SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ क्षुभ्यति स दृष्टिक्लीवः, यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दलीबः, यः पुनः पुरन्ध्रीमिरुपगूढो निमश्रितश्च व्रतं विधातुं न शक्नोति स यथाक्रममाश्लिष्ट कीबो निमश्रितक्लीबश्च विज्ञेयः ३ । यस्य तु मोहोत्कटतया सागारिकं वृषणी वा कुम्भवदुत्सूनौ भवतः स कुम्भी ४। तथा यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममा समुत्पद्यते स ईर्ष्यालु: ५ । तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६। तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्षे-शुकृपक्षेऽतीव मोहोद्भवो भवति अपक्षे च-कृष्णपक्षे स्वल्पः स पाक्षिकापाक्षिकः ८। तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिकः ९। तथा यो वीर्यपातेऽपि कामिनीमालिन्य तदनेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्तः १० । पण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेर्वा कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः ?, सत्यं, किन्तु तत्र पुरुषाकृतीनां ग्रहणं इह तु नपुंसकाकृतीनामिति, उक्तं च निशीथचूर्णी-'इयाणिं नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे, जइ जे पुरिसेसु वुत्ता ते चेव इहंपि किंकओ भेदो?, भन्नइ, तहिं पुरिसाकिई इह गहणा सेसयाण भवे'त्ति, एवं स्त्रीष्वपि वाच्यं । ननु नपुंसकाः षोडशविधाः श्रुते श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यं, दशैव तद्भेदाः प्रव्रज्याया अयोग्याः ततस्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव, तथा चोक्तम्-'वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते य, पव्वावेजा नपुंसए ॥ १॥ अस्यार्थः-आयत्यां राजान्तःपुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ भवतः स वर्द्धितकः, यस्य तु जातमात्रस्याङ्गुष्ठाङ्गुलीमिर्मर्दयित्वा वृषणौ द्राव्येते स चिप्पितः, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, तथा कस्यचिन्मत्रसामर्थ्यादन्यस्य तु तथाविधौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति, तथा कस्यचिन्मदीयतपःप्रभावानपुंसको भवत्वयमिति ऋषिशापात् , तथा कस्यचि जायते, इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रब्राजयेदिति १०९ ॥ इदानीं 'विगलंग'त्ति द्वारं दशो. चरशततममाह- .. हत्थे पाए कन्ने नासा उठे विवजिए चेव । वामणगवडभखुजा पंगुलटुंटा य काणा य ॥ ७९५ ॥ पच्छावि होति वियला आयरियत्तं न कप्पए तेसिं। सीसो ठावेयछो काणगमहिसोव निम्मंमि ॥७९६॥ . 'हत्थे'त्यादिगाथाद्वयं, इह सर्वत्र तृतीयार्थे सप्तमी, ततोऽयमर्थ:-हस्तेन उपलक्षणत्वात् हस्ताभ्यां वा पादेन पादाभ्यां वा कर्णेन काभ्यां वा नासया ओष्ठेन वा विवर्जिता-रहिताः तथा वामनका-हीनहस्तपादाद्यवयवाः पृष्ठतोऽप्रतो वा निर्गतशरीरा वडमाः एकपार्श्वहीनाः कुब्जा: पादगमनशक्तिविकलाः पङ्गलाः विकलपाणयः टुण्टाः काणा-एकाक्षाः एते सर्वेऽपि प्रव्राजनानहाः, प्रवचननिन्दादिदोषसम्भवादिति ॥ ७९६ ॥ अथ गृहीते व्रते ये विकलाङ्गा भवन्ति तेषां का वार्ता ?, तत्राह-पश्चादपि श्रामण्यस्थिता येऽक्षिगलनादिना विकला-विकलाङ्गा भवन्ति तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते, प्रवचनहीलनाप्रसक्तेः, येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकलाङ्गा जायन्ते तेषामपि न कल्पते धारयितुमाचार्यत्वं, किन्तु तैस्तथा विकलाङ्गैः सद्भिरात्मनः पदे कोऽप्याकतिम स्वादिगुणगणप्रशस्यः शिष्यः स्थापयितव्यः, आत्मा त्वप्रकाशे स्थाने स्थापयितव्यः, क इवेत्यत्राह-काणकमहिष इव निम्ने इयमत्र भावना-काणको नाम चोरित उच्यते, यथा चोरितमहिषो मा कोऽप्येनं द्राक्षीदिति हेतोमस्य नगरस्य वा बहिर्गरूपे निन्ने प्रदेशे उपलक्षणमेतदतिगुपिले वा वनगहने स्थाप्यते, एवमेषोऽपि, अन्यथा प्रवचनहीलनाप्रसक्तिः आज्ञादिभङ्गदोषप्रसङ्गश्च, केवलमस्यापि यत्कृत्यं तत्सर्वमपि स्थविराः कुर्वन्तीति ११०॥ ७९७ ॥ इदानीं 'जमुलं जइकप्पं वत्थंति एकादशोचरशततमं द्वारमाह मुल्लजुयं पुण तिविहं जहन्नयं मज्झिमं च उक्कोसं । जहन्नेणऽवारसगं सयसाहस्सं च उकोसं ॥७९७ ॥ दो साभरगा दीविचगा उ सो उत्तरावहो एक्को। दो उत्तरावहा पुण पाडलिपुत्तो हवइ एक्को ॥७९८॥दो दक्षिणावहा वा कंचीए नेलओ स दुगुणाओ। एको कुसुमनगरओ तेण पमाणं इमं होई ॥७९९॥ 'मुल्ले त्यादि गाथात्रयं, मूल्ययुक्तं पुनर्वस्त्रं त्रिविधं भवति-जघन्यं मध्यममुत्कृष्टं च, तत्र जघन्येन-जघन्यतोऽष्टादशकं यस्याष्टादश रूपका नाणकविशेषा मूल्यं तज्जघन्यं वस्त्रमित्यर्थः, शतसाहस्रं च-रूपकलक्षमूल्यमुत्कृष्टं, शेषं तु मध्यममिति, तत्रेह त्रिविधमपि मूल्ययुक्तं वस्त्रं साधूनां ग्रहीतुं न कल्पते, किन्त्वेतस्मादृष्टादशरूपकलक्षणान्मूल्याद्यन्यूनमूल्यं तदेव कल्पते, उक्तं च पञ्चकल्पबृहद्भाष्ये-"ऊणगअट्ठारसगं वत्थं पुण साहुणो अणुन्नायं । एत्तो वइरित्वं पुण नाणुनायं भवे वत्थं ॥१॥" [ऊनाष्टादशकं वस्त्रं पुनः साधूनामनुज्ञातं । इतो व्यतिरिक्तं पुनर्नानुज्ञातं भवेद्वस्त्रम् ॥१॥] ॥ ७९७ ॥ नन्विदं केन रूपकेण प्रमाणमित्याह-'साभरे'त्यादि, साभरको नाम रूपकः, ततो द्वीपस्थानसत्काभ्यां द्वाभ्यां साभरकाभ्यामुत्तरापथे एकः स साभरको भवति, द्वीपश्च यः सुराष्ट्रामण्डले दक्षिणस्यां दिशि योजनमात्रं समुद्रमवगाह्य तिष्ठति सोऽत्र गृह्यते, द्वाभ्यां च उत्तरापथाभ्यां-उत्तरापथसम्बन्धिभ्यां साभरकाभ्यां पाटलीपुत्रनगरसत्क एकः साभरक इति, अनेन रूपकेण वनप्रमाणमत्र कर्तव्यं ॥ ७९८॥ अथ प्रकारान्तरेण रूपकवरूपमाह 155
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy