________________
विषये वीथीनां-मार्गाणामष्टकं ९७, तथा प्रायश्चित्तानि वाच्यानि ९८ इत्येकविंशतितमगाथायां पञ्चनवत्यादीनि अष्टनवत्यन्तानि चत्वारि द्वाराणि ॥ २२ ॥ समाचारी ओघे-सामान्ये ९९. तथा पदविभागे-छेदप्रन्थोक्तस्वरूपे १०० तथा दशविधचक्रवाले-प्रतिदिनकरणीयसमाचारे संख्या वाच्या १०१, तथा निर्ग्रन्थत्वं-साधुविशेषत्वं पञ्चवारान् भववासे-संसारावस्थाने १०२ इति द्वाविंशतितमगाथायां नवनवत्यादीनि यधिकशततमान्तानि चत्वारि द्वाराणि ॥ २३ ॥ साधूनां विहारस्वरूपं १०३, तथा अप्रतिवद्धश्च स विहारो विधातव्यः १०४, तथा जातकल्पोऽजातकल्पश्च वक्तव्यः, जाता:-गीतार्था भण्यन्ते अजाताश्च-अगीतार्थाः १०५, तथा परिष्ठापनोचारकरणयोर्दिक १०६ इति त्रयोविंशतितमगाथायां व्यधिकशततमादीनि षडुत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २४ ॥ अष्टादश पुरुषेषु १०७ तथा विंशतिः स्त्रीषु १०८ तथा दश नपुंसकेषु प्रव्राजनानर्हाः १०९, तथा विकलाङ्गस्वरूपाश्च ११० इति चतुर्विशतितमगाथायां सप्तोत्तरशततमादीनि दशोत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २५ ॥ यत् मूल्यं यस्य तत् यन्मूल्यं यतीनां-मुनीनां कल्प्यं-कल्पनीयं वस्त्रं १११, तथा शय्यातरस्य पिण्डश्च कल्प्योऽकल्प्यो वेति ११२, तथा यावति सूत्रे सति सम्यक्त्वमवश्यम्भावि ११३, तथा निर्मन्था अपि चतुर्गतिका भवन्ति, चतस्रो नरकादयो गतयो येषां ते चतुर्गतिकाः ११४ इति पञ्चविंशतितमगाथायामेकादशोत्तरशततमादीनि चतुर्दशोत्तरशततमान्तानि चत्वारि द्वाराणि ॥ २६ ॥ क्षेत्रे तथा मार्गे तथा काले तथा प्रमाणे चातीतं-भणितप्रमाणात् क्षेत्रादेरतिक्रान्तं अकल्प्यं यत् तद्भणनीयं ११५-११६-११७-११८, तथा दुःखशय्याचतुष्कं ११९, तथा सुखशय्याचतुष्कं १२०, वथा-त्रयोदश क्रियास्थानानि १२१ इति षडिंशतितमगाथायां पञ्चदशोत्तरशततमादीनि एकविंशत्युत्तरशततमान्तानि सप्त द्वाराणि ॥ २७ ॥ एकस्मिन् भवे बहुषु च भवेषु आकर्षा-विरूपाध्यवसायविशेषाश्चतुर्विधेऽपि सामायिके श्रुतसामायिक-सम्यक्त्वसामायिक-देशविरति०सर्वविरति लक्षणे कियन्तो भवन्ति ? १२२, तथा शीलस्याङ्गभूताः-कारणभूता ये पदार्यास्तेषामष्टादशसहस्रा वाच्याः १२३, तथा नयानां-नैगमादीनां सप्तकं च १२४ इति सप्तविंशतितमगाथायां द्वाविंशत्युत्तरत्रयोविंशत्युत्तरचतुर्विशत्युत्तरशततमानि त्रीणि द्वाराणि ॥२८॥ वनग्रहणस्य विधानं १२५, तथा व्यवहारा-आगमादयः पञ्च १२६, तथा यथाजातं-चोलपट्टकादि १२७, तथा निशि जागरणे विधिः १२८, तथा आलोचनादायकस्य गुरोरन्वेषा-अन्वेषणा १२९ इत्यष्टाविंशतितमगाथायां पञ्चविंशत्युत्तरशततमादीनि एकोनत्रिंशदुतरशततमान्तानि पञ्च द्वाराणि ॥ २९ ॥ गुरुप्रमुखाणां क्रियतेऽशुद्धैः शुद्धैश्च वस्तुमिर्यावन्तं कालं प्रतिजागरणमिति शेषः १३०, तथा उपधेर्धावनकाल:-प्रक्षालनप्रस्तावः १३१, तथा भोजनस्य भागाः १३२, तथा वसतिशुद्धिः १३३ इत्येकोनत्रिंशत्तमगाथायां त्रिंशदुत्तरशततमादीनि त्रयस्त्रिंशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ३०॥ संलेखना-शरीरशोषणा द्वादश वर्षाणि १३४, तथा वृषभेण-बलीवर्दैन कल्पितेन वसतेर्ग्रहणं १३५, तथोष्णस्य प्रासुकस्यापि जलस्य सचित्तताकालः १३६, उष्णं-प्रासुकमपि जलं जातं कियता कालेन पुनः सचित्तं भवतीत्यर्थः, इति त्रिंशत्तमगाथायां चतुर्विंशदुत्तरपश्चत्रिंशदुत्तरपत्रिंशदुत्तरशततमानि त्रीणि द्वाराणि ॥ ३१॥ इह षष्ठयाः पञ्चम्यर्थत्वात् तिरश्यो तिरश्चां मानव्यो मानवानां देव्यो देवानां यद्गुणाः, यो गुणो-गुणकारो यासां ताः तथा, यावता गुणकारेण तिर्यक्पुरुषादिभ्योऽधिकास्तिरश्यादय इत्यर्थः, यावन्मात्रेणाधिकाश्च सर्वाः नियो गुणकारादप्युद्धरिताः १३७ इत्येकत्रिंशत्तमगाथायां सप्तत्रिंशदुत्तरशततममेकं द्वारम् ॥ ३२ ॥ आश्चर्याणां दशकं १३८, तथा चतस्रो भाषाः १३९, तथा वचनानां षोडशकं १४०, तथा मासानां पञ्च भेदाः १४१, तथा भेदा:-प्रकारा वर्षाणां पञ्चैव १४२ इति द्वात्रिंशत्तमगाथायामष्ठत्रिंशदुत्तरशततमादीनि द्विचत्वारिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ॥ ३३ ॥ लोकस्वरूपं १४३, तथा संज्ञास्तिस्रः १४४ तथा चतस्रो वा १४५ तथा दश वा १४६ पश्चदश वा १४७, तथा सप्तषष्टिलक्षणभेदविशुद्धं च सम्यक्त्वम् १४८ इति त्रयस्त्रिंशत्तमगाथायां त्रिचत्वारिंशदुत्तरशततमादीनि अष्टचत्वारिंशदुत्तरशततमान्तानि षड् द्वाराणि ॥ ३४ ॥ एकविधमनस्थितसम्यक्त्वशब्दसम्बन्धात्सम्यक्त्वं, प्राकृतशैल्या प्रथमैकवचनमत्राओतनपदेषु च लुप्तं द्रष्टव्यं, तथा द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं द्रव्यादिकारकादिउपशमभेदैर्वा सम्यक्त्वं वाच्यं १४९, इति चतुस्त्रिंशत्तमगाथायामेकोनपश्चाशदुत्तरशततममेकं द्वारम् ।। ३५ ।। कुलकोटीनां सङ्ख्या जीवानां सम्बन्धिनी भणनीया १५०, तथा जीवानामेव सम्बन्धिनी योनिलक्षचतुरशीतिः १५१, तथा "त्रैकाल्यं द्रव्यषट"मित्यादिवृत्तस्य योऽर्थस्तस्य विवरणं १५२, तथा श्राद्धानां-श्रावकाणां प्रतिमा १५३ इति पञ्चत्रिंशत्तमगाथायां पञ्चाशदुत्तरशततमादीनि त्रिपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ३६ ॥ धान्यानामबीजत्वं १५४, तथा क्षेत्रातीतानामचित्तत्वं १५५, तथा धान्यानां चतुर्विशतिर्नामतः कथ्या १५६, तथा मरणं सप्तदशभेदं १५७, चः समुच्चये, इति षट्त्रिंशत्तमगाथायां चतुष्पञ्चाशदुत्तरशततमादीनि सप्तपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ३७॥ पल्योपमस्य १५८ तथा न तरीतुं, शक्यत इत्यतर:-सागरः एकदेशेन समुदायावगमात् सागरोपमं तस्य १५९ तथा अवसर्पिण्याः स्वरूपं १६० तथा उत्सर्पिण्याः स्वरूपं १६१ तथा द्रव्ये क्षेत्रे काले भावे च पुद्गलपरावर्तो भणनीयः १६२ इति सप्तत्रिंशत्तमगाथायामष्टपञ्चाशदुत्तरशततमादीनि द्विषष्ट्युत्तरशततमान्तानि पश्च द्वाराणि ॥ ३८ ॥ पश्चदश कर्मभूमयो यत्र तीर्थकरादय उत्पद्यन्ते १६३, तथा अकर्मभूमयस्त्रिंशद् यत्र धर्मादिकं न किञ्चिद् ज्ञायते १६४, तथा अष्टौ मदाः १६५, तथा द्वे शते त्रिचत्वारिंशदधिके भेदाः प्राणातिपातस्य १६६ इत्यष्टत्रिंशत्तमगाथायां त्रिषष्ट्युत्तरशततमादीनि षषष्ट्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ३९॥ परिणामानाम्-अभ्यवसायविशेषाणामष्टोत्तरशतं १६७, तथा ब्रह्मचर्यमष्टादशभेदं १६८, तथा कामानां चतुर्विशतिः १६९, तथा दश