________________
मेव सदस्माभिर्दत्तमिति तर्हि भुजते कल्पनीयत्वादिति १४ । 'अणिसिट्टे'त्ति ने निसृष्टं-सः स्वामिमिः साधुदानार्वममुज्ञात वेत्तदनिसृष्टं, तत् त्रिधा-साधारणानिसृष्टं चोल्लकानिसृष्टं जडानिसृष्टं च, तत्र साधारण-बहुजनसामान्यं घोलकं-स्वामिना पदातिभ्यः प्रसादीक्रियमाणं कौटुम्बिकेन वा क्षेत्रादिस्थितकर्मकरेग्यो दीयमानं देशीभाषया भक्तमुच्यते जडो-हस्ती तैरनिसृष्टं अननुज्ञातं न कल्पते साधूनां, तत्र साधारणानिसृष्टं च यत्रहट्टगृहादिस्थिततिलकुट्टितेलवस्त्रलड्डुकदध्यादिदेववस्तुभेदेनानेकवस्तुविषयं, तत्र घाणकादियों तिलकुट्टितेलादिकं हट्टे वस्त्रादिकं गृहेऽशनादिकं बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित्साधुभ्यः प्रयच्छति तत् साधारणानिसृष्टं, तथा चोल्लको द्विविधः-छिन्नोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं प्रस्थापयति, स यदा एकैकहालिकयोग्यं पृथग्पृथग्भाजने कृत्वा प्रस्थापयति तदा स चोल्लकश्छिन्नः, यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः, तत्र यश्चोल्लको यस्य निमित्तं छिन्नः स तेन दीयमानो मूलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टो वा साधूनां कल्पते, तेन छेदनेन तस्य स्वकीयीकृतस्य दत्तत्वात् , अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकानां योग्यः स चोल्लकस्तैश्च साधुभ्यो दानायानुज्ञातो दृष्टोऽदृष्टो वा कल्पते, तैः पुनरननुज्ञातोऽन्यतरेणानुज्ञातो वा न कल्पत एव, प्रद्वेषान्तरायपरस्परकलहादिदोष. सम्भवात् , तथा जडानिसृष्टं हस्तिनो भक्तं मेण्ठेनानुज्ञातमपि राज्ञा हस्तिना चाननुज्ञातत्वान्न कल्पते, हस्तिनो हि भक्तं राज्ञः सम्बन्धि, ततो राजाननुज्ञातस्य ग्रहणे प्रणाकर्षणवेपोद्दालनादयो दोषा भवेयुः, तथा मदीयाज्ञामन्तरेणैष साधवे पिण्डं ददातीति रुष्टः सन् राजा कदाचिन्मेण्ठं स्वाधिकारानंशयति, ततस्तस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरम्तरायदोषः राजाननुज्ञातस्वाददत्तादानदोषश्व, तथा गजस्य पश्यतो मेण्ठस्यापि सत्कं न गृहीयात् , गजो हि सचेतनः ततो मदीयफवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद् रुष्टः सन् यथायोगं मार्गे परिभ्रमनुपाश्रये तं साधुं दृष्ट्वा तमुपाश्रयं स्फोटयेत् साधुं च कथमपि प्राप्य मारयेदिति १५। 'अज्झोयरए यत्ति अधि-आधिक्येनावपूरणं-स्वार्थदत्ताधिश्रयणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थ प्राचुर्येण भरणमध्यवपूरः स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः तद्योगाद्भक्ताद्यप्यध्यवपूरकः, स च त्रिधा-स्वगृहयावदर्थिकमिश्रः स्वगृहसाधुमिश्रः स्वगृहपाखण्डिमिश्रश्व, स्वगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रे अन्तर्भावित इति पृथक नोक्तः, तत्र यावदर्थिकाद्यागमनात्प्रथममेवाग्निसन्धुक्षणस्थालीजलप्रक्षेपादिरूपे आरम्भे खार्थ निष्पादिते पश्चाद्यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरान् तण्डुलादीन् प्रक्षिपति एषोऽध्यवपूरकः, अत एवास्य मिश्रजाताद्भेदः, यतो मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थ च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थ पश्चात्प्रभूतान् यावदर्थिनः पाखण्डिनः साधून् वा समागतानवगम्य तेषामर्थायाधिकतरजलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति, अत्र च स्वगृहयावदर्थिकमिश्रे अध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कार्पटिकाद्यर्थ पश्चाक्षिप्तास्तावन्मात्रे स्थाल्याः पृथक्कृते कार्पटिकेभ्यो वा दत्ते सति शेषमुद्धरितं यद्भक्तं तत्साधूनां कल्पते, अत एव चायं विशोधिकोटिर्वक्ष्यते, तथा स्वगृहपाखण्डिमिश्रे स्वगृहसाधुमिश्रे च शुद्धभक्तमध्यपतिते यदि तावन्मानं स्थाल्याः पृथक्कृतं दत्तं वा पाखण्ड्यादिभ्यस्तथापि शेषं न कल्पते, यतः सकलमपि तद्भक्तं पूतिदोषदुष्टं भवतीति १६ । उक्ताः षोडश उद्गमदोषाः, अथ उत्पादनादोषानाह
धाई १दई २ निमित्ते ३ आजीव४ वणीमगेतिगिच्छाय। कोहे ७माणे ८ माया ९लोमे १० य हवंति दस एए॥५६७ ॥ पुदिव पच्छा संथव ११ विजा १२ मंते १३ य चुण्ण १४ जोगे
१५ य । उप्पाणाय दोसा सोलसमे मूलकम्मे १६ य ॥ ५६८॥ 'धाई'त्यादिगाथाद्वयं, तत्र धयन्ति-पिबन्ति बालकास्तामिति धीयते-धार्यते बालानां दुग्धपानाद्यर्थमिति वा धात्री-बालपालिका, सा च पञ्चधा-क्षीरधात्री मजनकधात्री मण्डनधात्री क्रीडनधात्री उत्सङ्गधात्री च, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोकं द्रष्टव्यं, तथाविवक्षणात्, ततो धात्र्याः पिण्डो धात्रीपिण्डः, धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्ड इत्यर्थः, एवं दूत्यादिष्वपि भावनीयं, इयमत्र भावना-कश्चित्साधुर्भिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो रुदन्तं बालकं विलोक्य तन्मातरमाह-यथाऽयं हि बालकोऽद्यापि क्षीराहारः, ततः क्षीरमन्तरेणावसीदन् रोदिति, तस्मान्मह्यं शीघ्रं भिक्षां देहि पश्चादेनं बालकं स्तन्यं पायय यद्वा प्रथमत एनं स्तन्यं पायय पश्चान्मह्यं भिक्षां देहि यदिवा अलं मे सम्प्रति भिक्षया पायय स्तन्यं बालकमेव पुनरप्यहमन्यगृहे गत्वाऽत्र समेष्यामि यद्वा तिष्ठ त्वं निराकुला अहमेवास्मै कुतोऽप्यानीय क्षीरं दास्यामि, एवं स्वयं धात्रीत्वं करोति, तथा मतिमान् रोगरहितो दीर्घायुश्च बालः स्तन्यं पायितः स्यात्, अपमानितस्तु विपरीतः, तथा दुर्लभं खलु लोके पुत्रमुखदर्शनं, तस्मात्सर्वाण्यन्यानि कर्माणि मुक्त्वा त्वमेनं बालकं स्तन्यं पाययेति, एवं च क्रियमाणे बहवो दोषा भवेयुः, तथाहि-बालकमाता भद्रकत्वादावर्जितमानसा सत्याधाकर्मादिकं कुर्यात् , तथा बालकस्वजनोऽन्यो वा प्रतिवेरिमकादिर्बालकमात्राादेना सह सम्बन्धं साधोः सम्भावयेचाटुकरणदर्शनात् , यदि च प्रान्ता बालजननी भवेत्तदा प्रद्वेषं व्रजेत् , अहो प्रव्रजितस्यास्य महती परकीया तप्तिः, तथा वेदनीयकर्मविपाकवशात्कदाचिद्वालकस्य ज्वरादिमान्ये सजाते त्वया मदीयपुत्रो ग्लानीकृत इत्यादि साधुना सह कलहकरणात्प्रवचनमालिन्यं स्यादिति, अथवा कस्यापीश्वरस्य गेहे बालधापनपरां धात्री स्वबुद्धिप्रपञ्चेनोत्सार्यान्यां तत्र स्थापयन् धात्रीत्वलक्षणं दोषमासादयति, तथाहि-भिक्षाचर्यायां प्रविष्टः कश्चिसाधुः कचिद्गहे. महिला काञ्चित् सशोकामवलोक्य पप्रच्छ-कं त्वमद्याधृतिपरा दृश्यसे?, सा प्राह-धार्मिक यते ! दुःखं दुःखसहा
96