________________
कपाटस्य प्रतिदिनमनुद्घाटितद्वारस्य साधुदाननिमित्तमुद्घाट्य कपाटानि गुडखण्डादि साधुभ्यो दीयते तत्कपाटोदिने, व्युत्पत्तिः प्रागिव, दोषाश्चात्रषड्जीवनिकायविराधनादयः, तथाहि-कुतुपादिमुखाद् घृतादिकं साधवे दत्त्वा शेषस्य रक्षणार्थ भूयोऽपि कुतुपादिमुख सचित्तपृथिवीकायेन जलाकृतेनोपलिम्पति, ततः पृथिवीकायविराधनाऽप्कायविराधना च, पृथिवीकायमध्ये च मुद्गादयः कीटिकादयश्च सम्भवन्ति ततस्तेषामपि विराधना, तथा कोऽप्यभिज्ञानार्थ जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति तदा तेजस्कायविराधनाऽपि, यत्राग्निस्तत्र वायुरिति वायुकायविराधना च, तथा कुतुपादिलेपननिमित्तं मृत्तिकादि गवेषयन् दाता कदाचिद् वृश्चिकादिना दश्यते पीड्यते चासौ, ततो जना वदन्ति-अहो महाप्रभावा एते यतयो येषां दानमात्रेऽपि दात्रा फलं झगित्येवंविधं प्राप्तमित्येवं लोके उपहासः, तथा प्रथमतः कुतुपादिमुखे साध्वर्थमुद्घाटिते सति पुत्रादिभ्यो घृतादिप्रदाने तथा क्रये विक्रये च पापप्रवृत्तिः, तथा तस्मिन् कुतुपादिमुखे पिधातुं विस्मृते मूषकादयो जीवा निपत्य विनश्यन्तीति, कपाटोद्भिनेऽप्येत एव दोषाः, तथाहि-यदा कपाटात्माकथमपि पृथिवीकायो जलभृतः करवको वा बीजपूरकादिकं वा मुक्तं भवति तदा तस्मिन्नुद्घाट्यमाने कपाटे तद्विराधना भवति, जलभृते च करवकादौ लुठ्यमाने मिद्यमाने वा पानीयं प्रसर्पन प्रत्यासन्नचुल्ल्यादावपि प्रविशेत् , तथा च सत्यमिविराधना, यत्राग्निस्तत्र वायुरिति वायुविराधना च, मूषिकादिविवरप्रविष्टकीटिकागृहगोधिकादिसत्त्वविनाशे त्रसकायविराधना च, तथैव च दानक्रयविक्रयेभ्योऽधिकरणप्रवृत्तिरिति, ततो द्विविधमप्युद्भिन्नं न प्राचं, यदा तु कुतुपादीनां मुखबन्धः प्रतिदिवसं बध्यते छोट्यते च, तत्रापि यदि जतुमुद्राव्यतिरेकेण केवलवस्त्रमात्रप्रन्थिीयते नापि च सचित्तपृथिवीकायादिलेपस्तदा तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुमिर्गृह्यते, तथा कपाटोद्भिन्नेऽपि यत्र-प्रतिदिनमुद्घाट्यते कपाटमुल्लालकश्च भूमिघर्षकस्तथाविधो न भवति तत्रोदघाटितेऽपि कपाटादावपवरकादिस्थितमशनादिकं कल्पते एवेति १२। 'मालोहडे यत्ति मालात्-सिककादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं, तचतुर्भेद-ऊर्द्धमालापहृतमधोमालापहृतं उभयमालापहृतं तिर्यग्मालापहृतं च, तत्रोर्द्धमालापहृतं जघन्योत्कृष्टमध्यमभेदात् त्रिविधं, तत्रोर्द्धविलगितोचसिक्ककादेर्ग्रहीतुमशक्तत्वेनोत्पाटिताभ्यां पाणिभ्यां पादाधोभागरूपाप्रेतनफणाभ्यां च भूमिन्यस्ताभ्यां दाच्या निजचक्षुषाऽदृष्टं यद् गृहीतमशनादि तत्पाण्र्युत्पाटनमात्र. स्तोकक्रियागृहीतत्वाजघन्यमूर्ध्वमालापहृतं, यञ्च निश्रेण्या दिकमारुह्य प्रासादोपरितलाहाच्या गृहीतं तन्निश्रेण्यारोहणादिगुरुक्रियागृहीतत्वादुत्कृष्टं मालापहृतं, अनयोर्मध्यवर्ति मध्यममिति, तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादिकं यदानीय ददाति तधोवर्तिभूमिगृहादेरपहृतमितिकृत्वाऽधोमालापहृतं, तथोष्ट्रिकाकलशमजूवाकोष्ठकादिस्थितं किञ्चित्सकष्टं यहात्री ददाति तदुभयस्मादूर्भाधोगतव्यापारादुष्टिकाकलशमंजूषाकुम्भ्यादेरपहृतमिति कृत्वोभयमालापहृतं, तथाहि-बृहत्तरोबैस्तरकुम्भ्यादिमध्यस्थितस्य देयस्य प्रणाय येन दाता पा[पाटनं करोति तेनो नितन्यापारता, येन त्वधोमुखं बाहुं व्यापारयतीति तेनाधोगतव्यापारता, यदा च पृथुलमित्त्यादिस्थिते स्कंधसमोबप्रदेशप्राये दीर्घगवाक्षादौ तिर्यप्रसारितबाहुः क्षिप्तेन हस्तेन गृहीत्वा यद्देयं प्रायेण दृष्ट्याऽदृष्टं दाता दत्ते तदा तत्तिर्यग्मालापहृतं, तिर्यग्मालाद्-मित्त्यादिस्थितगवाक्षादिरूपादपहृतमितिकृत्वा, न चेदमत्र वक्तव्यं-मालाशब्देनोचप्रदेश एवाभिधीयते तत्कथं भूमिगृहादीनामधोभूमिस्थितानां मालशब्दाभिधेयत्वमिति?, यतो लोकरूढ्या उच्चैःप्रदेशवाचको नात्र मालशब्दो गृह्यते, किन्तु समयप्रसिद्ध्या, समये च भूमिगृहादिकमपि मालशब्देनाभिधीयत इति, दोषाश्चात्र मञ्चकमच्चिकोदूखलादिष्वारुह्य पाणी चोत्पाट्य उर्द्धविलगितसिककादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिल्हसनतो दात्री निपतति तदा तद्यःस्थितानां पिपीलिकादीनां पृथिव्यादिकायादीनां च विनाशः दात्र्याश्च हस्तादिभङ्गः, यदिवा विसंस्थुलपतनतः कथमप्यस्थानामिघातसम्भवात् प्राणव्यपरोपणमपि, तथा प्रवचनस्योडाहो यया साध्वर्थमैषा मिक्षामाहरन्ती परासुरभूत् तस्मानामी साधवः कल्याणकारिणः, एवंविधमपि दाच्या अनर्थमेते न जानन्तीत्येवं लोकमध्ये मूर्खताप्रवादश्चेत्येवमादयः, तस्मान्मालापहृतं साधुमेन ग्राह्यं, यसुनदरसोपानादीनि सुखावताराण्यारुह्य ददाति तन्मालापहृतं न भवति, केवलं साधुरप्येषणाशुद्धिानामेत्तं प्रासादस्योपरि दर्दरादिना चटौत, अपवादेन भूस्थोऽन्यानीतं गृहातीति १३ । 'अच्छि जेत्ति आच्छिद्यते-अनिच्छतोऽपि भृतकपुत्रादेः सकाशात् साधुदानाय परिगृह्यते यत्तदाच्छेद्यं, तत् त्रिविधं-खामविषयं प्रभुविषयं स्तेनविषयं च, तत्र प्रामादिनायकः स्वामी स्वगृहमात्रनायकः प्रभुः स्तेनः-चौरः, ततो प्रामादिस्वामी यतीन् दृष्ट्वा भद्रकतया कलहेनाकलहेन वा बलादपि साधुनिमित्तं कौटुम्बिकेभ्यः सकाशादशनाद्याच्छिद्य यतिभ्यो यद्ददाति तत् स्वामिविषयमाच्छेद्यं, तथा यद्गोरक्षककर्मकरपुत्रपुत्रिकावधूभार्यादिसत्कमेतभ्योऽनिच्छद्भ्योऽपि सकाशाद् गृहीत्वा गृहनायकः साधुभ्यो दुग्धादिकं दद्यात्तत्प्रभुविषयमाच्छेद्यं, तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, ततस्ते मार्गे आगच्छन्तः कदाचित्तथाविधसार्थेन सार्धमागतान् भोजनार्थ कृतावस्थितेः सार्थस्य मध्ये भिक्षामटतः परिपूर्णान्नमप्रामवतश्च संयतान् दृष्ट्वा तन्निमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यदि साधुभ्यो दृद्यस्तत् स्तेनविषयमाच्छेद्यं, एतत् त्रिवधमपि आच्छेद्यं साधूनां न कल्पते, अप्रीकलहात्मघातान्तरायप्रद्वेषाद्यनेक दोषसम्भवात् , केवलं स्तेनाच्छेोऽयं विशेष:-यथा येषां सम्बन्धि भक्तादि बलादाच्छिद्य चौराः साधुभ्यः प्रयच्छन्ति, त एव सार्थिका यदि स्तनलाराप्यमाना एवं ब्रुवते-अस्माकमवश्यं चौरहीतव्यं, ततो यदि चौरा अपि यदि युष्मभ्यं दापयन्ति तदा महानस्माकं सन्तोष इति, तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृहन्ति, पश्चाचौरेष्वपगतेषु भूयोऽपि तद् द्रव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानीं चौरप्रतिभयावस्माभिहीतं सम्प्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृहीयोते, एवं चोके सति यादे तऽपि समनुजानते यथा युष्मभ्य
95