________________
अग्र-परिमाणं तस्य अयन-गमनं परिच्छेद इत्यर्थः तस्मै हितममायणीयमिति व्युत्पत्तेः, तस्य पदपरिमाणं षण्णवतिर्लक्षाणि, तथा यत्र जीवानां सकर्मेतराणामजीवानां च वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं तृतीयं पूर्व, तस्य पदपरिमाणं सप्ततिर्लक्षाणि, तथा यल्लोकेऽस्ति वस्त धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि अथवा स्याद्वादाभिप्रायेण सर्व वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येवं यत्र प्रोच्यते तदस्तिनास्तिप्रवादं चतुर्थ, तदपि पदपरिमाणतः षष्टिर्लक्षाणि, तथा यत्र ज्ञानं मत्यादिकं पञ्चविधं स्वरूपभेदप्रभेदादिभिः प्रोद्यते तत् ज्ञानप्रवाद नाम पञ्चमं पूर्व, एतच्च पदपरिमाणमाश्रित्यैकेन पदेन न्यूना एका कोटिः, तथा सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च प्रोद्यते तत् सत्यप्रवादं षष्ठं पूर्व, तस्य पदपरिमाणं षड्भिः पदैरधिका एका कोटिः, तथा यत्रात्मा-जीवोऽनेकनयैः प्रोद्यते तदात्मप्रवाई सप्तमं पूर्व, तस्य पदपरिमाणं षट्त्रिंशत्कोटयः, तथा समयः-सिद्धान्तार्थः स चात्र कर्मरूपो गृह्यते ततः कर्मस्वरूपं यत्र प्ररूप्यते तत् समयप्रवादं वरं-प्रधानमष्टमं पूर्व, अन्यत्र तु कर्मप्रवादमित्युच्यते, तत्रापि कर्म-ज्ञानावरणादिकमष्टविधं प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र प्रोद्यते तत्कर्मप्रवादं पूर्व, तस्य पदपरिमाणमेका कोटिरशीतिश्च लक्षाणि, तथा यत्र सर्वप्रत्याख्यानस्वरूपं सप्रभेदं प्रोद्यते तत् प्रत्याख्यानप्रवादं नवम, तस्य पदानां परिमाणं चतुरशीतिर्लक्षाः, तथा यत्रानेकविधा विद्यातिशयाः साधनानुकूल्येन सिद्धिप्रकर्षेण वर्ण्यते तद्विद्यानुप्रवादं दशमं, तस्य पदपरिमाणमेकादश कोटयः पञ्चदश च सहस्राणि, तथाऽवन्ध्यनामधेयमेकादशं पूर्व, वन्ध्यं नाम निष्फलं न वन्ध्यं अवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं, अन्ये तु कल्याणमित्याहुः, अर्थस्तु तत्रापि स एव, तस्मिंश्च पदपरिमाणं षड्विंशतिकोटयः, तथा यत्र प्राणा-जीवाः पञ्चेन्द्रियत्रिविधबलोच्छासनिःश्वासरूपा वा आयुश्चानेकधा वर्ण्यते तत् प्राणायुादशं पूर्व, तत्र पदपरिमाणमेका कोटिः षट्पञ्चाशच लक्षाः, तथा यत्र क्रिया:-कायिक्यादिका विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं त्रयोदश पूर्व, तत्र पदपरिमाणं नव कोटयः, तथा बिन्दुसारमिति लोकशब्दोऽत्र लुमो द्रष्टव्यः, ततश्च लोके-जगति श्रुतलोके वाऽक्षरस्योपरि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वाल्लोकबिन्दुसारं, तत्परिमाणमर्धत्रयोदशपदकोट्य इति, समवायांगटीकायां तु पदपरिमाणविषये किंचिदन्यथात्वमपि दृश्यते इति । ननु पूर्वाणीति कः शब्दार्थः ?, उच्यते, यस्मात्तीर्थङ्करस्तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतसूत्रार्थ भाषते तस्मात् पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतः सूत्रार्थः पूर्वमहता भाषितो गणधरैरपि पूर्वगतं श्रुतमेव पूर्व रचितं पश्चादाचारादिकं, नन्वेवं यदाचारनिर्युक्तायुक्तं-'सव्वेसिं आयारों' इत्यादि तत्कथं ?