________________
णार्थ छायायां पुष्पफलप्रदवृक्षादिसम्बन्धिन्यां निर्गतायां व्युत्सृजति, अथ छायाऽद्यापि न निर्गच्छति मध्याह्ने एव संज्ञाप्रवृत्तेः ततश्छा याया असति-अभावे उष्णेऽपि स्वशरीरच्छायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च मुहूर्तकं - अल्पं मुहूर्त तथैव तिष्ठति येन एतावता कालेन स्वयोगतस्ते परिणमन्ति, अन्यथोष्णेन महती परितापना स्यात् ॥ ७८८ ॥ अथ व्युत्सृजन् खोपकरणं कथं धरतीत्याह'उवे 'त्यादि, उपकरणं - दण्डकं रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं च दक्षिणे हस्ते क्रियते, डगलानि च वामहस्तेन धरणीयानि, ततः संज्ञां व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं पुंसयति-रुक्षयति, पुंसयित्वा त्रिभिर्नावापूरकैः चुलुकैरित्यर्थः आचमनं - निर्लेपनं करोति, उक्तं च — 'तिर्हि नावापूरएहिं आयामइ निल्लेवेइ, नावा - पसई' इति, तदपि चाचमनमदूरे करोति, यदि पुनर्दूरे आचमति तत उड्डाहो यथा कश्चिद् दृष्ट्वा चिन्तयेत् — अनिर्लिप्तपुतो गत एष इति ॥ १०६ ॥ ७८९ ॥ इदानीं 'अट्ठारस पुरिसेसु'ति सप्तोत्तरशततमं द्वारमाह
बाले १ बुढे २ नपुंसे य ३, कीवे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी य ८, उम्मत्ते य ९ अदंसणे १० ॥ ७९० ॥ दासे ११ दुट्ठे य १२ मूढे य १३, अणत्ते १४ जुंगिए इय १५ । ओबद्धए य १६ भयए १७, सेहनिप्फेडिया इय १८ ॥ ७९१ ॥
'बाले 'त्यादि लोकद्वयं, जन्मत आरभ्य अष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते स किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोऽप्यष्टौ वर्षाणि यावद्दीक्षां न प्रतिपद्यते, वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात्, उक्तं च“एएसि वयपमाणं अट्ठ समाउत्ति वीयराएहिं । भणिअं नहन्नगं खलु” इति [एतेषां वयःप्रमाणमष्ट समा इति वीतरागैर्भणितं जघन्यकं खलु ] अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते, यदुक्तं निशीथचूर्णी - “आदेसेण वा गन्भट्ठमस्स दिक्ख"त्ति [ आदेशेन वा गर्भाष्टमस्य' दीक्षेत ] भगवद्वस्वामिना व्यभिचार इति चेत्, तथाहि भगवान् वज्रस्वामी षाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसावद्यविरतिः श्रूयते, तथा च सूत्र - 'छम्मासियं छसु जयं माऊए समन्नियं वंदे' [ षाण्मासिकं षट्सु यतं मात्रा समन्वितं वन्दे ] सत्यमेतत्, किन्त्वियं शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः, उक्तं च पञ्चवस्तुके – “तदधो परिहवखेत्तं न चरणभावोऽवि पायमेएसिं । आहवभावकहगं सुत्तं पुण होइ नायव्वं ॥ १ ॥" अस्या व्याख्या - तेषामष्टानामघो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति, येन तेन वाऽतिशिशुत्वात्परिभूयन्ते तथा चरणभावोऽपि - चरणपरिणामोऽपि प्राय एतेषां - वर्षाष्टकादधोवर्तमानानां न भवति, यत्पुनः सूत्रं 'छम्मासियं छसु जयं माऊए समन्नियं वंदे' इत्येवंरूपं तत् 'आहञ्चभावकहगं' कादाचित्कभावक -' थकं, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरण परिणामाभावाच्च न दीक्ष्यन्ते इति, अन्यच्च बालदीक्षणायां संयमविराधनादयो दोषाः, स हि अयोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति, तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा, तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति १ । तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अपरे त्वाहुः - अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते, तस्यापि च समाधानादि कर्तु दुःशकं, यदुक्तम् - " उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खियव्वो जइ जाओ वासुदेवेणं ॥ १ ॥” [ उच्चासनं समीहते विनयं न करोति गर्वमुद्वहति । वृद्धो न दीक्षितव्यो यदि जातो वासुदेवेन ॥ १ ॥ ] इत्यादि, इदं च वर्षशतायुष्कं प्रति द्रष्टव्यं, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टमनवमदशमभागेषु वर्तमानस्य वृद्धत्वमवसेयं २ । तथा स्त्रीपुंसोभयाभिलाषी पुरुषाकृतिः पुरुषनपुंसकः, सोऽपि बहुदोष कारित्वाद्दीक्षितुमनुचितः 'बाले बुड़े य येरे य इति पाठस्तु निशीथादिष्वदर्शनादुपेक्षितः ३ । तथा स्त्रीमिर्भोगैर्निमश्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मथोलापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं यो न शक्नोति स पुरुषाकृतिः पुरुषक्कीबः, सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वाद्दीक्षाया अनर्ह एव ४ । तथा जडस्त्रिविधो - भाषया शरीरेण करणेन च, भाषाजडुः पुनरपि त्रिविधो - जलमूको मन्मनमूक एलकमूकश्च तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खथ्यमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, तथा यः पथि मिक्षाटने वन्दनादिषु वाऽतीव स्थूलतया अशक्तो भवति स शरीरजडुः, करणं-क्रिया तस्यां जडुः करणजडुः, समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणसंयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजडु इत्यर्थः, तत्र भाषाजस्त्रिविधो ऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यते, शरीरजस्तु मार्गगमनभक्तपानाद्यानयनादिषु असमर्थो भवति, तथा अतिजडुस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते ततः संयमविराधना, तथा लोको निन्दां करोति - अहोऽसौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्य, न हि गलचौर इति, तथा तस्योर्द्धश्वासो भवति, अपरिक्रमच सर्पजलज्वलनादिषु समीपमागच्छत्सु स भवति, ततोऽसौ न दीक्षणीयः, तथा करणजडोऽपि समितिगुप्त्यादीनां शिक्ष्यमाणो - ऽप्यग्राहकत्वान्न दीक्षणीय इति ५ । तथा 'वाहिए'त्ति भगन्दरातिसार कुष्ठप्लीहका कासज्वरादिरोगैर्प्रस्तो व्याधितः, सोऽपि न दीक्षार्हः, तस्य चिकित्सने षट्कायविराधना स्वाध्यायादिहानिश्व ६ । तथा क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छस्य वधबन्ध
153