________________
पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थों गुरुरधिक्रियते न त्वगीतार्थः, अनेकदोषसम्भवात उक्तं च-'अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणऽहियं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥ १ ॥ इति [अगीतार्थो न विजानीते चरणस्य शोषिं ददात्यूनामधिकां वा । तत आत्मानमालोचकं च पातयति संसारे ॥१॥] १२६॥८५९॥ इदानीं 'पंच अहाजाय'त्ति सप्तविंशत्युत्तरशततमं द्वारमाह
पंच अहाजायाई चोलगपट्टो १ तहेव रयहरणं २ । उन्निय ३ खोमिय ४ निस्सेजजुयलयं तह य
मुहपोत्ती ५॥८६०॥ चोलपट्टस्तथा रजोहरणं तथा और्णिकक्षौमनिषद्यायुगलकं तथा मुखपोतिका एतानि पञ्च यथाजातानि, यथाजातं-जन्म तच्च श्रमण- . त्वमाश्रित्य द्रष्टव्यं, चोलपट्टादिमात्रोपकरणयुक्त एव हि श्रमणो जायते अतस्तद्योगादेतान्यपि यथाजातान्युच्यन्ते, तत्र चोलपट्टः प्रतीत एव, बाह्याभ्यन्तरनिषद्याद्वयरहितमेकनिषद्यं सदशं रजोहरणं, इह किल सम्प्रति दशिकामिः सह या दण्डिका क्रियते सा सूत्रनीत्या केवलैव भवति न सहदशिका, तस्याश्च निषद्यात्रयं, तत्र या दण्डिकाया उपरि तिर्यग्वेष्टकत्रयप्रमाणपृथुत्वा एकहस्तायामा कम्बलीखण्डरूपा सा आद्या निषद्या, तस्याश्चाने हस्तत्रिभागायामा दशिकाः सम्बद्ध्यन्ते, एषा च निषद्या दशिकाकलिताऽत्र रजोहरणशब्देन गृह्यते उक्तं च-"एगनिसेजं च रयहरण"मिति [एकनिषद्यावञ्च रजोहरणं ॥] द्वितीया त्वेनामेव निषद्यां तिर्यग्बहुभिर्वेष्टकरावेष्टयन्ती किचिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्रपृथुत्वा वस्त्रमयी निषद्या सा अभ्यन्तरनिषद्या, इयं च क्षौमिकनिषद्यामहणेनेह गृह्यते, तृतीया तु तस्या एवाभ्यन्तरनिषद्यायाः तिर्यग्वेष्टकान् बहून् कुर्वन्ती चतुरङ्गुलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति, सा-चोपवेशनोपकारित्वादधुना पादप्रोन्छनकमिति रूढा, इयं बाह्या निषोत्य मिधीयते, अस्यास्त्विह और्णिकनिषद्यापहणेन प्रहणमिति, तथा मुखपिधानाय पोतं-वस्त्रं मुखपोतं, मुखपोतमेव इस्वं चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वान्मुखपोतिका मुखवत्रिकेत्यर्थः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनाच प्रथमतो नपुंसकत्वेऽपि कप्रत्यये समानीते स्त्रीत्वमिति १२७ ॥८६०॥ इदानीं 'निसिजागरणविहि'त्ति अष्टाविंशत्युत्तरशततमं द्वारमाह
