SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सन्ना चउ सोयाइंदिया पंच ॥ ८४१ ॥ भोमाई नव जीवा अजीवकाओ य समणधम्मो य । वंताइदसपयारो एवं ठिय भावणा एसा ॥८४२॥ न करइ मणेण आहारसन्नविप्पजदगो उ नियमेण । सोइंदियसंवरणो पुढविजिए खंतिसंजुत्तो ॥ ८४३ ॥ इय महवाइजोगा पुढवीकाए हवंति दस भेया । आउक्कायाईसुवि इअ एए पिंडिअंतु सयं ॥ ८४४ ॥ सोइंदिएण एवं सेसेहिवि जं इमं तओ पंच । आहारसन्नजोगा इय सेसाहिं सहस्सदुगं ॥४५॥ एवं मणेण वयमाइएसु एवं तु छस्सहस्साइं । न करे सेसेहिपि य एए सधेवि अट्ठारा ॥ ८४६ ॥ शीलानानां-चारित्रांशानां तत्कारणानां वा सहस्राण्यष्टादश 'अत्र' यतिधर्मे शासने वा भवन्ति-स्युनियमेन-अवश्यम्भावेन न न्यूनान्यधिकानि वेति भावः, कथमित्याह-'भावेन' विशुद्धपरिणामेन, बहिर्वृत्त्या तु कल्पप्रतिसेवया न्यूनान्यपि स्युरिति भावः, केषामित्याह-श्रमणानां-साधूनां, न पुनः श्रावकाणां, सर्वविरतावेव तेषामुक्तसङ्ख्याकानां सम्भवात् , अथवा भावेन श्रमणानां न तु द्रव्यश्रमणानां, तेषामपि किंविधानामित्याह-'अखण्डचरित्रयुक्तानां' समप्रचरणप्रतिपन्नानां न तु दर्पप्रतिषेवया खण्डितचारित्रांशानां, नन्वखण्डचारित्रा एव सर्वविरता भवन्ति तत्खण्डने असर्वविरतत्वप्रसक्तेः, तथाहि-पडिवज्ज अइकम्मे पंच' इत्यागमप्रामाण्यात् सर्वविरतः पचापि महाव्रतानि प्रतिपद्यते अतिक्रामति च पश्चाप्येव नैकादिकमिति कथं सर्वविरतेर्देशखण्डनमिति ?, अत्रोच्यते, सत्यमेतत्, किन्तु प्रतिपस्यपेक्षं सर्वविरतत्वं, परिपालनापेक्षया त्वन्यथाऽपि सज्वलनकषायोदयात्स्यात् , अत एवोक्तम्-"सब्वेवि य अइयारा संजलणाणं तु उदयओ होती"ति [सर्वेऽप्यतिचाराश्च संज्वलनानामेवोदयतो भवन्ति] अतिचारा हि चारित्रदेशखण्डनरूपा एव, तथैकव्रतातिक्रमे सर्वव्रतातिक्रम इति यदुक्कं तदपि विवक्षया, सायं-"छेयस्स जाव दाणं ताव अइकमा नेव एगपि । एगं अइ. कमंतो अइकम्मे पंच मूलेणं ॥१॥"[छेदस्य यावदानं तावदतिक्राम्यति नैवैकमपि । एकमतिकाम्यन् अतिक्राम्यति पञ्च (शोधिश्च ) मूलेन ॥१॥] एवमेव हि दशविधप्रायश्चित्तविधानं सफलं स्यात्, अन्यथा मूलायेव तत्स्यात् , व्यवहारनयतश्चातिचारसम्भवः निश्चयतस्त्वसर्वविरततया भङ्ग एवेति पर्याप्तं प्रपञ्चेनेति ॥ ८३९॥ कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादश सहस्राणि भवन्तीत्याह'जोए' इत्यादि, योगे-करणादिव्यापारे विषयभूते करणे-योगस्यैव साधकतमे मनःप्रभृतिके, संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति, तत्र संज्ञासु-चेतनाविशेषरूपासु आहारादिषु इन्द्रियेषु-अक्षेषु प्रोत्रादिषु भूम्यादिषु-पृथिव्यादिजीवकायेध्वजीवकाये च श्रमणधर्मे चक्षान्त्यादौ शीलासहस्राणां प्रस्तुतानामष्टादश परिमाणमस्य वृन्दस्येत्यष्टादशकं तस्य निष्पत्तिः-सिद्धिर्भवति ॥ ८४०॥ योगादीनेव व्याख्यातुमाह-'करणाईति विभक्तिलोपात्करणादयः-करणकारणानुमतयत्रयो योगा भवन्ति, तथा मनआदीनि तु-मनोवचनकायरूपाणि पुनर्भवन्ति-स्युः करणानि त्रीण्येव, तथा आहारादयः-आहारभयमैथुनपरिप्रहविषया वेदनीयभयमोहनीयवेदमोहनीयलोभकषा. योदयसम्पाद्या अध्यवसायविशेषरूपाः, 'च'त्ति चतस्रः संज्ञा भवन्ति, तथा श्रोत्रादीनि-पश्चानुपूर्व्या श्रोत्रचक्षुर्घाणरसनस्पर्शनानीन्द्रियाणि पश्च भवन्ति, उत्तरोत्तरगुणावाप्तिसाध्यानि शीलाक्षानीति ज्ञापनार्थमिन्द्रियेषु पश्चानुपूर्वीति, तथा भूम्यादयः-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया नव जीवा-जीवकायाः, अजीवकायस्तु-अजीवकायः पुनर्दशमो यः परिहार्यतयोक्तः स च महामूल्यवत्रपात्रसुवर्णरजतादिरूपो दुष्प्रत्युपेक्षिताप्रत्युपेक्षितदूष्यपुस्तकचर्मतृणपश्चकादिरूपश्च, तथा श्रमणधर्मस्तु-यतिधर्मः पुनः क्षान्त्यादि:-क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिश्चन्यब्रह्मचर्यरूपो दशविध इति, 'एवं'ति एवमुक्तन्यायेन 'स्थिते औत्तराधर्येण पट्टकादौ व्यवस्थिते त्रिचतुःपञ्चदशदशसो मूलपदकलापे 'भावना' भङ्गप्रकाशना 'एषा अनन्तरवक्ष्यमाणलक्षणा शीलाङ्गनिष्पत्तिविषयेति ॥८४१ ॥ ८४२ ॥ तामेवाह न करेईत्यादि, न करोतीति करणलक्षणः प्रथमयोग उपात्तः, मनसेति प्रथमं करणं, 'आहारसन्नविप्पजढगोत्ति आहारसंज्ञाविप्रहीणः सन् , अनेन च प्रथमसंज्ञा तथा नियमेन-अवश्यन्तया श्रोत्रेन्द्रियसंवरणो-निरुद्धरागादिमच्छ्रोत्रेन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रियं, एवंविधः सन् किं न करोतीत्याह-पृथिवीजीवान् आरम्भविषयानिति शेषः, पृथिवीजीवारम्भं न करोतीति तात्पर्यार्थः, अनेन च प्रथमजीवस्थानं, क्षान्तिसंयुक्त:-क्षान्तिसम्पन्नः, अनेन च प्रथमश्रमणधर्मभेद उक्त इति ॥८४३॥ तदेवमेकं शीलाङ्गमाविर्भावितमिति, अथ शेषाण्यपि तान्यतिदेशतो दर्शयन्नाह–इये'त्यादि, 'इति' अनेनैव पूर्वोक्तामिलापेन मार्दवादियोगात्-मार्दवार्जवादिपदसंयोगेन 'पृथिवीकाये पृथिवीकायमाश्रित्य पृथिवीकायारम्भमित्यमिलापेनेत्यर्थः सम्भवन्ति-स्युर्दश भेदा-दश शीलविकल्पाः, अप्कायादिष्वपि नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इत्यनेन क्रमेण एते सर्वेऽपि भेदाः 'पिंडियं तु'त्ति प्राकृतत्वात् पिण्डिताः पुनः सन्तः अथवा पिण्डितं-पिण्डमाश्रित्य शत-शतसङ्ख्याः स्युरिति, श्रोत्रेन्द्रियेणैतत् शतं लब्धं, शेषैरपि चक्षुरादिभिर्यद्-यस्मादिदं शतं प्रत्येकं लभ्यते, ततो मिलितानि पञ्च शतानि स्युः, पञ्चत्वादिन्द्रियाणां, एतानि चाहारसंज्ञायोगलब्धानि इति, एवं शेषाभिरपि भयसंज्ञादिमिस्तिसृमिः पञ्च पश्च शतानि स्युः, सर्वमीलने च सहस्रद्वयं स्यात् , यतश्चतस्रः संज्ञा इति, एतत्सहस्रद्वितयं मनोयोगेन लब्धं, 'वयमाइएसु'त्ति वागायोः वचनकाययोः प्रत्येकमेतत्सहस्रद्वयं, इत्येवं षट् सहस्राणि, त्रिसङ्ख्यत्वात् मनोवचनकाययोगानां, एतानि न करोतीत्यनेन लब्धानि, शेषयोरपि च कारणानुमत्योः षट् षट् सहस्राणि स्युः, एते अनन्तरोक्ताः सर्वेऽपि शीलभेदाः पिण्डिताः सन्तोऽष्टादश सहस्राणि भवन्तीति । आलापकगाथाश्चैवमत्र करणीयाः-'न करेमि मणसाऽऽहारसन्नविरओ उ सोय 161
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy