________________
दीनि पञ्चविंशतितमान्तान्येकादश द्वाराण्यमिहितानि ॥ ६ ॥ जिनानां यक्षास्तथा देव्यः - शासनदेवताः तथा तनुमानं - शरीरप्रमाणं २६-२७-२८, तथा लाञ्छनानि - चिह्नानि २९, तथा वर्णा- रक्तादयः ३०, तथा व्रतस्य परिवारः कः कियता परिवारेण सह व्रतमप्रहीदिति ३१, तथा सर्वायुष्कं ३२, चः समुच्चये तथा शिवगमनपरिवारो - मोक्षगमनसमये कः कियता परिवारेण तत्र गत इति वाच्यं ३३, एवं षष्ठगाथायां षडि़िशतितमादीनि त्रयस्त्रिंशत्तमान्तान्यष्टौ द्वाराण्यभिहितानि ॥ ७ ॥ जिनानां निर्वाणगमने यत्स्थानं तदभिधेयं ३४, तथा जिनान्तराणि - एकस्माज्जनादपरो जिनः कियता कालव्यवधानेन सिद्ध इत्येवंरूपाणि ३५ चः समुच्चये, तथा तीर्थव्यवच्छेदः - चतुर्वर्णश्रमणसङ्घस्य व्यवच्छेदः कदा कुत्र कथं जात इति भणनीयं ३६, तथा दश चतुरशीतिर्वा ज्ञानदर्शनादीनामायं - लाभ शातयन्तीत्याशातना वाच्याः ३७-३८, तथा प्रातिहार्याणि - प्रतिहारकर्माणि तीर्थकृतामभिधेयानि ३९, इति सप्तमगाथायां चतुखिंशचमादीनि एकोनचत्वारिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ८ ॥ चतुस्त्रिंशदतिशयानामर्हतो वाच्या ४० तथा दोषा अष्टादश आर्हन्त्यप्रतिपन्थिनो भणनीयाः ४१, तथाऽई चतुष्कं -नामाईदादिभेदेनाभिधेयं ४२ तथा निष्क्रमणे - दीक्षायां ४३ तथा ज्ञानेकेवलालोकोत्पत्तौ ४४ तथा निर्वाणे च-मोक्षगमनसमये जिनानां तपांसि वाच्यानि ४५, इत्यष्टमगाथायां चत्वारिंशत्तमादीनि पञ्चचत्वारिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ९ ॥ भाविनां - अप्रेतनोत्सर्पिण्यां भविष्यतां जिनेश्वराणां जीवा वक्तव्याः ४६, तथा सा ऊर्द्धावस्तिर्यग्लोकसिद्धानां - कियन्त ऊर्द्धलोके कियन्तोऽधोलोके कियन्तश्च तिर्यग्लोके एकसमये सिद्ध्यन्तीति प्रतिपाद्यं ४७, तथा एकस्मिन् समये सिद्धानां सङ्ख्या अभिधेया एकस्मिन् समये कियन्तः सिद्ध्यन्तीत्यर्थः ४८, तथा ते सिद्धाः पश्वादशमिर्भेदैः प्रतिपाद्या ४९ इति नवमगाथायां षट्चत्वारिंशदादीन्येकोनपचाशत्तमान्तानि चत्वारि द्वाराण्युक्तानि ॥ १० ॥ अवगाहन्ते जीवा यस्यामित्यौणादिकेऽनप्रत्ययेऽवगाहना - तनुस्तस्यामुत्कृष्टायामेकसमयेन कियन्तः सिद्ध्यन्ति ? जघन्यायां तस्यां कियन्तः १ मध्यमायां च कियन्त इत्यभिधेयं ५० चः समुचये, तथा गृहिलिने—–गृहस्थलिने अन्यलिङ्गे - जटाधराद्यन्यतीर्थिकलिङ्गे खलिने च-रजोहरणादिलिङ्गे एकसमयेन सिद्ध्यतां सङ्ख्या भणनीया ५१ इति दशमगाथायां पञ्चाशत्तमैकपञ्चाशत्तमे द्वे द्वारे अमिहिते ॥ ११ ॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्षष्टिद्विसप्ततिचतुरशीविषण्णवतिव्युत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्वयादयो द्वात्रिंशदायन्ताः सिद्ध्यन्ति निरन्तरं यावदष्टभिरधिकं शतं अष्टमिः समयैरेकैकोनैर्यावदेकसमयान्तं, अयमर्थः - एकस्मिन् समये एको द्वौ वा यावद् द्वात्रिंशत्सियन्ति एवं द्वितीयादिष्वपि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं तथा पूर्ववत् त्रयत्रिंशदादय एककादयो वा सप्त समयान् यावनिरन्तरं सिद्ध्यन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं ५२ इत्येकादशगाथायां द्विपश्वाशमेकं द्वारं ॥ १२ ॥ श्रीवेदे पुंवेदे नपुंसकवेदे च सिद्ध्यतां सङ्ख्या वाच्या ५३, तथा सिद्धानां संस्थानं ५४, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं ५५ इत्यस्यां द्वादशगाथायां त्रिपभ्वाशचतुष्पश्चाशत्पश्चपञ्चाशदूपाणि त्रीणि द्वाराणि ॥ १३ ॥ अवगाहना - तनुः चः समुचये तेषां - सिद्धानामुत्कृष्टा ५६ तथा मध्यमा ५७ तथा जघन्या वाच्या ५८, तथा नामानि - अभिधानानि चतसृणामपि हुशब्दः प्राकट्ये शाश्वतजिननाथप्रतिमानां १९ इति त्रयोदशगाथायां षट्पच्चाशादीनि एकोनषष्ट्यन्तानि चत्वारि द्वाराणि ॥ १४ ॥ उपकरणानां सङ्ख्या जिनानां - जिनक ल्पिकानां ६० तथा स्थविराणां - गच्छवासिव्रतिनां ६१ तथा साध्वीनां च वाच्या ६२, चः समुचये, तथा जिनकल्पिकानां समयोत्कृष्टा एकस्यां वसतौ वाच्या ६३ इति चतुर्दशगाथायां षष्टितमादीनि त्रिषष्ट्यन्तानि चत्वारि द्वाराणि ।। १५ ।। षत्रिंशत् सूरीणां - आचार्याणां गुष्णा वक्तव्याः ६४, तथा विनयो द्विपश्वाशद्भेदप्रतिभिन्नो वाच्यः ६५, तथा चरणं सप्ततिभेदं वाच्यं ६६, तथा करणं सप्ततिभेवं वाच्यं ६७, तथा जङ्घाचारणानां विद्याचारणानां च गमनशक्तिरभिधेया ६८ इति पञ्चदशगाथायां चतुःषष्ट्यादीनि अष्टषष्यन्तानि पञ्च द्वाराणि ॥ १६ ॥ परिहारविशुद्धिकानां परिहारविशुद्धितपसो वा स्वरूपं भणनीयं ६९, तथा 'अहालंद'त्ति यथालन्दकल्पकारिणो वाच्याः ७०, तथा प्रतिपन्नानशनस्य साधोयें निर्यामका - आराधनाकारकास्तेषामष्टचत्वारिंशद्धूणनीया ७१, तथा पञ्चविंशतिर्भावनाः शुभाः ७२ तथा अशुभाः पञ्चविंशतिर्वाच्याः ७३ इति षोडशगाथायामेकोनसप्ततितमादीनि त्रिसप्तत्यन्तानि पश्व द्वाराणि ॥ १७ ॥ सङ्ख्या महाव्रतानां - प्राणातिपातविरमणादीनां ७४, तथा कृतिकर्मणां - वन्दनकानां दिनमध्ये सङ्ख्या ७५, चः समुच्चये, तथा क्षेत्रेभरतादौ चारित्राणां - सामायिकादीनां सङ्ख्या ७६, तथा स्थितकल्पः ७७ तथाऽस्थितकल्पो वाच्यः ७८, चः समुच्चये, इति सप्तदशगाथायां चतुःसप्तत्यादीनि अष्टसप्तत्यन्तानि पञ्च द्वाराण्यमिहितानि ।। १८ ।। चैत्यानि - प्रतिमारूपाणि ७९ तथा पुस्तकानि ८० तथा दण्डकाः ८१ तृणानि ८२ तथा चर्माणि ८३ तथा दूष्याणि वस्त्राणि ८४ एतानि पञ्च पश्च प्रत्येकं वक्तव्यानि तथा पावभेदाः ८५, तथा परि- सर्वतः सान्ते मोक्षार्थिभिरिति परीषहाः ८६, तथा मण्डल्यः सप्त वाच्याः ८७ इत्यष्टादशगाथाया कोनाशीत्यादीनि सप्ताशीत्यन्तानि नव द्वाराणि भणितानि ॥ १९ ॥ दशानां स्थानानां व्यवच्छेदः ८८, तथा क्षपकश्रेणिः ८९, तथोपशमश्रेणिः ९०, तथा स्थण्डिलानां - साधुयोग्यभूविशेषाणां सहस्रोऽधिकश्चतुः सहितविंशत्या चतुर्विंशत्यधिकसहस्र इत्यर्थः ९१ इत्येकोनविंशतितमगाथायां अष्टाशीत्यादीनि एकनवत्यन्तानि चत्वारि द्वाराणि ॥ २० ॥ पूर्वाणां नामानि पदसाया संयुतानि - युक्तानि चतुशापि कथनीयानि ९२, तथा निर्मन्थाः - साधवः ९३ तथा श्रमणा - मिक्षुकाः ९४ प्रत्येकं पश्य पश्चैव वक्तव्या, इति विंशतितमगाथायां द्विनवतित्रिनवतिचतुर्नवतिद्वाराणि त्रीणि ॥ २१ ॥ प्रासैषणानां पञ्चकं ९५, तथा पिण्डे पाने च एषणाः सप्त ९६, तथा मिक्षाचर्या -
5