________________
नताडनादिनानाविधानर्थनिबन्धनतया दीक्षानई एव ७ । तथा श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोह विधायको राजापकारी,पसम चये, तहीक्षणे रुष्टराजकृता मारणदेशनिःसारणादयो दोषा भवन्ति ८ । तथा यक्षादिमिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः सोऽपि न दीक्षाहः, यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्यायध्यानसंयमादिहानिप्रसङ्गाच ९ । तथा न विद्यते दर्शन-दृष्टिरस्त्यदर्शनः -अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः न विद्यते दर्शनं-सम्यक्त्वमस्येति व्युत्पत्तेः, अयं च दीक्षितः सन् दृग्विकलतया यत्र तत्र वा सञ्चरन् षट कायान् विराधयेत् विषमकीलकण्टकादिषु च प्रपतेत् , स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां च मारणादि कुर्यात १०। ॥७९॥ तथा गृहदास्याः सखातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रव्राजनादयो दोषाः ११ । तथा दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्र गुरुगृहीतसर्षपभर्जिकाव्यतिकरामिनिविष्ट. साध्वादिवदुत्कटकपायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः, सोऽपि दीक्षानोऽतिसंक्लिष्टाध्यवसायत्वात् १२ । तथा स्नेहादज्ञानादिपरतवतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः, सोऽपि ज्ञानविवेकमूलायामाईतदीक्षायां नाधिक्रियते, अज्ञानत्वात्कृत्याकृत्यादिविवेकविकलत्वाच्च १३ । तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणार्चः तस्य दीक्षादाने राजादिकता ग्रहणाकर्षणकदर्थनादयो दोषाः १४ । तथा जातिकर्मशरीरादिमिर्दूषितो जुङ्गितः, तत्र मातङ्गकोलिकबरुडसूचिकछिम्पादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटशुकादिपोषका वंशवरत्रारोहणनखप्रक्षालनसौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथा अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः स एवावबद्धकः, सोऽपि न दीक्षाईः कलहादिदोषसम्भवात् १६ । तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादे. शकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः, यस्यासौ वृत्तिं गृहाति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ । तथा शैक्षस्य-दीक्षितमिष्टस्य निस्फेटिका-अपहरणं शैक्षनिस्फेटिका तद्योगाद् यो मातापित्रादिमिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि न दीक्षोचितः, मातापित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच १८ । इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानहीं भेदा इति १०७ ।। ७९१ ॥ इदानीं 'वीसं इत्थीसुन्ति अष्टोत्तरशततमं द्वारमाह
जे अट्ठारस भेया पुरिसस्स तहित्थियाएँ ते चेव । गुविणी १ सवालवच्छा २ दुन्नि इमे टुंति
अन्नेवि ॥७९२॥ येऽष्टादश भेदाः पुरुषेष्वदीक्षणाय उक्तास्तथा-तेनैव प्रकारेण स्त्रियोऽपि त एव भेदा अष्टादश विज्ञेयाः, अयमर्थ:-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि बतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव, अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी-सगी सह बालेन-स्तनपायिना वत्सेन वर्तते सा सबालवत्सा, एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः, दोषा अप्यत्र पूर्ववद्वाच्याः १०८॥ ७९२ ॥ इदानीं 'दस नपुंसेसु' इति नवोत्तरशततमं द्वारमाह
पंडए १ वाइए २ कीवे ३, कुंभी ४ ईसालुयत्ति य ५। सउणी ६ तकमसेवी ७ य, पक्खियापक्खिए ८ इय ॥ ७९३ ॥ सोगंधिए य ९ आसत्ते १०, दस एते नपुंसगा । संकिलिहित्ति साहूणं,
पहावे अकप्पिया ॥७९४॥ 'पंडए' इत्यादिश्लोकद्वयं, पण्डको वातिकः क्लीवः कुंभी ईर्ष्यालुः शकुनिस्तत्कर्मसेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुंसकाः सस्कृिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्या व्रतायोग्या इत्यर्थः, सच्छिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयं, उभयसेविनो ह्येते इति ॥ ७९३ ॥ ७९४ ॥
तत्र पण्डकस्य लक्षणं-महिलासहावो सरवन्नभेओ, मिंद महंतं मउया य वाणी। ससइयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्खणाणि ॥१॥ इति वृत्तादवसेयं, अस्य व्याख्या-पुरुषाकारधारिणोऽपि महिलाखभावत्वं पण्डकस्यैकं लक्षणं, तथाहि-गतिस्त्रस्तपदाकुला मन्दा च भवति सशवच पृष्ठतोऽवलोकमानो गच्छति शरीरं च शीतलं मृदु च भवति योषिदिवानवरतं हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाइक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन भाषते अभीक्ष्णं च कटिहस्तकं ददाति प्रावरणाभावे खीवद् बाहुभ्यां हृदयमाच्छादयति भाषमाणश्च पुनः पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति योषिदाभरणादिपरिधानं च बहुमन्यते नानादिकं च प्रच्छन्ने समाचरति पुरुषसमाजमध्ये च सभयः शतितस्तिष्ठति स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं च रन्धनकण्डनपेषणादिकं कर्म विदधाति इत्यादिमहिलावभावत्वं पण्डकलक्षणं १ तथा 'स्वरवर्णभेदः' स्वर:-शब्दो वर्ण:-शरीरसम्बन्धी उपलक्षणत्वाद्गन्धरसस्पर्शाश्व स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २-३ मेहनंपुरुषचिहं महद्भवति ४ मृद्वी च वाणी ललनाया इव जायते ५ तथा खिया इव सशब्दं मूत्रं जायते फेनरहितं च तद्भवति ६ एतानि षट् पण्डकलक्षणानि १ । तथा वातोऽस्यास्तीति वातिकः यः खनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुं न शक्नोति २। तथा क्लीबः-असमर्थः, स चतुर्घा दृष्टिशब्दाश्लिष्टनिमन्त्रणालीबभेदात्, तत्र यो विवखाद्यवस्थं विपक्षं वीक्ष्य
154