________________
यः पटमुपदर्य लोकमावर्जयति, इत्थंभूते च परभावक्रीते त्रयो दोषाः-एकं तावत्क्रीतं द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याहृतं आनीयानीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितमिति ४-८ ।'पामिच्चे'त्ति अपमित्यं-भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते तदपमित्यं प्रामित्यकं वा, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं, तद् द्विविधं-लौकिकं लोकोत्तरं च, तत्र लौकिकं यद् गृहस्थेन परस्मादुच्छिन्नं गृहीत्वा घृतादिकं वस्तु व्रतिभ्यो वितीर्यते, दोषाश्च दासत्वनिगडनियत्रणादयः, लोकोत्तरं च वस्त्रादिविषयं साधूनामेव परस्परमवसेयं, तत्तु द्विधा-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गृहाति-यथा कियदिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि, कोऽपि पुनरेवं-एतावदिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि, तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीकते यदिवा पाटिते चौरादिना वा हृते मार्गे पतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः, द्वितीये च प्रकारे अन्यद्वस्त्रादिकं याचमानस्य तस्य दुष्कररुचेर्विशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितुं शक्यते, ततः तमाश्रित्य कलहायो दोषाः सम्भवन्तीति ९ । 'परियट्टिए'त्ति परिवर्तितं यत्साधुनिमित्तं कृतपरावर्त, तद् द्विविधं-लौकिकं लोकोत्तरं च, एकैकमपि द्विधा-तद्रव्यविषयमन्यद्रव्यविषयं च, तत्र तद्रव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृहातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनं गृहातीत्यादि, इदं च लौकिकमेव, लोकोत्तरमपि साधोः साधुना सह वस्त्रादिपरावर्तनस्वरूपं इति द्विधा भावनीयं, दोषाश्चात्रापि प्राग्वदेव १०। 'अभिहडे'त्ति अभि-साध्वभिमुखं हृतं-गृहस्थेन स्थानान्तरादानीतममिहृतं, तद् द्विधा-अनाचीर्णमाचीर्ण च, तत्रानाचीर्ण द्विविधं-प्रच्छन्नं प्रकटं च, सर्वथा साधुना अभ्याहृतत्वेन यदपरिज्ञातं तत्प्रच्छन्न, यत्पुनरभ्याइतत्वेन ज्ञातं तत्प्रकटं, एकैकमपि द्विविधं-खग्रामविषयं परप्रामविषयं च, यस्मिन् प्रामे साधुर्निवसति स किल स्वग्रामः, शेषस्तु परमामः, तत्र काचित् श्राविका भक्तियुक्ता साधूनां प्रतिलाभनायाभ्याहृताशङ्कानिवृत्त्यर्थ प्रहेगकमिषेणोपाश्रये मोदकाद्यानीय साधुसंमुखमेवं वदति-यथा भगवन् ! मया भ्रातृगेहादी सङ्खड्यां वा गतया इदं लब्धं यद्वा मया वजनानां गृहे प्रहेणकमिदं स्वगृहानीतं, तैश्च रोषादिना केनापि कारणेन न गृहीतं, सम्प्रति वन्दनार्थमत्र प्रविष्टा, ततो यदि युष्माकामेदमुपकरोति तर्हि प्रतिगृह्यतामिति, ततः सा यद्ददाति तत् प्रच्छन्नं स्वग्रामविषयमभ्याहृतं, तथा कविद् प्रामे बह्वः श्रावकाः सन्ति, ते च सर्वेऽप्येककुटुम्बवर्तिनः, अन्यदा तेषां गृहे विवाहः समजनि, निवृत्ते च विवाहे प्रचुरमोदकाद्युद्धरितं, ततस्तैरचिन्ति-यथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजायते, अथ केचित् साधवो दूरेऽवतिष्ठन्ते केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरमोदकादिकमालोक्य शुद्धमिति कथ्यमानमप्याषाकर्मशङ्कया न गृहीष्यन्ति, ततो यत्र