SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चउपन्ना । उक्कोसओ जहन्नेणेक्को व दुगं व तिगमहवा ॥ ७२७ ॥ सुहझाणजलविसुद्धो कम्ममलावेक्खया सिणाओत्ति । दुविहो य सो सजोगी तहा अजोगी विणिद्दिट्ठो ॥ ७२८ ।। मूलुत्तरगुणविसया पडिसेवा सेवए पुलाए य । उत्तरगुणेसु बउसो सेसा पडि सेवणारहिया ॥ ७२९ ॥ निग्गंथसिणायाणं पुलायसहियाण तिन्ह वोच्छेओ । समणा बउसकुसीला जा तित्थं ताव होहिंति ॥ ७३० ॥ 'पंचे' त्यादिगाथाद्वादशकं, प्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच धर्मोपकरणवर्जघनादेर्निर्गता निर्मन्थाः - साधवः, ते पश्वविधा उक्ताः, यथापुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीय कर्मक्षयोपशमादिवैचित्र्यादोsवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत्, द्वैविध्यं च सूत्रकृदेवाग्रे प्रकटयिष्यति ।। ७१९ ॥ अथ सूत्रकार एव निर्मन्थशब्दव्युत्पत्तिमाह – 'गंथो' गाहा, प्रध्यते - बध्यते कषायवशगेमात्मनेति प्रन्थः यद्वा प्रभाति - बन्नात्यात्मानं कर्मणेति ग्रन्थः, स द्विभेदः'आभ्यन्तरो बाह्यश्च तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दशविधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माच्च द्विभेदादपि प्रन्थाद् ये निर्गतास्ते निर्मन्था 'उक्ताः' भणिताः, 'तेषां' निर्मन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् ॥ ७२० ॥ अथ चतुर्दशविधाभ्यन्तरप्रन्थप्रतिपादनामाह— 'मिच्छत्तं' गाहा, मिध्यात्वं-तत्त्वार्थाश्रद्धानं वेदत्रिकं - पुंस्त्रीनपुंसक वेदलक्षणं हास्यादिषट्कं च-हास्यरत्यरतिभयशोकजुगुप्सालक्षणं ज्ञातव्यं, तत्र हास्यं - विस्मयादिषु वक्रविकाशात्मकं रतिः - असंयमे प्रीतिः अरति :- संयमेऽप्रीतिः, उक्तं च"अरई य संजमम्मी होइ रईऽसंजमे यावि" त्ति भयं - इहलोकादिसप्तधा, शोक:- इष्ट वियोगान्मानसं दुःखं जुगुप्सा - अस्नानादिमलिनतनुमुनिहीलना, तथा चाह - " अण्हाणमाइएहिं साहुं तु दुगुंछई दुगुंछ ति [ अस्नानादिभिः साधुं जुगुप्सते जुगुप्सेति ] । तथा क्रोधादीनां चतुष्कं - क्रोधमानमायालोभलक्षणं एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥ ७२१ ॥ अथ बाह्यं ग्रन्थमाह- क्षेत्रं - सेत्वादि वास्तु-खातादि धनं चहिरण्यादि धान्यं च - शाल्यादि तयोः सञ्चयो - राशिर्धनधान्यसञ्चयः मित्राणि च सहवर्धितादीनि ज्ञातयश्च - स्वजनास्तैः संयोगःसम्बन्धो मित्रज्ञातिसंयोगः, यानानि च - शिबिकादीनि शयनानि च - पल्यंकादीनि आसनानि च - सिंहासनादीनि यानशयनासनानि, चः समुच्चये दासा-अङ्कपतिताः दास्योऽपि - तथाविधा एव कुप्यं च - विविधगृहोपस्करात्मकं, अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयो गश्चेति द्वौ, शेषाश्चाष्टेति दशविधो बाह्यग्रन्थः ॥ ७२२ ।। अथ पुलाकादीन् व्याचिख्यासुः प्रथमं पुलाकव्याख्यानमाह - 'धन्नमसारं ' गाहा, पुलाकशब्देनासारं - निःसारं धान्यं तण्डुलकणशून्यं पलञ्जिरूपं भण्यते तेन पुलाकेन समं-सदृशं यस्य साधोश्चरणं - चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकृत्वा, अयमर्थः- तपः श्रुतहेतुकायाः सङ्घादिप्रयोजने सबलवाहनस्य चक्रवर्त्यादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा सकलसंयमसारगलनात् पलञ्जिवनिःसारो यः स पुलाकः, स च द्विधा - लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः, तत्र लब्धिपुलाको देवेन्द्रर्द्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह - " संघाइयाण कज्जे चुण्णेज्जा चक्कवट्टिमवि जीए । तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयव्वो ॥ १ ॥” [ संघादिकानां कार्ये चूर्णयति चक्रवर्त्तिनमपि यया । तया लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः ॥ १ ॥ ] अन्ये त्वाहुः- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति, आसेवापुलाकस्तु पञ्चविधः - ज्ञानपुलाकः दर्शनपुलाकः चारित्रपुलाकः लिङ्गपुलाकः यथासूक्ष्मपुलाकश्च, तत्र स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिमिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणान्निष्कारणान्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः, अन्यत्र पुनरेवमुक्तं – “आहासुहुमो य एएसु चेव चउसुवि जो थोवथोवं विराहेइ”त्ति ॥ ७२३ ॥ अथ बकुशमाह—‘उवगरण' गाहा, बकुशः शबल: कर्बुर इति पर्यायाः, एवम्भूतश्च सातिचारत्वात् संयमोऽत्राभिप्रेतः, ततश्च बकुशसंयमयोगात्साधुरपि बकुशः, सातिचारत्वाच्छुद्ध्यशुद्धिव्यतिकीर्णचरण इत्यर्थः, स द्विविधः - उपकरणविषये शरीरविषये च, उपकरणबकुशः शरीरवकुशश्चेति भावः, तत्राकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षवासः प्रियः पात्रदण्डकाद्यपि विभूषार्थं तैलमात्र योज्ज्वलकृत्य धारयन्नुपकरणबकुशः, तथाऽनागुप्तव्यतिरेकेण करचरणवद्नप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनकरणं केशसंस्कारं च देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि सामान्यतः पञ्चविधः, तद्यथा - आभोगबकुशः अनाभोगबकुशः संवृतबकुशः असंवृतबकुशः सूक्ष्मबकुशश्च अत्राभोगः - साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवम्भूतं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः, शरीरोपकरणविभूषयोः सहसाकारी अनाभोगवकुशः, संवृतो-गुप्तो लोके अविज्ञातदोषः संवृतबकुशः, प्रकटकारी तु असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं किश्वित्प्रमादी नेत्रमलाद्यपनयनात् सूक्ष्मबकुशः, एते च बकुशाः सामान्येन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदयोग्यशबलचारित्रयुक्ता अवगन्तव्याः, तत्र ऋद्धिः - प्रचुरवस्त्रपात्रादिप्राप्तिः यशश्च-गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपख्यातिगुणस्तत्कामाः - तदभिलाषिणः, सातं सुखं तत्र गौरवं - आदरस्तदाश्रिताः, नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यता इति भावः, अविविक्तः - असंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजस्तैलादिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवारा: छेदयोग्यं - सर्वदेशच्छेदार्ह शबलं -अतिचारकर्बुरं यथा 140
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy