________________
तया विपर्ययेण वा प्रयुज्यन्ते सा न सम्यविक्रयेति, अयमपि च त्वत्पुतः सम्यगहोमादिक्रियाकरणाद् ज्ञायते यथा श्रोत्रियस्य पुत्र इति, यदिवा वेदादिशास्त्रपारगस्य कस्यचिदुपाध्यायस्य पार्श्वे सम्यक् पठित इति, तत एवमुक्ते स ब्राह्मणो वदति-साधो! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनावतिष्ठते, एतच्च सूचया खजातिप्रकटनं, असूचया तु जात्याजीवनं पृष्टोऽपृष्टो वा आहाराद्यर्थ स्वजातिं प्रकटयति यथाऽहं ब्राह्मण इति, अत्र चानेके दोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपक्षपातात्प्रभूतमाहारादिकं तन्निमित्तं पक्त्वा ददाति तत आधाकर्मदोषः, अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तवानिति विचिन्त्य स्वगृहान्निष्काशनादि करोति, एवं क्षत्रियादिजातिध्वपि, एवं कुलादिष्वपि भवनीयमिति ४॥ 'वणीमगे'त्ति 'वनु याचने' वनुते प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः, कश्चिद्यतिनिफेन्थशाक्यतापसपरिब्राजकाजीवकद्विजप्राघूर्णकश्वानकाकशुकादिभक्तानां गृहिणां गृहे भिक्षां भ्रमन् प्रविष्टः, ततस्तेषां पुरतोऽशनादिलाभार्थ निम्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति, तथाहि-स कदाचित्प्रविष्टो निम्रन्थमक्तश्रावकगृहे निर्ग्रन्थानाश्रित्य वदति, यथा भोः श्रावककुलतिलक! तवैते गुरवः सातिशयज्ञानादिविभूषिता बहुश्रुताः शुद्धक्रियानुष्ठानपालनपरा विशदसामाचारीसमाचरणचमत्कृतचतुरधार्मिकजनमनसः शिवनगरमार्गसार्थवाहा इत्यादि, तथा शाक्योपासकगेहे प्रविष्टः शाक्यान् भुजानानवलोक्य तदुपासकानां पुरतस्तत्प्रशंसां कुरुते, यथा अहो महानुभावाः शाक्यशिष्याश्चित्रलिखिता इव निश्चलाः प्रशान्तचित्तवृत्तयो भुजते, महात्मनामित्थमेव भोक्तुं युक्त, दयालवी दानशीलाश्चैते इत्यादि, एवं तापसपरिव्राजकाजीवकद्विजानप्यात्रिय तद्णतदानप्रशंसाकरणेन वनीपकत्वं विज्ञेयं, तथाऽतिथिभक्तानां पुरत एवं वदति-इह प्रायेण लोकः परिचितेषु यद्वाऽऽश्रितेषु उपकारिषु वा ददाति, यःपुनरध्वखिन्नमतिथि पूजयति तस्यैव दानं जगति प्रधानमिति, श्वानभक्तांस्तु प्रति-नैते श्वानः श्वान एव किन्तु कैलाशपर्वतादागत्य यक्षा एव श्वानरूपेण पृथिव्यां सचरन्ति, तत एतेषां पूजा महते हिताय भवतीति, एवं काकादिष्वपि भावनीयं, तदित्थं वनीपकत्वकरणेनोत्पादितः पिण्डो वनीपकपिण्डः, बहुदोषश्चाय, यतो धार्मिकेऽधार्मिके वा पाने दानं दत्तं निष्फलं न भवतीत्येवमप्युक्तेऽपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातीचारः स्यात् , किं पुनः कुपात्रानेव शाक्यादीन् साक्षात्प्रशंसतः?, उक्तं च-दाणं न होइ अफलं पत्तमपत्तेसु संनिजुजंतं । इय भणिएऽवि य दोसो पसंसओ किं पुण अपत्ते? ॥१॥"[दानं न भवत्यफलं पात्रेष्वपात्रेषु च सन्नियोज्यमानं । इति भणितेऽपि दोषः प्रशंसतः किं पुनरपात्राणि ॥ १ ॥] एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधवोऽप्यमून् प्रशंसन्ति तस्मादेतेषां धर्मः सत्य इति, तथा यदि ते शाक्यादिभक्ता भद्रका भवेयुस्तत इत्थं साधुप्रशंसामुपलभ्य तद्योग्यमाधाकर्मादि समाचरेयुः, ततस्तल्लुब्धतया कदाचित् शाक्यादिव्रतं प्रतिपद्येरन् , तथा लोके चाटुकारिण एते जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादः, अथ प्रत्यनीकास्तहि गृहनिष्काशनादि कुर्युः, तथा सर्वसावधनिरतानां तेषां प्रशंसने मृषावादप्राणातिपातादयोऽपि चानुमोदिताः स्युरिति ५॥'चिकिच्छे'त्ति चिकित्सनं चिकित्सा-रोगप्रतीकारः रोगप्रतीकारोपदेशो वा, सा द्विविधासूक्ष्मा बादरा च, तत्र सूक्ष्मा औषधवैद्यज्ञापनेन, बादरा स्वयं चिकित्साकरणेन अन्यस्मात्कारणेन वा, तत्र कश्चिज्ज्वरादिरोगाक्रान्तो गृही भिक्षाद्यर्थ गृहे साधुं प्रविष्टं दृष्ट्वा पृच्छति-भगवन्नेतस्य मदीयस्य व्याधेर्जानीये कमपि प्रतीकारमिति, स प्राह-भोः श्रावक! यादृशस्तवायं रोगस्तादृशो ममाप्येकदा सजात आसीत् , स चामुकेनौषधेन ममोपशमं गत इति, एवं च अज्ञस्य गृहस्थस्य रोगिणो भैषज्यकरणामिप्रायोत्पादनादौषधसूचनं कृतं, अथवा रोगिणा चिकित्सां पृष्टो वदति-किमहं वैद्यो! येन रोगप्रतीकारं जाने इति, एवं चोक्ते रोगिणोऽनमिज्ञस्य सतोऽस्मिन् विषये वैद्यं पृच्छेति सूचनं कृतमिति सूक्ष्मा चिकित्सा, यदा तु स्वयं वैद्यीभूय साक्षादेव वमनविरेचनक्काथादिकं करोति कारयति वाऽन्यस्मात्तदा बादरा चिकित्सेति, एवमुपकृतो हि प्रमुदितो गृही मम मिक्षा प्रकृष्टां दास्यतीति यतिरिमा द्विविधामपि कुरुते, न चैवं तुच्छपिण्डकृते व्रतिनां कर्तुमुचितमनेकदोषसम्भवात, तथाहि-चिकित्साकरणकाले कन्दुफलमूलादिजीववधेन काथकथनादिपापव्यापारकरणादसंयमो भवेत् तस्य, तथा नीरुक्कृतो गृहस्थस्तप्तायोगोलकसमानः प्रगुणीकृतदुर्बलान्धव्याघ्रवद् अनेकजीवघातं कुर्यात् , तथा यदि दैवदुर्योगात्साधुना चिकित्स्यमानस्यापि रोगिणो व्याधेराधिक्यं जायते तदा कुपितस्तत्पुलादिसकृष्य राजकुलादौ ग्राहयेत् , तथाऽऽहारादिलुब्धा एते इत्थमित्थं च वैद्यकादि कुर्वन्तीति प्रवचनमालिन्यं स्यादिति ६ ॥ 'कोहे'त्ति क्रोधः-कोपः तद्धेतुकः पिण्डः क्रोधपिण्डः, किमुक्तं भवति ? कस्यचित्साधोः सम्बन्धिनमुच्चाटनमारणादिकं विद्याप्रभावं शापदानादिकं तपःप्रभावं सहस्रयोधित्वादिकं बलं राजकुले वल्लभत्वं वा ज्ञात्वा यद्वा शापदानेन कस्यचिन्मारणाद्यनर्थरूपं कोपफलं साक्षादेव दृष्ट्वा भयाद् गृहस्थेन यत्तस्मै दीयते स क्रोधपिण्डः, अथवा अन्येभ्यो ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान सन् कुप्येत, कुपिते च सति तस्मिन् 'साधुः कुपितो भव्यो न भवतीति यद्दीयते स क्रोधपिण्ड इति, अत्र च सर्वत्र कोप एव पिण्डोत्पादने मुख्य कारणं द्रष्टव्यं, विद्यातपःप्रभृतीनि तु तत्सहकारिकारणान्येवेति न विद्यापिण्डादिमिः सहास्य लक्षणसाकर्यमाशङ्कनीयं ७॥ 'माणे'त्ति मानो-गर्वस्तद्धेतुकः पिण्डो मानपिण्डः, अयमर्थः-कश्चिद्यतिः कैश्चिदपरैः साधुमिस्त्वं लब्धिमान ज्ञास्यसे. यद्यस्मानिदमिदं च भोजयिष्यसीत्यादिवचनैरुत्तेजितो न किमपि त्वया सिद्ध्यतीत्येवमपमानितो वा गर्वाध्मातचेताः अथवाऽऽत्मनो लब्धिप्रशंसादिकमपरैर्विरच्यमानमाकर्ण्य यत्र कुत्राप्यहं ब्रजामि तत्र सर्वथाऽपि लभे तथैव च जनो मां प्रशंसतीत्येवं प्रवर्धमानामिमा
98