प्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा ब्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहूय दास्यामस्ततस्तेऽशुद्धमाशय न गृहीष्यन्ति, तस्माद् द्विजादिभ्योऽपि किमपि किमपि दद्यः, तच्च तथा दीयमानमपि यदि साधवो न प्रेक्षिष्यन्ते ततस्तवस्थैव तेषामशुद्धाशङ्का भविष्यति ततो यत्र यत्रोच्चारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित्प्रदेशे द्विजादिभ्यः स्तोकं स्तोकं दातुमारब्धं, तत उच्चारादिकार्यार्थ निर्गताः केचन साधवो दृष्टाः, ततस्ते निमश्रिता-यथा भो साधवोऽस्माकमुद्धरितं मोदकादिकं प्रचुरमवतिष्ठते, ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्प्रतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृहन् , एतत्प्रच्छन्नं परमामविषयमभिहृतं, परम्परया ज्ञाते च परिष्ठापनीयं, तथा कश्चित्साधुर्भिक्षाभटन् कापि गृहे प्रविष्टः, तत्र च गौरवाई स्वजनभोजनादिकं प्रकृतं वर्तते, ततो न तदानीं साधवे भिक्षां दातुं प्रपारिता इत्यादिभिः कारणैः काचित् श्राविका स्वगृहात्साधोरुपाश्रये मोदकादिकमा
दाति तत्प्रकटं स्वप्रामविषयममिहतं, एवं परप्रामविषयमपि प्रकटमनाचीर्णमवसेयं, आचीर्ण पुनर्द्विविध-क्षेत्रविषयं गृहविषयं च, क्षेत्रविषयमपि त्रिविधं-उत्कृष्टं मध्यमं जघन्यं च, तत्र कस्मिंश्चिन्महति गृहे भूरिभुजानकजनपतिरुपविष्टा वर्तते, तस्याश्चैकस्मिन् पर्यन्ते साधुसक्वाटको द्वितीये तु देयमशनादिकं तिष्ठति, न च साधुसङ्घाटकश्छुप्तिभयादिना देयस्याशनादेः समीपं गन्तुं शक्नोति, ततो हस्तशतप्रमितक्षेत्रादानीतं यद् गृह्णाति तदुत्कृष्टं क्षेत्रामिहृतमाचीर्ण, हस्तशतात्परतस्त्वानीतं प्रतिषिद्धमेव, मध्यमं क्षेत्राभ्याहृतं पुनः करपरिवद्दुपरि यावद्धस्तशतं किश्चिन्यूनं भवति तावद्विज्ञेयं, करपरिवर्ते तु जघन्यं क्षेत्राचीर्णमभ्याहृतं, करपरिवर्तो नाम हस्तस्य किश्चिञ्चलनं, यथा काचिदात्री ऊर्द्धा उपविष्टा वा स्वयोगेनैव निजकरगृहीतमोदकमण्डकादिका प्रसारितबाहुस्तिष्ठति, सा च तथास्थिता साधुसवाटकं दृष्ट्वा करस्थितैर्मोदकादिभिस्तं निमन्त्रयते, स च करस्याधः पात्रकं धारयति, सा च भुजमचालयन्ती किश्चिन्मुष्टिं शिथिलयति, ततो मण्डकादिकं पात्रके पततीति, इदं क्षेत्रविषयमाचीण, गृहविषयमभ्याहृतमाचीर्ण पुनरित्थं भवति-पतिस्थितानि त्रीणि गृहाणि सन्ति, तत्र च यदा साधुसङ्घाटको मिक्षां गृह्णाति तदा एकः साधुरेकत्र धर्मलामिते गृह्यमाणमिक्षे गृहे उपयोगं ददानो मिक्षा गृह्णाति, पश्चाद्भागवर्ती द्वितीयसङ्घाटकस्तु धर्मलामितगृहादितरयोहयोरानीयमानमिक्षयोरुपयोगं दायकहस्तादिविषयं ददातीति गृहत्रयादानीतमाचरितमशनादिकं, चतुर्थादेस्तु गृहान्नाचरितमिति ११ । 'उन्भिन्नेत्ति उद्भेदनमुद्भिनं-साधुभ्यो घृतादिदाननिमित्तं कुतुपादेमुखस्य गोमयादिस्थगितस्योद्घाटनं, तदु द्विधा-पिहितोदिन्नं कपाटोद्भिनं च, तत्र यच्छगणकाग्नितापितजतुसचित्तपृथिवीकायप्रभृतिमिः श्लेषद्रव्यैः पिहितद्वारं प्रतिदिनमपरिभोगं खण्डगुडादिभृतघटकुतुपकुशूलादिकं साधुदाननिमित्तमुद्घाट्य खण्डादिकं साधुभ्यो दीयते तद्दीयमानं खण्डादि पिहितोद्भिनं पिहितमुद्धिन्न, यत्र तत्पिहितोद्भिन्न मिति व्युत्पत्तेः, यत्पुनः खण्डधृतगुडादियुक्तापवरकादेर्निवलनिभृतदत्त
94