________________
णाई छन्भासा अप्पसत्थाओ॥५३॥ भंगा गिहिवयाणं अट्ठारस पावठाणगाइंपि । मुणिगुण सत्तावीसा इगवीसा सावर्यगुणाणं ॥५४॥ तेरिच्छीणुक्किट्ठा गैंभठिई तह य सा मणुस्सीणं । गन्भस्स य कीयठिई गम्भट्ठियजीवआहारो ॥ ५५ ॥ रिउरुहिरसुक्कजोए जत्तियकालेण गमसंभूई । जत्तियपुत्ता गम्भे जत्तिय पियरो य पुत्तस्स ॥५६॥ महिला गम्भअजोगा जेत्तियकालेणबीयओ पुरिसो । सुक्काईण सरीरट्ठियाण सव्वाण परिमाणं ॥५७ ॥ सम्मत्ताईणुत्तमगुणाण लाहंतरं जमुक्कोसं । न लहंति माणुसत्तं सत्ता जेऽणंतरुवहां ॥५८ ॥ पुव्वंगपरीमाणं माणं (वस्स लवणसिहमाणं । उस्सेहआयअंगुलपमाणअंगुलमीणाई ॥ ५९॥ तमकायसरूवमणतछक्कगं अट्ठगं निमित्ताणं । माणुम्माणपमाणं अट्ठारस भक्खभोजोइं ॥६०॥ छट्ठाणवुड्डिहाणी अवहरि जाइ नेव तीरंति । अंतरेदीवा जीवाजीवाणं अप्पबहुयं च ॥ ११॥ संखा निस्सेसजुगप्पहाणसूरीण वीरजिणतित्थे । ओसप्पिणिअन्तिमजिणतित्थअविच्छेयमाणं च ॥ १२ ॥ देवाणं पवियारो सरूवमट्ठण्ह कण्हराईणं । सज्झायस्स अकरणं नंदीसरदीवठिइभणणं ॥ १३ ॥ लद्धीओ तव पायालकलस आहारगस्सैरुवं च । देसा अणायरिया ऑरिया य सिद्धगतीसगुणा ॥ ६४ ॥ तेसट्ठीदारगाहाओ ॥ . समयसमुद्धरियाणं आसत्थसमत्तिमेसि दाराणं । नामुक्त्तिणपुव्वा तविसयवियारणा नेया ॥६५॥ तत्र सकलकल्याणमूलत्वात्प्रथमं चैत्यवन्दनद्वारं, चित्तस्य भावाः कर्माणि वा "वर्णदृढादिभ्यः व्यञ्चे"ति (पा० ५।२१२३) व्यषि चैत्यानि-जिनप्रतिमाः, ता हि चन्द्रकान्तसूर्यकान्तमरकतरत्नमुक्ताशैलादिदलनिर्मिता अपि चित्तस्य भावेन कर्मणा वा साक्षात्तीर्थकरबुद्धि जनयन्तीति चैत्यान्यभिधीयन्ते तेषां वन्दनं-स्तवनं कायवाङ्मनःप्रणिधानं चैत्यवन्दनं, तदत्र विधिभणनेन वक्तव्यं, अत्र च प्राकृतलक्षणात्प्रथमैकवचनस्य सेर्लुक् १, 'वंदणय'मिति तदनु वन्दनकद्वारं, वन्द्यन्ते पूज्या गुरवोऽनेनेति वन्दनं तदेव वन्दनक, स्वार्थे कन् २, 'पडिक्कमणं' तदनु प्रतिक्रमणमिति द्वारं, प्रतिशब्दोऽयमुपसर्गः प्रतीपे प्रातिकूल्ये वाऽर्थे वर्तते, 'क्रमु पादविक्षेपे' इत्यस्य भावल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति ३, 'पच्चक्खाण'मिति प्रत्याख्यानमिति द्वार, तत्र प्रति-वेच्छाप्रवृत्तिप्रतिकूलतया आ-मर्यादया विवक्षितकालादिमानया ख्यानं-प्रकथनं प्रत्याख्यानं मूलगुणोत्तरगुणरूपमित्यर्थः ४, 'उस्सग्गो'त्ति उत्सर्गः, तत्र यथा भामेत्युक्ते सत्यभामेति गम्यते तथाऽत्राप्येकदेशेन समुदायावगमात्कायोत्सर्ग इति द्रष्टव्यं, तत्र चोत्सर्जनमुत्सर्गः कायस्य उत्सर्गः कायोत्सर्गः उच्छासाथाकारस्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तरकरणमधिकृत्य परित्याग इत्यर्थः ५, 'चउवीससमहियसय'मिति चतुर्विंशत्यधिकं शतं गृहस्थप्रतिक्रमणातिचाराणां भणनीयमिति द्वार ६, एवं प्रथमगाथायां षट् द्वाराणीति ॥ २॥ भारते क्षेत्रे भूतसम्प्रतिभविष्यत्तीर्थकराणां नामानि, ऐरवतेऽपि क्षेत्रे तानि नामानि जिनानां सम्प्रतिभविष्यतां-वार्तमानिकभाविनां, न पुनरतीतानामित्यर्थः, भणितव्यानीति क्रियाध्याहारः ७, इति द्वितीयगाथायां सप्तमं द्वारं ॥३॥ ऋषभादिजिनेन्द्राणां चतुर्विशतिसयानामपि 'आइम'त्ति आदौ भवा आदिमाः 'पश्चादाद्यन्ताग्रादिमः' (पा० ४-३-२३ वार्तिके 'अग्रादिपश्चाडिमच् 'अन्ताच्चे'ति) इति सूत्रेण इमप्रत्यये टेलोपे च आदिम इति रूपं, तत आदिमाश्च ते गणधराश्च आदिमगणधरास्तेषां नामानि, अप्रतः स्थितस्य नामशब्दस्येहापि सम्बन्धाद्वक्तव्यानि ८, तथाऽऽदिमप्रवर्तिनीनामानि वक्तव्यानि ९, तथा अर्हत्त्वार्जने-तीर्थकरपदोपार्जने यानि स्थानानि-कारणानि तानि च वक्तव्यानि, ठाणा इति प्राकृतशैल्या पुंसा निर्देशः १०, तथा जिनानां जनन्यो-मातरो जनकाश्व-पितरस्तेषां नामानि वक्तव्यानि ११, तथा तेषामेव गुणशेषाणां कस्यां गतौ गमनमिति गतिर्वक्तव्या १२, इति तृतीयगाथायामष्टमादीनि द्वादशान्तानि पञ्च द्वाराणि भणितानि ॥४॥ उत्कृष्टजघन्याभ्यां पदाभ्यामिति गम्यं विहरत्तीर्थनाथानां सङ्ख्या भणनीया, कियन्त उत्कृष्टतो विहरमाणास्तीर्थनाथा एककालं लभ्यन्ते? जघन्यतश्च कियन्तः ? १३, तथा 'जम्मसमय'त्ति जन्मसमयेऽपि सङ्ख्या उत्कृष्टजघन्यका-उत्कृष्टजघन्यभवा तेषां-तीर्थनाथानां [सङ्ख्या भणनीया, एककालमुत्कृष्टतः कियन्तः कर्मभूमिषु ते जायन्ते कियन्तश्च जघन्यतः १४, इति चतुर्थगाथायां त्रयोदशचतुर्दशस्वरूपं द्वारद्वयमभिहितम् ॥५॥ अत्र जिनशब्दात् प्राकृतशैल्या षष्ठीबहुवचनं लुप्तं, ततो जिनानां सम्बन्धिनो गणधराश्च मुनयश्च श्रमण्यश्च वैकुर्विकाश्च वादिनश्च अवधयश्च केवलिनश्चेति द्वन्द्वसमाहारे गणधरमुनिश्रमणीवैकुर्विकवाद्यवधिकेवलि (नस्त)तस्येति, ततश्च गाथापर्यन्तवति 'संखाउ' इतिशब्दसम्बन्धाजिनानां-ऋषभादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या भणनीया १५, तथा तेषामेव ये मुनयः-साधवस्तेषां सङ्ख्या १६, तथा तेषामेव याः श्रमण्यो-व्रतिन्यस्तासां सङ्ख्या १७, तथा 'विकुर्व विक्रियाया'मिति धातुगणे धातुः विकुर्वणमिति 'हलश्चेति (पा०३-३-१२१) पनि च विकुर्वस्तेन चरन्ति 'तेन चरतीति (पा० ४-४-८ चरति) ठकि 'ठस्येक' (पा० ७-३-५०) इति इकादेशे च वैकुर्विकास्तेषां सङ्ख्या १८, तथा वादिनां देवासुरैरप्यजेयानां सङ्ख्या १९, तथा अवध्यवधिमतोरभेदादवधीनांअवधिज्ञानवता सङ्ख्या २०, तथा केवलिनां सङ्ख्या २१, तथा मनोज्ञानिनां-मनःपर्यवज्ञानिनां सङ्ख्या २२, तथा चतुर्दशपूर्विणां-चतुर्दुशपूर्वधराणां सङ्ख्या २३, तथा श्राद्धानां-श्रावकाणां २४, तथा श्राद्धिकानां-श्राविकाणां सक्या वक्तव्या २५, इति पञ्चमगाथायां पञ्चदशा