SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ शब्दः, शब्दस्य यो वाच्योऽर्थः स एव येन नयेन तत्त्वतो गम्यते न शेषः स नय उपचारात् शब्द इत्युच्यते, अस्य च द्वितीयं नाम साम्प्रत इति, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, तथाहि-एषोऽपि ऋजुसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति नातीतमनागतं वा, नापि वर्तमानमपि परकीयं, अपि च-निक्षेपचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते न नामादीन निक्षेपान , तथा च नामादिनिक्षेपनिराकरणाय प्रमाणमाह-नामस्थापनाद्रव्यरूपा घटा न घटाः घटकार्यकारित्वाभावात् यद् घटकार्यकारि न भवति तन्न घटो यथा पटस्तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावस्तल्लिङ्गादर्शनात् , न खलु नामादिघटेषु घटलिङ्गं पृथुबुध्नोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाश्च तेषु कथं घटव्यपदेशप्रवृत्तिमिच्छामः ?, अपि च-नामादीन् घटान् घटत्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधः, अघटरूपतया पटादीनामिव तेषां प्रत्यक्षत उपलभ्यमानत्वात् । अन्यच्च एष लिङ्गवचनभेदाद्वस्तुनो भेदं प्रतिपद्यते, यथा अन्य एव तटीशब्दस्य बाच्योऽर्थः अन्य एव तटशब्दस्य पुल्लिंगस्य, अपर एव च नपुंसकलिङ्गस्य, तथा अन्य एव गुरुरित्येकवचनवाच्योऽर्थः अन्य एव च गुरव इति बहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तुं शक्यते, नाप्येकवचनवाच्यो बहुवचनेन, तथा न पुँल्लिङ्गार्थो नपुंसकलिङ्गेन वक्तुं शक्यः नापि स्त्रीलिङ्गेन नापि नपुंसकः पुंल्लिङ्गेन स्त्रीलिङ्गेन वा नापि स्त्रीलिङ्गः पुंल्लिङ्गेन नपुंसकलिङ्गेन वा, अर्थाननुयायितया तेषामर्थतो मिन्नत्वात् , तथा चात्र प्रयोग:-ये परस्परमर्थतोऽननुयायिनस्ते मिन्नार्था इति व्यवहर्तव्याः यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेदभिन्नाः शब्दा इति, ये विन्द्रशक्रपुरन्दरादयः शब्दाः सुरपतिप्रभृतिलक्षणमेकमभिन्नलिङ्गवचनमधिकृत्याभिन्नलिङ्गवचनास्तेषाममिन्नोऽर्य इत्येकार्थता ५। तथा सम्-एकीभावेन अमिरोहति-व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स समभिरूढः, एष हि पर्यायशब्दानामपि प्रविभक्तमेवार्थममिमन्यते, यथा घटनाद् घटः, विशिष्टा काचनापि या चेष्टा युवतिमस्तकाद्यारोहणादिलक्षणा सा परमार्थतो घटशब्दवाच्या, तद्वत्यर्थे पुनर्घटशब्दः प्रवर्तते उपचारात्, एवं 'कुट कौटिल्ये' कुटनात् कुटः, अत्र पृथुबुनोदरकम्बुग्रीवाद्याकारकौटिल्यं कुटशब्दवाच्यं, तथा 'उम उंभ पूरणे' कुः-पृथिवी तस्यां स्थितस्य उम्भनात्-पूरणात्कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यं, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तरामिधेयं वस्तु द्रव्यं पर्यायो वा तदन्यशब्दवाच्यवस्तुरूपतां सक्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति तथाऽनुपलम्भात् आस्कन्दने वा वस्तुसाकर्यापत्तिः, तथा च सति सकललोकप्रसिद्धप्रतिनियतविषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः, ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽनास्कन्दनान्न कुटादयः शब्दा घटाद्यर्थवाचका इति विमिन्नार्थाः पर्यायशब्दाः, प्रमाणयति च-इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते विमिन्नार्थाः यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीतिबलादेकार्थामिधायकत्वं पर्यायशब्दानां प्रतिपाद्यते, तदसमीचीनमतिप्रसङ्गात्, तथाहि-यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तर्हि मन्दमन्दप्रकाशे दवीयसि देशे संनिविष्टमूर्तयो विमिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकताकारतामाबिभ्राणाः प्रतीतिपथमवतरन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातबाधितत्वेन पूर्वप्रतीतेर्विविक्तानामेवैतेषामभ्युपगमात् , एवमन्यत्रापि भावनीयं, अन्यच्च-शब्दनय! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिन्नानां शब्दानां भिन्नार्थता व्यवहियते ततः पर्यायशब्दानामपि किं न विभिन्नार्थताव्यवहारः क्रियते ?, तेषामपि परस्परमर्थतो भिन्नत्वात्तस्मान्नैकार्थवाचिनः पर्यायध्वनय इति ६ । तथा एवंशब्दः प्रकारवचनः एवं-यथा व्युत्पादितस्तं प्रकारं भूतः-प्राप्त एवम्भूतः शब्दः तत्समर्थनप्रधानो नयोऽप्येवम्भूतः उपचारात्, अयं हि शब्दमर्थेन विशेषयति, अर्थवशान्नैयत्ये व्यवस्थापयतीति भावः, यथा स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थ प्रतिपादयति न शेषः, तथा अर्थ शब्देन विशेषयति, शब्दवशात्तच्छब्दवाच्यमर्थ प्रतिनियतं व्यवस्थापयतीति भावः, यथा या घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनात् घट इति व्युत्पत्त्यर्थपरिभावनाबलात् योषिदादिमस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या न तु स्थानभरणक्रियारूपा, ततश्च यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव स्वरूपतो वर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रेति न शेषकालं, यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यो न शेषो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवत् , तथा घटशब्दोऽपि तत्त्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थ प्रतिपादयति न शेषः, शेषस्य स्वाभिधेयार्थशून्यत्वात् , एवं चैष व्युत्पत्तिनिमित्तास्तित्वभूषितमेव तात्त्विकं शब्दमभिलपति, य एव पञ्चेन्द्रियत्रिविधबलादिरूपान् दशविधान प्राणान् धारयति स एव नारकादिरूपः सांसारिकः प्राणी जीवशब्दवाच्यो न सिद्धः, सूत्रोक्तस्वरूपप्राणधारणलक्षणव्युत्पत्तिनिमित्तासम्भवात् , सिद्धस्त्वात्मादिशब्दवाच्यः, अतति-सातत्येन गच्छति तांस्तान ज्ञानदर्शनसुखादिपर्यायानित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसम्भवादिति ७ ॥८४७॥ सम्प्रत्येतेषामेव नयानां प्रभेदसङ्ख्यादर्शनार्थमाह-एकेके'त्यादि, नया मूलभेदापेक्षया यथोक्तरूपा नैगमादयःसप्त, एकैकश्च प्रभेदतः शतविधः, ततः सर्वभेदगणनया सप्त नयशतानि भवन्ति, अन्योऽपि चादेशो-मतान्तरं पञ्चैव शतानि नयानां भवन्तीति, तथाहि-शब्दसमभिरूद्वैवम्भूतानां त्रयाणामपि नयानां शब्दपरत्वेनैकत्वविवक्षणात् पञ्चैव मूलनयाः, प्रत्येकं च शतप्रभेदत्वे पञ्च शतानीति, अपिशब्दात् षट् चत्वारि शतानि द्वे वा शते, तत्र षट् शतान्येवं-नैगमः सामान्यप्राही सङ्घहे प्रविष्टो विशेषमाही तुव्यवहारे, ततः षडेव मूलनयाः, एकैकश्च प्रभेदतः शतभेद - इति षट् शवानि, तथा सहव्यवहारऋजुसूत्रशब्दा इति चत्वार एव मूलनयाः एकैकश्च शवविध इति चत्वारि शतानि, शवदयं तु 164
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy