SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ संगुत्तो | पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १ ॥ एवं मद्दवगुणे वट्टमाणोऽहं २ । अज्जवगुणे वट्टमाणोऽहं ३ । यावद्वंभगुणे वट्टमाणोऽहं १० । एवमप्कायादिष्वपि गाया भणनीयाः । तथा कारेमि न मणसाहारसन्नविरओ उ सोयसंगुत्तो । पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १ ॥' इत्यादि तथा — 'नऽणुमन्ने मणसाहारसन्नविरओ उ सोयसंगुत्तो । पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १ ॥ इत्यादि । नन्वेककयोगे एवाष्टादश सहस्राणि स्युर्यदा तु व्यादिसंयोगजन्या भङ्गका इह गृह्यन्ते तदा बहुतराः स्युः, तथाहि - एकन्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेष्वपि, संज्ञासु पञ्चदश, इन्द्रियेष्वेकत्रिंशत्, भूम्यादिषु त्रयोविंशत्यधिकं सहस्रं, एवं क्षमादिष्वपीति, एषां च राशीनां परस्परगुणने द्वे कोटीसहस्रे त्रीणि कोटीशतानि चतुरशीतिः कोटयः एकपञ्चाशल्लक्षाणि त्रीणि षष्टिः सहस्राणि द्वे शते पश्चषष्टिश्चेति ( २३८४५१६३२६५ ) ततः किमित्यष्टादशैव सहस्राण्युक्तानि ?, उच्यते, यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनं, न चैवमेकतरस्यापि शीलाङ्गभङ्गकस्य शेषसद्भाव एव भावादन्यथा सर्वविरतिरेव न स्यादिति, उक्तं च ____“इत्थ इमं विन्नेयं अइदंपज्जं तु बुद्धिमंतेहिं । एक्कंपि सुपरिसुद्धं सीलंगं सेससन्भावे ॥ १ ॥ " अस्या व्याख्या - अत्र - शीलाङ्गाधिकारे इदं विज्ञेयमैदम्पर्य-तत्त्वं बुद्धिमद्भिः पुरुषैः, यदुत – एकमपि सुपरिशुद्धं शीलाङ्गं शेषसद्भावे - तदपरशीलाङ्गसत्तायामेव, तदेवं समुदितान्येवैतानि भवन्तीति न व्यादिसंयोगभङ्गकोपादानं अपि तु सर्वपदान्त्यभङ्गस्येयमष्टादशसहस्रांशतोक्ता, यथा त्रिविधं त्रिविधेनेत्यस्य नवांशतेति, अत एव श्रावकाणामेतानि न भवन्त्येव, किन्तु मनः स्थैर्यसम्पादनार्थं तेऽप्यनुमतिप्रधानेन स्वामिलापेन गाथोच्चारणमात्रमासूत्रयन्ति, अमिलापश्चायं—न करेंती मणसाहारसन्नविरया उ सोयसंगुत्ता । पुढवीकायारंभं धन्ना जे खंतिगुणजुत्ता १ ॥ १ ॥ एवं धन्ना जे मद्दवुज्जुत्ता २, धन्ना जे अज्जबुज्जुत्ता ३, एवं यावद्धन्ना जे बंभगुणजुत्ता', इत्यादि ॥ ८४४ ॥ ८४५ || ८४६ ।। १२३ । इदानीं 'नयसत्तगं' ति चतुर्विंशत्युत्तरशततमं द्वारमाह- नेगम १ संगह २ ववहार ३ रिज्जुसुए ४ चेव होइ बोद्धवे । सद्दे ५ य समभिरूढे ६ एवंभूए ७ य मूलनया ॥ ८४७ ॥ एक्केको य सयविहो सत्त नयसया हवंति एवं तु । बीओवि य आएसो पं'चेव सया नयाणं तु ॥ ८४८ ॥ अनेकधर्मकं वस्त्वनवधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रतिपाद्य स्वबुद्धिं नीयते - प्राप्यते येनामिप्रायविशेषेण स ज्ञातुरमिप्रायविशेषो नयः, अयमत्र तात्पर्यार्थः - इह यो नाम नयो नयान्तरसापेक्षतया स्याद्वादलान्छितं वस्तु प्रतिपद्यते स परमार्थतः परिपूर्णं वस्तु गृह्णातीति प्रमाण एवान्तर्भवति, यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणानवधारणपूर्वकं वस्तु परिच्छेत्तुममित्रैति स वस्त्वेकदेशपरिग्राहकत्वान्नय इत्युच्यते, स च नियमान्मिथ्यादृष्टिरेव अयथावस्थितार्थवस्तुपरिमाहकत्वात्, अत एवोक्तमन्यत्र 'सव्वे नया मिच्छावाइणो'त्ति [सर्वे नया मिध्यावादिनः ] यत एव च नयवादो मिथ्यावादः तत एव च जिनप्रवचनवेदिनो मिथ्यावादित्वपरिजिहीया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते न तु जातुचिदपि स्यात्कारविरहितं यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात्स्यात्पदं प्रयुञ्जते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छन्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात्, उक्तं च- 'अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः ॥ १ ॥' अत्र 'अन्यत्रापी'ति अनुवादातिदेशादिवाक्येषु । ते च नया मूलभेदापेक्षया सप्त, तथा चाह - ' नेगमे' त्यादि, नैगमः संग्रहो व्यवहार ऋजुसूत्रश्चैव भवति बोद्धव्यः । शब्दश्च सममिरूढ एवंभूतश्चेति मूलनया इति गाथासङ्क्षेपार्थः। तत्र न एकं नैकं नायं नव् किन्तु न इति 'अन् खरे' इति न भवति, प्रभूतानीत्यर्थः, ततो नैकैः - प्रभूतसङ्ख्याकैर्मानैः -महासामान्यावान्तरसामान्यविशेषादिविषयैः प्रमाणैर्मिमीते - परिच्छिनत्ति वस्तुजातमिति नैगमः, पृषोदरादित्वादिष्टरूपसिद्धिः, यद्वा निश्चितो गमो नैगमः परस्परविविक्तसामान्यादिवस्तुग्रहणं स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाण्प्रत्ययविधानान्नैगमः, अथवा गमा:पन्थानो नैके गमा यस्य स नैगमः, पृषोदरादित्वात्ककारस्य लोपः, बहुविधवस्त्वभ्युपगमपर इत्यर्थः तथाहि - एष सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्व कर्मत्वादीनि तथा अन्त्यान् विशेषान् -सकलासाधारणरूपान् अवान्तरविशेषांश्च- पररूपव्यावर्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपान् प्रतिपद्यते, यतोऽसावेवमाह -संविन्निविष्टाः किल पदार्थव्यवस्थितयः, तत्र सर्वेष्वपि पदार्थेषु द्रव्यादिरूपेषु सत् सदित्यविशेषेण प्रत्यय उपजायते वचनं च न चैते तथारूपे प्रत्ययवचने द्रव्यादिमात्रनिबन्धने, द्रव्यादीनामसर्वव्यापकत्वात्, तथाहि— यदि द्रव्यमात्रनिबन्धनः सदिति प्रत्ययस्तर्हि स गुणादिषु न भवेत्, तत्र द्रव्यत्वाभावात्, गुणमात्रनिबन्धनवे द्रव्यादिषु न स्यात्, तत्र गुणत्वाभावात् एवं सर्वत्रापि भावनीयं, ततोऽस्ति द्रव्यादिभ्यो व्यतिरिक्तं महासत्ताख्यं नाम सामान्यं यद्वशादविशेषेण सर्वत्र सदिति प्रत्यय इति । तथा नवसु द्रव्येषु द्रव्यं द्रव्यमित्यनुगताकारप्रत्ययदर्शनात् द्रव्यत्वं नामावान्तरसामान्यं प्रतिपत्तव्यं, एवं गुणत्वकर्मत्वगोत्वाश्वत्वादीन्यपि, अमूनि चावान्तरसामान्यानि सामान्यविशेषा इत्युच्यन्ते, यत एतानि स्वस्वाधारविशेषेषु अनुगताकारप्रत्ययवचनहेतुत्वात् सामान्यानि विजातीयेभ्यो व्यावर्तमानत्वाच्च विशेषा इति सामान्यविशेषाः, तथा तुल्यजातिगुणक्रियाधाराणां नित्यद्रव्याणां परमाण्वाकाशदिगादीनामत्यन्तन्यावृत्तिबुद्धिहेतुत्वादन्त्या विशेषाः ते च योगिनामेव प्रत्यक्षाः अस्मदादीनां त्वनुमेयाः, तथाहि - तुल्यजातिगुणक्रियाधाराः परमाणवो व्यावर्तकधर्मसम्बन्धिनो व्यावृत्तिप्रत्ययविषयत्वात्, मुक्ताफलराश्यन्तर्गतसचि " 162
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy