________________
'दक्खिणे 'त्यादि, वाशब्दः प्रकारान्तरद्योतने द्वौ दक्षिणापथसत्कौ रूपकौ काथ्वीनगर्याः सम्बन्धी नेलको रूपक इत्यर्थः, स च नेलको द्विगुणः सन् एकः कुसुमनगरज : - पाटलीपुत्रसम्बन्धी रूपकः तेन रूपकेणेदमष्टादशकादि प्रमाणं भवतीति ॥ १११ ॥ ॥ ७९९ ॥ इदानीं 'सेज्जयरपिंडो 'त्ति द्वादशोत्तरशततमं द्वारमाह
सेज्जायरो पहू वा पहुसंदिट्ठो य होइ कायवो । एगो णेगे य पहू पहुसंदिद्वेवि एमेव ॥ ८०० ॥ सागारियसंदिट्ठे एगमणेगे चउक्कभयणा उ । एगमणेगा वज्जा णेगेसु य ठावए एगं ॥ ८०१ ॥ अन्नत्थ वसेऊणं आवस्सग चरिममन्नहिं तु करे । दोन्निवि तरा भवंती सत्याइसु अन्नहा भयणा ॥ ८०२ ॥ जइ जग्गंति सुविहिया करेंति आवस्सयं तु अन्नत्थ । सिज्जायरो न होई सुत्ते व कए व सो होई ॥। ८०३ ॥ दाऊण गेहं तु सपुत्तदारो, वाणिज्जमाईहि उ कारणेहिं । तं चैव अन्नं व वएज दे, सेज्जायरो तत्थ स एव होइ ॥ ८०४ || लिंगत्थस्सवि वज्जो तं परिहरओ व भुंजओ वावि । जुत्तस्स अजुत्तस्स व रसावणे तत्थ दितो ॥ ८०५ ।। तित्थंकर पडिकुट्ठो अन्नायं उग्गमोवि य न सुज्झे । अविमुत्ति अलाघवया दुल्लहसेज्जा उ वोच्छेओ ॥ ८०६ ॥ पुरपच्छिमवज्जेहिं अवि कम्मं जिणवरेहिं लेसेणं । भुत्तं विदेहएहि य न य सागरिअस्स पिंडो उ ॥ ८०७ ॥ बाहुल्ला गच्छस्स उ पढमालियपाणगाइकज्जेसु । सज्झायकरणआउट्टिया करे उग्गमेगयरं ॥ ८०८ ॥
'सेज्जे 'त्यादिगाथानवकं शय्यया - साधुसमर्पितगृहलक्षणया संसारसागरं दुस्तरमपि तरतीति शय्यातरः स द्विधा भवति कर्तव्यः प्रभुर्वायतिप्रदत्तोपाश्रयस्वामी प्रभुसन्दिष्टो वा - तेनैव प्रभुणा यत्कृतप्रमाणतया निर्दिष्टः, तत्र यः प्रभुः स एको वा भवेदनेको वा, प्रभुसन्दिष्टोऽप्येवमेव वाच्यः कोऽर्थः ? - प्रभुसन्दिष्टोऽप्येको वाऽनेको वा भवतीति ॥ ८०० ॥ अमुमेवार्थ विशेषत आह- 'सागारिये 'त्यादि, सागारिक:साधूपाश्रयस्वामी सन्दिष्टश्च - प्रभुसन्दिष्टः प्रत्येकमेको वाऽनेके वा भवन्ति, ततश्चतुष्कभजना - चतुर्भङ्गी ज्ञातव्या, तद्यथा-एक: प्रभुकः प्रभुसन्दिष्ट इति प्रथमो भङ्गः, एकः प्रभुरनेके प्रभुसन्दिष्टा इति द्वितीयः अनेके प्रभव एकः प्रभुसन्दिष्ट इति तृतीयः, अनेके प्रभवोऽनेके च प्रभुसन्दिष्टा इति चतुर्थो भङ्गः, ते च शय्यातरा एको वाऽनेके वा वर्जनीयाः, अत्रैवापवादमाह - 'अणेगेसु य ठावए एगं'ति अनेकेषु - बहुषु शय्यातरेषु सत्सु एकं कमप्यपवादपदेन शय्यातरं स्थापयेत् इयमत्र भावना - बहुजनसाधारणा वसतिः कापि लब्धा, तत्र च साधुसामाचारीकुशलाः श्रावका यद्येवं वदन्ति एकं कमपि शय्यातरं स्थापयत मा सर्वानपि परिहरतेति तदा एकं शय्यातरं स्थापयित्वा शेषगृहेषु भिक्षां गृह्णन्ति, यद्वा बहवस्तत्र साधवस्ततो यदि सर्वेऽपि संस्तरन्ति तदा सर्वानपि शय्यातरान् कुर्वन्ति, असंस्तरणे तु एकं शय्यातरमिति, ग्रहणविधिश्चायं द्वयोः शय्यातरयोरेकान्तरेण भिक्षाग्रहणवारको भवति त्रिषु शय्यातरेषु तृतीयदिने चतुर्षु चतुर्थदिने एवं वारकेण भिक्षां गृहन्तीति ॥ ८०१ ।। अथायं शय्यातरः कदा भवति ?, तत्राह - ' अन्नत्थे 'त्यादि, अन्यत्र -अन्यस्मिन् कस्मिंश्चित् सार्थे ग्रामादौ वा उषित्वा सुत्वेत्यर्थः चरमं - प्राभातिकमावश्यकं - प्रतिक्रमणमन्यत्र - स्थानान्तरे गत्वा यदि कुर्वन्ति तदा द्वावपि 'तर'ति एकदेशेन समुदायोपचारात् शय्यातरौ भवतः यस्यावग्रहे रात्रौ सुप्तो यदवग्रहे च प्राभातिकं प्रतिक्रमणं कृतं तौ . द्वावपि शय्यातरौ भवत इति भावः, इदं च प्रायशः सार्थादिषु सम्भवति आदिशब्दाच्च चौरावस्कन्दभयादिपरिग्रहः, अन्यथा तु - प्रकारान्तरसद्भावे भजना - शय्यातरस्य विकल्पना, यस्य गृहे स्थिताः स वाऽन्यो वा शय्यातरो भवतीत्यर्थः ।। ८०२ ॥ तामेव भजनामाह - 'जई' त्यादि, यदीत्यभ्युपगमे रात्रैश्चतुरोऽपि प्रहरान् जाग्रति शोभनं विहितं -अनुष्ठानं येषां ते सुविहिताः साधव इत्यर्थः आवश्यकं तु - प्राभातिकप्रतिक्रमणं पुनरन्यत्र गत्वा कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, किन्तु सुप्ते वा - शयने वा कृते सति कृते वा प्राभातिक प्रतिक्रमणे शय्यातरो भवति, अयमत्र तात्पर्यार्थः - शय्यातरगृहे सकलां रात्रिं जागरित्वा प्राभातिकप्रतिक्रमणं यद्यन्यत्र कुर्वन्ति तदा मौलः शय्यातरो न भवति किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ शय्यातरगृहे रात्रौ सुत्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदा स एव शय्यातर इति, यदा तु वसतिसङ्कीर्णतादिकारणादनेकोपाश्रयेषु साधवस्तिष्ठन्ति तदा यत्राचार्यः स्थितः स एव शय्यातरो नान्य इति ॥ ८०३ ॥ ननु साधूनां गृहमर्पयित्वा गृहस्वामी यदा देशान्तरं व्रजति तदा शय्यातरो भवति वा न वा ?, तत्राह — 'दाऊणे'त्यादि वृत्तं कश्चिद् गृहस्थः साधूनां गृहं दत्त्वा 'सपुत्रदारः ' पुत्रकलत्रादिसकलनिजलोकपरिवृतो वणिज्यादिमि: कारणैस्तमेव देशमन्यं वा व्रजेत्, तत्रापि च स्थितो यदि तस्य गृहस्य स्वामी तदा स एव शय्यातरो भवति, न पुनर्दूरदेशान्तरस्थितत्वात्तस्य शय्यातरत्वं न भवतीति ॥ ८०४ ॥ अथायं शय्यातरः कस्य सम्बन्धी परिहरणीयस्तत्राह - 'लिंगत्थे' त्यादि, लिङ्गस्थस्यापि - लिङ्गमात्रधारिणोऽपि साधुगुणविरहितस्यापीत्यर्थः सम्बन्धी शय्यातरो वर्जनीयः आस्तां तावदितरस्य चारित्रिण इति, स च साधुस्तं 'शय्यातरपिण्डं परिहरतु वा भुङ्कां वा तथापि वर्ज्यः, अथ साधुगुणैर्वियुक्तस्य शय्यातरः कस्मात्परिहियते ?, उच्यते, साधुगुणैर्युक्तस्यायुक्तस्य वा शय्यावरः सर्वथा परिहर्तव्यः, अत्र च 'रसापणो' मद्यापणो दृष्टान्तः, तथाहि - महाराष्ट्राख्ये देशे सर्वेष्वपि मद्यहट्टेषु मद्यं भवतु वा मा वा तथापि तत्परिज्ञापनार्थ ध्वजो बध्यते, तं च दृष्ट्वा सर्वेऽपि मिक्षाचरादयोऽभोज्यमितिकृत्वा परिहरन्ति एवमसावपि साधुगुणैर्युक्तो वा भवतु अयुक्तो वा तथाप्यस्य रजोहरणध्वजो दृश्यत इतिकृत्वा शय्यातरः परिहियत इति ।। ८०५ ।। अथ
156