SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ यस्यैव कध्यते, यतिराह-को दुःखसहायो भण्यते, सा प्राह-यः कथितदुःखप्रतीकारं कुरुते, मुनिराह-मां मुक्त्वा कोऽन्यस्तथाभूतः ?, सा प्राह-भगवंस्तर्हि स्फेटितमपरधाच्या अमुकस्मिन् गृहे मम धात्रीत्वं तेनाहं विषण्णेति, ततः साधुरुत्पनामिमानो यावत्वां न तत्र तथा स्थापयामि न तावत्त्वदीयां मिक्षां गृहामीत्यभिधाय स्फेटयितुमिष्टाया धाच्या अदृष्टत्वात् वत्स्वरूपमजानानस्तस्या एव पार्थे पृच्छति-सा कि तरुणी मध्यमा वृद्धा वा? प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा १ मांसला कशा वा? कृष्णा गौरी वेत्यादि, पृष्ट्वा च तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहस्खाम्यादिसमक्षं धात्रीदोषान् छूते, यथा वृद्धा धात्री अबलस्तन्या स्यात् तां धयन् बालोsऽप्यबलः सम्पद्यते, कृशा च धात्री स्तोकस्तन्या भवेत् तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् सीदन् कृश एव भवति, स्थूलस्तन्याः स्तन्यं धयन् कोमलाङ्गत्वात् कुचचम्पितवक्त्रघ्राणः सन् चिपिटघ्राणः स्यात्, कूर्पराकारस्तनीं च धयन् बालः सर्वदैव स्तनामिमुखदी. धकृतमुखतया सूचीसदृशवदनः स्यात्, उक्तं च-"निःस्थामा स्थविरां धात्री, सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजां, धयंस्तन्वीं कृशो भवेत् ॥ १॥ जाड्यं भवति स्थूलायास्तनुक्यास्त्वबलकरम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥२॥" तथा अमिनवस्थापिता धात्री येन वर्णेन कृष्णादिना उत्कटा भवति तेन वर्णेन तां निन्दति, यथा-"कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । ततः श्यामा भवेद्धात्री, बलवणः प्रशंसिता ॥१॥" इत्यादि, एतद् गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां च वर्तमानधात्री परिभाब्य स्फेटयति साधुसम्मतां च धात्री करोति, सा च प्रमुदिता तस्मै साधवे मनोझा विपुलां मिक्षा प्रयच्छतीति धात्रीपिण्डा, अत्र च बहवो दोषाः, तथाहि-या स्फेटिता धात्री सा विद्वेषं याति, तथा सति साधुरयमनया सह स्वेच्छमास्ते इत्यालं ददाति, अतिद्विष्टा च सती विषाविदानतः कदाचिन्मारयत्यपीति, याऽपि चिरन्तनी स्फेटयित्वा संप्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति, यथाऽह. मनेनातनी स्फेटयित्वा धात्री कृता तथाऽन्यया कदाचिदभ्यर्थितो मामपि धात्रीत्वात् स्फेटयिष्यति ततस्तथा करोमि यथाऽयमेव न भवतीति विचिन्त्य विषादिप्रयोगेण मारयेदिति, एवं मजनधात्रीत्वकारणे स्वयं वा करणे मण्डनधात्रीत्वकारणे स्वयंकरणे वा क्रीडनकषात्रीत्वकारणे स्वयंकरणे वा भयात्रीत्वकारणे स्वयंकरणे वा दोषाः परिभाव्य भणनीया इति १॥'दइ'त्ति दूती-परस्परसंविष्टार्थकथिका, ततो दतीत्वकरणेन-परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपाय॑ते यतिना स दूतीपिण्डः, से परप्रामे च, तत्र यस्मिन् प्रामे साधुर्वसति तस्मिन्नेव प्रामे यदि सन्देशं कथयति तदा स्वप्रामदूती, यदा तु परप्रामे गत्वा सन्देशं कययति तदा परप्रामदूती, एकैकाऽपि च द्विधा-प्रकटा प्रच्छन्ना च, प्रच्छन्ना पुनरपि द्विधा-एका लोकोत्तरविषया, द्वितीयसबाटकसाघोरपि गुप्तत्ययः, द्वितीया पुनर्लोकलोकोत्तरविषया, पाश्वेवर्तिनो