________________
नमानसः कस्यापि गृहिणः पार्श्वे गत्वा तं गृहिणं तैस्तैर्वचनजातैर्दानविषयेऽभिमाने चटापयति, स च गृही तथाऽभिमानपरः शेषे कलत्रादिके निजलोके दातुमनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः ८ ॥ 'माय'त्ति माया -परवश्वनात्मिका बुद्धिः तया कश्चित्साधुर्मयोगाद्युपायकुशलः सन् स्वकीयरूपपरावर्तादिकं कृत्वा यन्मोदकादिकं पिण्डमुपार्जयति स मायापिण्डः ९ ॥ 'लोभे य'त्ति लोभोगृद्धिस्तेन यो गृह्यते पिण्डः स लोभपिण्डः, इयमत्र भावना - कश्चित्साधुरद्याहममुकं सिंहकेसरमोदकादिकं ग्रहीष्यामीतिबुद्ध्या अन्यद्वलचणकादिकं लभ्यमानमपि यन्न गृह्णाति किन्तु तदेवेप्सितं स लोभपिण्डः, अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनश्रीप्रभृतिकं भद्रकरसमितिकृत्वा यद् गृह्णाति स लोभपिण्डः, यदिवा पायसादौ लब्धे यदि खण्डशर्करादिकं कुतोऽपि लभ्यते तदा भव्यतरं भवतीतिकृताध्यवसायः पर्यटन् यल्लभते खण्डादिकं स लोभपिण्ड इति, इदं च क्रोधादिपिण्डचतुष्टयं साधूनां न कल्पते, प्रद्वेषकर्मबन्धप्रवचनलाघवादिदोषसम्भवात् १० ॥ 'पुविं पच्छा संथव'त्ति संस्तवो द्विधा - वचनसंस्तवः सम्बन्धि संस्तवञ्च तंत्र वचनंघा तद्रूपो यः संस्तवः स वचनसंस्तवः, सम्बन्धिनो - मात्रादयः श्वश्वादयश्च तद्रूपतया यः संस्तवः स सम्बन्धि संस्तवः, एकैकोऽपि च द्विधा - पूर्वसंस्तवः पञ्चात्संस्तवश्च तत्र देयेऽलब्धे सति पूर्वमेव दातारं यद्गुणैर्वर्णयति स पूर्वसंस्तवः यत्तु देये लब्धे सति दातारं गुणैर्वर्णयति स पश्चात्संस्तवः, इयमत्र भावना - कश्चित्साधुर्भिक्षामटन् कस्मिंश्चिद् गृहे कश्विदीश्वरं दातारं निरीक्ष्य दानात्पूर्वमेव सत्यैरसत्यैर्वा औदार्यादिभिर्गुणैः स्तौति, यथा अहो दानपतिरस्माभिर्य: पूर्व वार्तामिः श्रुतः सोऽयं प्रत्यक्षेणैव वीक्षितः, तथा इतस्ततो भ्राम्यद्भिरस्मामिर्नेदृशा औदार्यादयो गुणा अपरस्य कस्यापि दृष्टाः श्रुता वा, तथा धन्यस्त्वं यस्येदृशा गुणाः सर्वत्रास्खलिताः सर्व दिग्वलयव्यापिनः प्रसरन्तीत्येवं पूर्वसंस्तवः, तथा दाने गृहिणा दत्ते सति यत् स्तौति यथा त्वदीयदर्शनेनाद्यास्माकं लोचने मनश्च शीतलमजायत, न चेदमभुतं यतो दातरि गुणिनि च दृष्टे कः प्रमोदभाङ् न भवति ? इत्येष पश्चात्संस्तवः, उभयरूपेऽपि चास्मिन् संस्तवे मायामृषावादासंयतानुमोदनादयो दोषा भवेयुरिति, तथा मातापित्रादिरूपतया यः संस्तवः - परिचयः स पूर्वसम्बन्धिसंस्तवः, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्सम्बन्धिसंस्तवः श्वश्वादीनां पश्चात्कालभावित्वात्, तत्र कश्चित्साधुर्भिक्षार्थ कस्मिंश्चिद् गृहे प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च ज्ञात्वा तदनुरूपं सम्बन्धं घटयति, तथाहि - यदि च सा वयोवृद्धा स्वयं च मध्यमवयास्तदा तां निजमात्रादिसमानां महेलामालोक्य मातृस्थानेन मनागश्रुविमोचनं विधत्ते, ततः सा पृच्छति - साधो ! किं त्वमधृतो दृश्यसे ?, साधुरपि प्राह- मम त्वत्सदृशी माताऽभूत्, यदि पुनः साऽपि मध्यमवयास्तदा ममेदृशी स्वसाऽभूदिति वदति, अथ सा बालवयास्ततो ममेदृशी दुहिता आसीदित्यादि भाषते इति, एवं