________________
हमुक्ताफलवत् , ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्तनक्षमास्ते आबालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एते च महासामान्यावान्तरसामान्यांत्यविशेषावान्तरविशेषाः परस्परविसकलितस्वरूपास्तथैव प्रतिभासमानत्वात् , तथाहि-न सामान्यपाहिणि विज्ञाने विशेषावभासः नापि विशेषग्राहिणि सामान्यावभासः, ततः परस्परविनिटुंठितखरूपाः, तथा चात्र प्रयोगः-यद्यथाऽवभासते तत्तथाsभ्युपगन्तव्यं, यथा नीलं नीलतया, अवभासन्ते च ते परस्परविसकलितस्वरूपा इति नैगमः। नन्वेष यदि सामान्यविशेषाभ्युपगमपरस्तर्हि यत्सामान्यं तद् द्रव्यं ये तु विशेषास्ते पर्याया इति परमार्थतो द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव प्रतिपन्नजिनमतत्वात्तथाविधसम्यग्जैनसाधुवत् ततः कथं मिथ्यादृष्टिः ?, तदेतद्युक्तं, प्रतिपन्नजिनमतत्वासिद्धेः, परस्परविसंकलितसामान्यविशेषाभ्युपगमात् , तथाहि-एष परस्परमेकान्ततो विभिन्नावेव सामान्यविशेषाविच्छति, गुणगुणिनामवयवावयविनां क्रियाकारकाणां चात्यन्तभेदं, न पुन नसाधुरिव सर्वत्रापि भेदाभेदावतो मिथ्यादृष्टिः कणादवत्, कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां समर्थितं तथापि तन्मिथ्यात्वं, स्वविषयप्रधानतया परस्परमनपेक्षयोः सामान्वविशेषयोरभ्युपगमात्, उक्तं च-"जं सामन्नविसेसे परोप्परं वत्थुतो य से मिन्ने । (प्रन्थानं १००००) मन्नइ अञ्चंतमतो मिच्छादिट्ठी कणादोव्व ।। १ ॥ दोहिवि नएहिं नीयं सत्थमुलूगेण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोन्ननिरवेक्खा ॥२॥" [यत् सामान्यविशेषौ परस्परं वस्तुतश्च ती मिन्नौ । मन्यते अत्यन्तं अतः कणाद इव मिथ्यादृष्टिः ॥ १॥ द्वाभ्यामपि नयाभ्यामुलूकेन शास्त्रं नीतं तथापि मिथ्यात्वं । यत् स्वविषयप्रधानत्वात् अन्योऽन्यनिरपेक्षौ (इति वदति)॥२॥] १। तथा सङ्गृहाति-अशेषविशेषातिरोधानद्वारेण सामान्यरूपतया समस्तं जगदादत्ते इति सङ्ग्रह,, तथाहि-अयमेवं मन्यते-सामान्यमेवैकं तात्त्विकं न विशेषाः, ते हि भावलक्षणसामान्याव्यतिरिक्ता वा भवेयुरव्यतिरिक्ता वा? गत्यन्तराभावात्, प्रथमपक्षे न सन्त्येव विशेषाः, भावाव्यतिरिक्तत्वादाकाशकुशेशयवत् , अथ द्वितीयः पक्षस्तर्हि विशेषा अपि भावमात्रमेव, तथाहि-भावमात्रं विशेषास्तव्यतिरिक्तत्वात् , इह यद्यस्मादव्यतिरिक्तं तत्तदेव, यथा भावस्य स्वरूपं, अव्यतिरेकिणश्च भावाद्विशेषा इति, किं च-विशेषाग्रहो विशेषेण त्याज्यो विशेषव्यवस्थापकप्रमाणाभावात् , तथाहि-भेदरूपा विशेषाः, न च किश्चन प्रमाणं भेदमवगाहते, प्रत्यक्षं हि भावसम्पादितसत्ताकं अतस्तमेव साक्षात्कर्तुमलं नाभावं, अमावस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गः, तथा च सति विशेषाभावात्सर्वोऽपि द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतत् , तस्माद्भावप्राहकमेव प्रत्यक्षमेष्टव्यं, स च भावः सर्वत्राविशिष्टस्तथैव तेन ग्राह्य इति न प्रत्यक्षाद् विशेषावगतिः, नाप्यनुमानादेः, प्रत्यक्षपूर्वकत्वाच्छेषप्रमाणपटलस्य, ततः सामान्यमेव परमार्थतः सत् न विशेषा इति सङ्ग्रहः २। तथा