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तं इह तु अक्षररचनामधिकृत्य भणितं पूर्व पूर्वाणि कृतानीति ।। ७११ ॥ ७१२ ।। ७१३ ॥ ७१४ ।। ७१५ ।। ७१६॥ ७१७ ॥ अथ पदसङ्ख्याप्रस्तावादाचारादीनामप्यङ्गानां पदसङ्ख्यामाह-पढमं' इत्यादिगाथा, प्रथममाचाराङ्गगमष्टादशपदसहस्रप्रमाणं, एवम्-अनेनैव प्रकारेण सूत्रकृदङ्गस्थानाङ्गप्रभृतीनि शेषाङ्गान्यपि द्विगुणद्विगुणपदप्रमाणानि, तथाहि-सूत्रकृदङ्गं षट्त्रिंशत्पदसहस्रं स्थानाङ्गं द्विसप्ततिपदसहस्रं एवमुत्तरोत्तराणामपि समवायादीनामङ्गानां क्रमेण द्विगुणता पदानां प्रतिपत्तव्या, यावद्विपाकश्रुते एकादशे अङ्गे पदपरिमाणमेका कोटी चतुरशीतिळक्षाः द्वात्रिंशच्च सहस्राणीति । ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणभृद्भिः क्रमेण अध्यन्ते पूर्व करणात्पूर्वाणीति पूर्वसूरिप्रदर्शितव्युत्पत्तिश्रवणात् , पूर्वेषु च सकलस्यापि वाङ्मयस्यावतारो, न खलु तदस्ति यत्पूर्वेषु नाभिहितं, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यविरचनेन वा?, उच्यते, इह विचित्रा जगति प्राणिनः, तत्र ये दुर्मेधसस्ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् , खीणां च पूर्वाभ्ययनेऽनधिकार एव, तासां तुच्छत्वादिदोषबहुलत्वात् , उक्तं च-"तुच्छा गारवकलिया चलिंदिया दुब्बला य धीईए । इइ अतिसेसज्झयणा भूयावाओ य नो थीणं ॥१॥" [तुच्छा गौरवकलिताश्चलेन्द्रिया धृत्या च दुर्बला इतिहेतोरतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणां ॥ १॥] अत्रातिशेषाध्ययनानि-उत्थानश्रुतादीनि विविधविशिष्टातिशयसम्पन्नानि शास्त्राणि, भूतवादो-दृष्टिवादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषानानामङ्गवाह्यस्य च विरचनमिति ॥ ९२ ॥ ७१८ ॥ इदानीं 'निग्गंथ'त्ति विनवतं द्वारमाह
पंच नियंठा भणिया पुलाय १ बउसा २ कुसील ३ निगंथा ४ । होइ सिणाओ य ५ तहा एकेको सो भवे दविहो॥ ७१९॥ गंथो मिच्छत्तधणाइओ मओ जे य निग्गया तत्तो। ते निग्गंथा वुत्ता तेसि पुलाओ भवे पढमो ॥ ७२० ॥ मिच्छत्तं वेयतियं हासाई छक्कगं च नायचं । कोहाईण चउकं चउदस अभितरा गंथा ॥ ७२१ । खेत्तं वत्थु धणधन्नसंचओ मित्तनाइसंजोगो। जाणसयणासणाणि य दासा दासीउ कुवियं च ॥ ७२२ ॥ धन्नमसारं भन्नइ पुलायसहेण तेण जस्स समं । चरणं सो हु पुलाओ लद्धीसेवाहि सो य दुहा ॥ ७२३ ॥ उवगरणसरीरेसु बउसो दुविहोवि होइ पंचविहो । आभोग १ अणाभोए २ संबुड ३ अस्संबुडे ४ सुहुमे ५॥ ७२४ ॥ आसेवणा कसाए दुहां कुसीलो दुहावि पंचविहो । नाणे १ दंसण २ चरणे ३ तवे ४ य अहसुहुमए ५ चेव ॥ ७२५ ॥ उवसामगो १ य खवगो २ दुहा नियंठो दुहावि पंचविहो । पढमसमओ १ अपढमो २ चरम ३ अचरमो ४ अहासुहुमो ५॥७२६॥ पाविजह अहसयं खवगाणुवसामगाण
139