पश्चात्संस्तवेऽपि भावना कार्या, अत्रापि च बहवो दोषाः, तथाहि ते गृहिणो यदि भद्रकास्तदा साधौ प्रतिबन्धो भवेत्, प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्युः, अथ प्रान्तास्तर्हि अयमस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनां विधत्ते, तत एवं विचिन्त्य स्वगृहान्निष्काशनादि कुर्युः, अधृत्या अश्रुमोचनादि कुर्वन् मायावी एषोऽस्माकमावर्जननिमित्तं चाटूनि करोतीति निन्दा चेति, तथा ममेदृशी माता आसीदित्युक्ते मृतस्य पुत्रस्य स्थानेऽयं मे पुत्र इति बुद्ध्या तस्मै स्वनुषादिदानं कुर्यात् श्वश्रूरीदृशी ममासीदित्युक्ते च विधवां कुरण्डां वा निजसुतां दद्यादित्यादयश्च दोषाः, ततः संस्तवपिण्डो यतीनां न कल्पत इति ११ ॥ ' विज्जामंते'त्ति द्वारद्वयं प्रतिपाद्यते, तत्र विद्या- प्रज्ञत्यादि स्त्रीरूपदेवताधिष्ठिता जपहोमादिसाध्या वा अक्षरविशेषपद्धतिः पुरुषरूपदेवताधिष्ठिता पाठमात्रसिद्धा वाऽक्षरविशेषपद्धतिर्मचः तद्व्यापारणेन य उपार्ज्यते पिण्डः स विद्यापिण्डो मचपिण्डश्च, दोषाश्चात्र - यो विद्ययाऽभिमन्त्रितः सन् दानं दाप्यते स स्वभावस्था जातः कदाचित् प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भनोच्चाटनमारणादि कुर्यात्, तथा विद्यादिना परद्रोहकरणरूपेण जीवनशीलाः शठाश्चैते इति लोके जुगुप्सा, तथा कार्मणकारिण इमे इति राजकुले प्रहणाकर्षणवेषपरित्याजनकदर्थनमारणादीनि कुर्यादित्यादयः १२-१३ ॥ ' चुण्णजोगे इति द्वारद्वयं तत्र चूर्णो - नयनाञ्जनादिरन्तर्धानादिफलः योगः - पाद प्रलेपादिः सौभाग्यदौर्भाग्यकरः एतद्व्यापारणेन य उपार्ज्यते पिण्डः स चूर्णपिण्डो योगपिण्डश्च, दोषाश्चात्रापि पूर्ववत्, ननु चूर्णयोगयोर्द्वयोः क्षोदरूपत्वे सति परस्परं को विशेषः ? येन योगद्वारं पृथगुच्यते, सत्यमेतत् परं कायस्य बहिरुपयोगी चूर्णः बहिरन्तश्चोपयोगी योग इति, यतोऽसावभ्यवहार्यानाहार्यभेदाद् द्विविधो भवेत्, तत्र जलपानादिना अभ्यवहार्यः - आहार्यः पादप्रलेपादिश्वेतर इति अनयोर्विशेषः १४ - १५ ॥ 'उप्पायणाय दोसा सोलसमे मूलकम्मे य' इति एतेऽनन्तरोका उत्पादनाया दोषाः, षोडशो दोषो मूलकर्म - अतिगहनभववनस्य मूलं कारणं प्ररोहहेतुः कर्म - सावद्यक्रिया ततो मूलं च तत्कर्म च मूलकर्म, तत्र गर्भस्तम्भनगर्भाधानगर्भपाताक्षतयोनित्वकरणक्षतयोनित्वकरणादिना य उपार्ज्यते पिण्डः स मूलकर्मपिण्डः, अयं च साधूनां न कल्पते, प्रद्वेषप्रवचनमालिन्यजीवघाताद्यनेकदोषसम्भवात्, तथाहि गर्भस्तम्भने गर्भशातने च साधुना कृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि विनाशः, गर्भाधानाक्षतयोनित्वकरणयोश्च यावज्जीवं मैथुनप्रवृत्तिः गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, क्षतयोनित्वकरणे पुनर्भोगान्तरायादीनि १६ ।। ५६७ ॥ उक्ताः षोडशाप्युत्पादनादोषाः, अथ दश एषणादोषानाह
संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ मिस्से ७ । अपरिणय ८ लिन्त ९ छड्डिय १० एसणदोसा दस हवंति ॥ ५६८ ॥
शङ्कितं - सम्भाविताधाकर्मादिदोषं तत्र च चतुर्भङ्गी - महणे शङ्कितो भोजने चेति प्रथमो भङ्गः १ ग्रहणे शङ्कितो न भोजने इति
99