व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते-निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति-यदि सदित्युक्ते घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्दिष्टस्वरूपःप्रतीयते न सङ्घहनयसम्मतं सामान्यं तस्यार्थक्रियासामर्थ्य विकलतया सकललोकव्यवहारपथातीतत्वात् ततो विशेष एवास्ति न सामान्यं, इतश्च न सामान्यमुपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः, इह यदु पलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्तव्यं, यथा कचित्केवलभूतलप्रदेशे घटो, नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सत् सङ्घहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपि च-सामान्यं विशेषेभ्यो व्यतिरिक्तं स्यादन्यतिरिकं वा स्यात्, यद्यायः पक्षस्तर्हि सामान्यस्याभाव एव, विशेषव्यतिरिक्तस्य सामान्यस्यासम्भवात् , न हि मुकुलितार्धमुकुलितादिविशेषविकलं किमप्याकाशकुसुममस्तीति परिभावनीयमेतत् , अथाव्यतिरिक्तं ततो विशेषा एव न सामान्यं तदव्यतिरिक्तत्वात्तत्स्वरूपवत् , यदपि चोकं 'प्रत्यक्षं भावसम्पादितसकलसचाकं अतस्तमेव साक्षात्कर्तुमल'मित्यादि, तदपि बालप्रलपितं, प्रत्यक्षं हि नाम तेन सम्पादिवसत्ताकमुच्यते यदुत्पन्नं सत्प्रत्यक्षं साक्षात् करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं न सङ्घहनयसम्मतं सामान्यं, न च विशेषो घटपटादिरूपोऽभावो भावात्मकत्वात्, ततो नार्थक्रियाशक्तिविकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्याग्रह एव त्याज्यो न विशेषामहः, किश्च-यदेवार्थक्रियाकारि तदेव परमार्थसत् , न च सामान्य दोहादिक्रियासूपयुज्यते किन्तु विशेषा एव गवादयः ततस्त एव तात्त्विकाः न सामान्यमिति, एष च व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽभिमन्यते तदेवैषोऽपि न शेष सन्तमपि, लोकश्च भ्रमरादौ परमार्थतः पञ्चवर्णाद्युपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नः, तस्य स्पष्टतयोपलभ्यमानत्वात् , तत एषोऽपि तदनुयायितया तदेवेच्छति न शेषान् सतोऽपि शुक्लादीन् वर्णानिति ३ । तथा ऋजु-प्रगुणमकुटिलमतीतानागतपरकीयवक्रपरित्यागाद्वर्तमानक्षणविवर्ति स्वकीयं च सूत्रयति-निष्टद्वितं दर्शयतीति ऋजुसूत्रः, यदिवा ऋजुश्रुत इति शब्दसंस्कारः, तत्र ऋजुःपूर्वोक्तवक्रविपर्ययादभिमुखं श्रुतं-ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , तथाहि-अयं मन्यते यदतीतमनागतं वा तद्यथाक्रमं विनष्टत्वात् अलब्धात्मलाभाच नार्थक्रियासमर्थ नापि प्रमाणगोचरोऽथ चार्थक्रियासमर्थ प्रत्यक्षादिप्रमाणपथमवतीर्ण वस्तु न शेषं, अन्यथा शशशृङ्गादेरपि वस्तुत्वप्रसक्तः, ततोऽर्थक्रियासामर्थ्यविकलत्वात प्रमाणपथातीतत्वाच नातीतमनागतं वा वस्तु, यदपि च परकीयं वस्तु तदपि परमार्थतोऽसत् निष्प्रयोजनत्वात् परधनवत् , एष च ऋजुसूत्रो वार्तमानिकं वस्तु प्रतिपद्यमानो लिङ्गवचनमिन्नमप्येकं प्रतिपद्यते, तत्रैकमपि त्रिलिङ्गं यथा तटस्तटी तटं, तथैकमपि एकवचन द्विवचनबहुवचनवाच्यं यथा गुरुर्गुरू गुरवः गोदौ ग्रामः आपो जलं दाराः कलत्रमित्यादि, निक्षेपचिन्तायां च नामस्थापनाद्रव्यभावरूपांश्चतुरोऽप्यसौ निक्षेपानभिमन्यते ४ । तथा शब्द्यते-प्रतिपाद्यते वस्त्वेनेनेति
163