जनस्य सवाटकद्वितीयसाधोरपि च गुप्तेति भावः, तत्र कश्चित्साधु मिक्षाकृते ब्रजन् विशेषतस्तल्लाभार्थ तस्यैव प्रामस्य सम्बन्धिनः पाटकान्तरे प्रामान्तरे वा जनन्यादेः सत्कं पुखिकादेरमतो गत्वा सन्देशकं कथयति यथा सा तव माता स तव पिता वा स भ्रात्रादिर्वा त्वयाऽद्यानागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपक्षपरपक्षयोः शृण्वतोनिःशई कथनात् प्रकटं स्वग्रामपरप्रामविषयं दूतीत्वं, तथा कश्चिद्यतिः कयाचिद् दुहिता मासादिकं प्रति स्वप्रामे परप्रामे वा सन्देशकथनायाभ्यर्थितः, ततस्तत्सन्देशकमवधार्य तज्जनन्यादिपावें गतः सन्ने चिन्तयति-दूतीत्वं खलु गर्हितं सावद्यत्वात्, ततो द्वितीयसबाटकसाधुर्मा मां दूतीदोषदुष्टं झासीदित्येवमर्थ भन्यन्तरेणेदं भणति-यथा श्राविके! अतिमुग्धा सा तव दुहिता यैवं सावद्ययोगरहितानस्मान् प्रति वदति-यथेदं प्रयोजनं मदीयागमनादिकं मम मातुस्त्वया कथनीयमिति, साऽपि दक्षतयाऽमिप्रायं ज्ञात्वा द्वितीयसबाटकसाधुचिचरक्षणार्थ प्रतिभणति-यथा वारयिष्येऽहं तां तवाभिमुखं पुनरेवं वदन्तीमित्येवं सकाटकसाधोरिदं गोपायितुमिष्टं न लोकस्येति लोकोत्तरप्रच्छन्नं स्वप्रामपरप्रामविषयं दूतीत्वं, उभयप्रच्छन्नं पुनरेवं-काचित् श्राविका साधुं प्रति वदति-यथा मजनन्यादेस्त्वमेवं कथये:-तत्कार्य तव प्रतीतं यथा त्वं जानासि तथैव सम्पन्नमिति, इह च साधुसङ्घाटकस्य शेषलोकानां च सन्देशार्थानवगमादुभयप्रच्छन्नत्वं, दोषाश्च सर्वत्र गृहस्थव्यापारणादिना जीवोपमर्दादयः २ ॥ 'निमित्त'न्ति निमित्तं-अतीताद्यर्थपरिज्ञानहेतुः दि तद्धेतकं ज्ञानमपि उपचारानिमित्तं तत्करणेन पिण्डो निमित्तपिण्डः, अयमर्थः-कश्चिद् व्रती पिण्डादिलाभनिमित्त गृहिणामप्रतो निमित्तं कथयति, यथाऽतीते दिने तवेदं सुखदुःखादिकं जातं तथा भाविनि कालेऽमुकस्मिन् दिने तव राजादेः सत्कः प्रसादो भविष्यति, सम्प्रति चाद्यैव दिने तवेदमिदं च भविष्यतीति, तेऽपि च गृहस्था लाभालाभसुखदुःखजीवितमरणादिविषयं निमित्तं पृष्टमपृष्टं वा धृष्टेन तेन कध्यमानं श्रुत्वा आवर्जितमानसास्तस्मै मुनये मोदकादिकां विशिष्टां विपुलां च मिक्षां यत्प्रयच्छन्ति स निमित्तपिण्डा उच्यते, न चायं यतीनां कल्पते, आत्मपरोभयविषयाणां वधादिदोषाणामनेकेषामन सम्भवादिति ३॥ 'आजीवित्ति आजीवनमाजीवो जीविकेत्यर्थः, स पञ्चविधो-जातिविषयः कुलविषयो गणविषयः कर्मविषयः शिल्पविषयश्च, एकैकोऽपि च द्विधासूचयाऽसूचया च, सूचया-वचनभङ्गविशेषेण कथनं असूचया तु स्फुटवचनेनेति, तत्र साधुः सूचया असूचया च स्वजातिप्रकटनात जातिमुपजीवति, यथा कश्चिद्भिक्षार्थमटन् ब्राह्मणगेहं प्रविवेश, तन च ब्राह्मणसुतं होमादिक्रियां सम्यक्कुर्वाणं वीक्ष्य तजनकाभिमुखं खजातिप्रकटनाय जल्पति-यथा समिन्मबाहुतिस्थानयागकालघोषादीन श्रित्य सम्यगसम्यग्वा क्रिया भवेत् , तत्र पिप्पलादीनामार्द्रप्रतिशाखादिखण्डरूपाः समिधः मत्रा:-प्रणवादिका वर्णपद्धतयः आहुतिः-अग्नौ घृतादेः प्रक्षेपः स्थानं-उत्कटुकादिः यागः-अश्वमेधादिः कालः-प्रभातादिः उदात्तानुदात्तादयश्च घोषा यत्र यथावत्प्रयुज्यन्ते सा सम्यक्क्रिया, यत्र च समिधादयो. न्यूनतयाऽधिक 97
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy