड्विधः, कस्क इत्याह-केवलज्ञानं 'मणोहि'त्ति 'पदैकदेशे पदसमुदायोपचारात्' मनःपर्यायज्ञानं अवधिज्ञानं 'चउदस दस नव पुवाईति पूर्वशब्दः प्रत्येकममिसम्बध्यते चतुर्दश पूर्वाणि दश पूर्वाणि नव पूर्वाणि च एष सर्वोऽप्यागमव्यवहार उच्यते इति, इह च यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे मनःपर्यायज्ञानिनः तस्याप्यभावेऽवधिज्ञानिनः इत्यादि यथाक्रमं वाच्यं ॥ ८५४ ॥ तत्र केवल्यादिरागमव्यवहारी स्वयमपि तावत्सर्व जानात्येव ततोऽतिचारजातं शिष्यस्य स्वयमपि प्रकटीकृत्य प्रायश्चित्तं ददाति अन्यथा वेत्याशङ्कय प्रासङ्गिकं तावदाह-कहेही त्यादि कथय सर्व दोषजातमिति आगमव्यवहारिणा प्रोक्तो यः शिष्यो जानानोऽपि स्वदोषान् मायावितया गृहति-गोपायति न तस्मै-मायाविने प्रायश्चिचं ददति आगमन्यवहारिणः, किन्तु ब्रुवते-'अन्यत्र' अन्यस्य समीपे गत्वा शोधय-शोधि गृहाण, यस्तु सद्भावत एव दोषान् कांश्रिन्न स्मरति न पुनर्मायया तस्य तान् दोषान् प्रत्यक्षी-प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः 'साहए'त्ति कथयति, मायाविनस्तुन कथयतीति, एतदुक्तं भवति-आगमव्यवहारी यदि केवलज्ञानादिबलेनैवज्जानाति यथैष भणितः सन् शुद्धभावत्वात् सम्यक्प्रतिफ्त्स्यते इति वदा स्मारयति यथाऽमुकं तवालोचनीयं विस्मृतं ततस्तदप्यालोचयेति, यदि पुनरेतद्वगच्छति यथेष भणितोऽपि सन् मायादितया न सम्बक्प्रतिपत्स्यते इति तदा तमप्रतिपत्स्यमानं नैव स्मारयति निष्फलत्वात् , अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्ततो न प्रयच्छतीति, ननु चतुर्दशपूर्वधरादेः कथं प्रत्यक्षज्ञानित्वं?, तस्स झुंतज्ञानित्वेन परोक्षज्ञानित्वात्, उच्यते, चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् , तथाहि-येन यथा योsतिचारः कृतस्तं तथा सर्वमेते जानन्तीति, अथ यदि आगमन्यवहारिणः सर्वभावविषयं परिज्ञानं ततः कस्याचस्य पुरत आलोच्यते ?, किन्तु तस्य समीपमुपगम्य वक्तव्यमपराधं मे भवन्तो जानते तस्य शोधि प्रयच्छतेति, उच्यते, भालोचिते बहुगुणसम्भवतः सम्यगाराधना भवति, तथाहि-आलोचमाऽऽचार्येण स आलोचकः प्रोत्साह्यते, यथा वत्स! त्वं भाग्यवान् यदेवं मानं निहत्यात्महितार्थवया स्वरहस्यानि प्रकटयसि, महादुष्करमेतत् , एवं स प्रोत्साहितः सन् प्रवर्धमानपरिणामः सम्यग् निःशल्यो भूत्वा यथावस्थितमालोचयति शोधिं च सम्यक्प्रतिपद्यते ततः पर्यन्ते आराधना स्तोककालेन च मोक्षगमनमिति.॥ ८५५ ॥ ८५६ ॥ अथ श्रुतव्यवहारमाह-'आयारे'त्यादि, आचारप्रकल्पो-निशीथस्तदादिकं कल्पव्यवहारदशाश्रुतस्कन्धप्रभृतिक, एकादशाङ्गावशेषपूर्वप्रमुखं च शेषं श्रुतं-सर्वमपि श्रुतव्यवहारः, नवादिपूर्वाणां भुतत्वाविशेषेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वात् केवलादिवदागमत्वेनैव व्यपदेशः, एते च श्रुतव्यवहारिणः स्फुटतरोपलब्धिनिमित्तं त्रीन वारानालोचनाईमालोचापयन्ति, ते डोकं द्वौ वा वारावालोचिते अनेन सम्यगालोचितमसम्यग्वेति विशेषं नावगच्छन्तीति, कथमालोचापयन्तीति चेदुच्यते प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते-निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति-न सुष्टु ममाऽधुनाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सहशार्थमालोचितं ततो ज्ञातव्यमेषोऽमायावी, अथ विसरशं तर्हि सातव्यमेष परिणामतः कुटिल इति, एवं च सति तस्यापि प्रत्यय उपजायते यथाऽहं विसरशमणनेन मायावी लक्षित इति, ततो मावानिष्पन्न प्रायश्चित्तं पूर्व दातव्यं तदनन्तरमपराधनिमित्तमिति ॥ अथ आज्ञाव्यवहारमाह-देयते'त्यादि, देशान्तरथितयोयोर्गीतार्थयोYढपदैरालोचना-निजाविचारनिवेदनमाज्ञाव्यवहारः, एतदुक्तं भवति-यदा द्वावप्याचार्यावासेवितसूत्रार्थतया गीतायौँ क्षीणजनावलौ विहारक्रमानुरोधतो दूरतरदेशान्तरव्यवस्थितौ अत एव परस्परस्य समीपं गन्तुमसमर्थावभूतां, तदाऽन्यतरःप्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति मतिधारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारासेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यों द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं वा तत्र गमनं करोति शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति ॥ ८५७ ॥ अथ धारणाव्यवहारमाह-गीयत्थे'त्यादि, इह गीतार्थेन संविग्नाचार्येण कस्यापि शिष्यस्य कचिदपराधे द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्वावलोक्य या शुद्धिः प्रदत्ता तां शुद्धिं तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तारश एवापराधे तेष्वेव द्रव्यादिषु तथैव प्रायश्चित्तं ददाति तदाऽसौ धारणानाम चतुर्थो व्यवहारः, उद्धृतपदधारणरूपा वा धारणा, इदमुकं भवति–वैयावृत्त्यकरणादिना कश्चिद्गच्छोपकारी साधुरधाप्यशेषच्छेदश्रुतयोग्यो न भवति ततस्तस्यानुग्रहं कृत्वा यदा गुरुरुद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयते इति ।। ८५८॥ अथ जीतव्यवहारमाह-'व्वाई'त्यादि, येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वप्यपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननधृतिबलादीनां च हानिमासाद्य समुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयपरिभाषया जीतमुच्यते, अथवा यत्प्रायश्चित्तं यस्याचार्यस्स गच्छे सूत्रातिरिक्तं कारणतः प्रवर्तितं अन्यैश्च बहुमिरनुवर्तितं तचत्र रूढं जीतमुच्यते, तदेवमेतेषां
166