सत्वेऽवि पढमयामे दोन्नि य वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थ सवे गुरू सुयइ॥८६१॥ सर्वेऽपि साधवः प्रथमयामे-रात्रेः प्रथम प्रहरं यावत् स्वाध्यायाध्ययनादि कुर्वाणा जापति, द्वौ च आद्यौ यामौ वृषभाणां, वृषभा इव वृषभा-गीतार्थाः साधवस्तेषां, अयमर्थ:-द्वितीये यामे ये सूत्रवन्तः साधवस्ते स्वपन्ति वृषभास्तु जाप्रति, ते च जाग्रतः प्रज्ञापनादिसूत्रार्थ परावर्तयन्ति, तृतीयः प्रहरो भवति गुरूणां, कोऽर्थः ?-प्रहरद्वयानन्तरं वृषभाः स्वपन्ति गुरवस्तूस्थिताः प्रज्ञापनादि गुणयन्ति चतुर्थ प्रहरं यावत् , चतुर्थे च प्रहरे सर्वेऽपि साधवः समुत्थाय वैरात्रिकं कालं गृहीत्वा कालिकश्रुतं परावर्तयन्ति, गुरुः पुनः स्वपिति, अन्यथा प्रातर्निद्राघूर्णमानलोचनास्तदशादेव च भज्यमानपृष्ठका व्याख्यानभव्यजनोपदेशादिकं कर्तु ते सोद्यमाः सन्तो न शकुवन्तीति १२८ ॥ ८६१ ॥ इदानीं 'आलोयणदायगन्नेस'त्येकोनत्रिंशदुत्तरशततमं द्वारमाह
सल्लुद्धरणनिमित्तं गीयस्सऽन्नेसणा उ उकोसा । जोयणसयाई सत्त उ वारस वासाइं कायदा
॥८६२॥ 'शल्योदरणनिमित्त आलोचनार्थ 'गीतस्य' गीतार्थस्य गुरोरन्वेषणा तुः पुनरर्थे उत्कृष्टा क्षेत्रतः सप्तैव योजनशतानि यावत्कतव्या कालतस्तु द्वादश वर्षाणि यावदिति, अयमर्थः-संनिहित एव गीतार्थो यदि न लभ्यते तदा योजनशतसप्तप्रमाणक्षेत्रेऽसावुत्कृष्टतो. ऽन्वेषणीयः कालतस्तु द्वादश वर्षाणि यावत्समागच्छन् प्रतीक्षणीय इति, नन्वेतावति क्षेत्रे तदन्वेषणार्थ पर्यटन्नेतावन्तं च कालं तमागच्छन्तं प्रतीक्षमाणः स यदि अन्तरालेऽप्रदत्तालोचनोऽपि म्रियते तदा किमयमाराधको न वेति ?, उच्यते, आलोचनां दातुं सम्यक्परिणतोऽन्तराऽपि म्रियमाणोऽयमाराधक एव, विशुद्धाध्यवसायसम्पन्नत्वात् , उक्तं च-"आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसयासे । जइ अंतरावि कालं करेज आराहओ तहवि ॥१॥" [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यद्यन्तराऽपि कालं कुर्यात् तथाप्याराधकः ॥१॥] अथैवमन्वेषणेऽपि सकलोक्तगुणगुरुर्गुरुर्न प्राप्यते तदा संविप्नगीतार्थमात्रस्याप्यालोचना दातव्या, यतः श्रूयते -अपवादतो गीतार्थसंविग्नपाक्षिकसिद्धपुत्रप्रवचनदेवतानामलाभे सिद्धानामप्यालोचना देया, सशल्यमरणस्य संसारकारणत्वात् इति, आह च-"संविग्गे गीयत्ये असई पासत्थमाइसारूवी" [संविग्ने गीतार्थे असति पार्श्वस्थादयः सरूप्यन्ताः इति ] १२९ ॥ ८६२ ।। सम्प्रति 'गुरुपमहाणं कीरइ असुद्धसुद्धहिँ जत्तियं कालं।' इति त्रिंशदुत्तरशततमं द्वारमाह
जावजीवं गुरुणो असुद्धसुद्धेहि वावि कायचं । वसहे वारस वासा अट्ठारस भिक्खुणो मासा
॥८६३॥ यावज्जीवमाजन्मापीत्यर्थः गुरो:-आचार्यस्य शुद्धैः-आधाकर्मादिदोषादूषितैरशुद्धोऽपि-आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभैषजादिमिः कर्तव्यं प्रतिजागरणमिति शेषः, अयमर्थ:-शुद्धैरशुद्धैश्च ते यावज्जीवमपि प्रविजागरणीयाः साधुश्रावकलोकेन, सर्वस्यापि च ग.
167