SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ रित्रं तेन युक्ताः छेदयोग्यशबलचारित्रयुक्ताः ॥ ७२४ ॥ अथ कुशीलमाह-'आसेवणा' गाहा, मूलोत्तरगुणविराधनात् सत्वलनकषायोदयाद्वा कुत्सितं शीलं-चारित्रं यस्य स कुशीलः, स च द्विधा-आसेवनाकुशीलः कषायकुशीलश्च, आसेवना-संयमस्य विपरीताऽऽराधना तया कुशील आसेवनाकुशीलः, कषायैः-सज्वलनक्रोधाद्युदयलक्षणैः कुशीलः कषायकुशीलः, द्विविधोऽपि कुशीलः पञ्चविधो-ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् , अयमर्थः-प्रतिसेवनाकुशीलः पञ्चविधो ज्ञानदर्शनचारित्रतपःप्रतिसेवकः सूक्ष्मप्रतिसेवकच, तत्र ज्ञानदर्शनचारित्रतपस्युपजीवन तत्प्रतिसेवक उच्यते, अन्ये तु तपःस्थाने लिङ्गं पठन्ति, एष एव शोभनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कषायकुशीलोऽपि पञ्चविधो-ज्ञानदर्शनचारित्रतपःकषायकुशीलः सूक्ष्मकषायकुशीलश्च, तत्र ज्ञानदर्शनतपांसि सज्वलनक्रोधकषायाधुपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकषायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् सूक्ष्मकषायकुशीलः, अथवा सज्वलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारित्रतपांसि यो विराधयति-अतीचारमलिनानि करोति स ज्ञानादिकषायकुशीलः, सूक्ष्मकषायकुशीलस्तु तथैवेति ॥ ७२५ ॥ अथ निर्ग्रन्थमाह'उवसामगो य'गाहा, निर्गतो मोहनीयकर्मलक्षणात् प्रन्थादिति निर्ग्रन्थः, स द्विधा-उपशान्तमोहः क्षीणमोहश्च, सूत्रे च 'वर्तमानसामीप्ये वर्तमानवद्वे'ति न्यायादतीतकालाभिधानेऽपि 'उवसामगो य खवगो'त्ति वार्तमानिको वुणप्रत्ययः, उक्तं च-"सो उवसंतकसाओ खीणकसाओ "त्ति, तत्र उपशान्त:-उपशमं नीतो विद्यमान एव सक्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो-मोहनीयं कर्म येन स उपशान्तमोहः, तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्मसम्परायावस्थायां सख्खलनलोभमपि निःशेष क्षपयित्वा सर्वथा मोहनीयकाभावं प्रतिपन्न इत्यर्थः, स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा-प्रथमसमयनिग्रन्थोऽप्रथमसमयनिम्रन्थश्चरमसमयनिर्ग्रन्योऽचरमसमयनिम्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिम्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिम्रन्थः २ पूर्वानुपूर्व्या व्यपदिश्यते, तथा चरमे-अन्तिम समये वर्तमानश्चरमसमयनिम्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिम्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एषामिति ॥ ७२६ ॥ अथैते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्था एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज्जई' गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां-क्षीणमोहानां, उपशामकानां-उपशान्तमोहानां पुनश्चतुष्पञ्चाशत् , इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्व एको वा द्वौ वा त्रयो वा प्राप्यन्ते, अयमभिप्राय:-क्षीणमोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरुत्कर्षतः षण्मासमानस्यान्तरस्य सद्भावान्निरन्तरमसम्भवात् , ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्यां जघन्यत एकादयः उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एव प्रविशन्ति नाधिकाः, एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गीकृत्योक्तं, नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वं, तथाहि-अन्तर्मुहूर्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीवा मोहक्षपणाय प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टाः एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते, ततः परं क्षपकणेरपि निरन्तरमभावात् । आह-नन्वन्तर्मुहूर्तमानेऽपि झपकश्रेणिकालेऽसङ्ख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाप्यसङ्ख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति ?, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यात्, एतच नास्ति, केषुचिदेव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिमिदृष्टत्वाद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारित्रिणां, न च गर्भजमनुष्यं चारित्रिणं मुक्त्वाऽन्यः क्षपकश्रेणिं प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन्न भवन्ति, उपशमश्रेणेरुत्कर्षतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् , तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कर्षतस्तु चतुष्पचाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमणि प्रतिपद्यन्ते नाधिकाः, नानासमयप्रविष्टाः पुनरुत्कृष्टतः सहयाताः, एतदुक्तं भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यावदुत्कृष्टतश्चतुष्पञ्चाशत् प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तमाने उपशमश्रेणिकाले सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सङ्ख्याता उपशान्तमोहाः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभावात् , असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्याद्याक्षेपपरिहारौ पूर्ववद्वाच्याविति ॥ ७२७ ॥ अथ स्नातकमाह-'सुहझाण' गाहा, शुभं-प्रशस्तं ध्यानंशुक्लध्यानलक्षणं तदेव कर्ममलापेक्षया-घातिकर्ममलपटलप्रक्षालनापेक्षया जलं-सलिलं तेन विशुद्धो-निर्मलः स्नातक इति भण्यते, क्षालितसकलघातिकर्ममलपटलत्वात् सात इव स्नातः स एव स्नातक: केवलीत्यर्थः, स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनोवाक्कायव्यापारवान् सयोगी सर्वथा समुच्छिन्नमनोवाकायव्यापारस्त्वयोगी, एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ 'पन्नवणवेय' इत्यादिग्रन्थोक्तैः षट्त्रिंशता द्वारैर्विचारोऽस्ति ॥ ७२८॥ तत्र बहुतरोपयोगित्वात् शेषद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-मूलुत्तरगुण' गाहा, मूलगुणाः-प्राणातिपातनिवृत्त्यादयः उत्तरगुणा:-पिण्डविशुद्ध्यादयः तद्विषया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः 'सेवए'त्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च, अयमर्थः-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगु 141
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy