________________
ल्यादौ परस्थाने-सुस्थितकच्छब्बकादौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनादिकं स्थापनेति भावः ५ । 'पाहडियाए'त्ति कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं-साधुभ्यो देयं मिक्षादिकं वस्तु, प्राभृतमेव प्राभृतिका, यद्वा प्र इति-प्रकर्षेण आ इति-साधुदानलक्षणमर्यादया भृता-निर्वर्तिता यका मिक्षा सा प्राभूता ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका, सा च बादरा सूक्ष्मा चेति द्विभेदा, तत्र बादरारम्भविषयतया बादरा स्थूलेत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मेति, एकैकाऽपि च द्विधा-उत्ष्वष्कणेन अवष्वष्कणेन च, तत्र स्खयोगप्रवृत्तिकालावधेः उत्-ऊर्द्ध परतः ध्वष्कणं-आरम्भस्य करणमुत्वष्कणमभिधीयते, तथा स्वयोगप्रवृत्तकालावधेरव-अर्वाक् ध्वष्कणं-आरम्भकरणमवष्वष्कणमुच्यते, इह हि केनापि श्रावकेण कुत्रापि नगरे निजापत्यस्य विवाहः कर्तुमारेभे, लग्नं च भव्यं दत्तं ज्योतिषिकेण परं तस्मिन् समयेऽन्यत्र विहृतत्वेन तत्र गुरवो न सन्ति, ततोऽसौ श्रावको विकल्पयति-अस्मिन् विवाहलग्ने सङ्खड्यामनेकाशनखाद्यादिमनोरमायां क्रियमाणायां जनखाद्यमेव सर्व भविष्यति, न तिनां किञ्चिदुपयोगं यास्यति, कियदिनानन्तरं च यथाविहारक्रमं श्रीगुरवोऽप्यत्र आजिगमिषवः श्रूयन्ते, ततस्तत्समय एव मम विवाहः कर्तु युज्यते येन साधूनामशनादिकं पुष्कलं ददामि, तदेवाशनादिकं सफलं यत्सुपात्रेषु विनियोग याति, एवं च महापुण्यमुपार्जितं स्यात् कल्याणं च महत् सम्पनीपद्यते, इत्यादि विचिन्त्य निष्टङ्कितलग्नात्परतो गुरूणामागमनसमये विवाह करोति, एवं च विवाहदिनस्योत्ष्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरोत्ष्वष्कणप्राभृतिकेति, तथा केनापि श्रावकेण स्वपुत्रादेर्विवाहदिनं किञ्चिन्निष्टङ्कितं, इतश्च निष्टङ्कितविवाहदिनादागेव साधवस्तत्रागताः, ततोऽसौ परिभावयति-मयैतेषां साधूनां विपुलं विशिष्टं च भक्तपानादिकं पुण्यार्थ दातव्यं, तच्च प्रायेण विवाहादिके महति पर्वणि विशालं भवति, मत्पुत्रादिविवाहस्तु प्रारिप्सितो यतिजनेऽन्यत्र विहृते भविष्यतीति विचिन्त्य यतिजने तत्रस्थ एवान्यद्विवाहलग्नं व्यवस्थापयति, अत्र च विवाहलग्नस्य भविष्यत्कालभाविनोऽवष्वष्क कृत्वा यदुपस्क्रियते भक्तादि सा बादरावष्वष्कणप्राभृतिकेति, तथा किल काचित्कुटुम्बिनी सूत्रकर्तनादिव्यापारपरायणा बालकेन रुदत भोजनं याच्यते, यथा मातः ! मम भोजनं प्रयच्छेति, तत्र च प्रस्वावे प्रत्यासन्नगृहेषु भिक्षामटन् साधुसङ्घाटकस्तया ददृशे, सा च तं दृष्ट्वा सूत्रकर्तनादिलोभेन बालकं झषन्तं रुदन्तं च प्रत्यवादीत्-मा पुत्र! प्रलप मा रोदीश्च त्वं, इह मद्गृहे गेहानुगेहक्रमेण विचरन् यदि यतिसंघाटकः समेष्यति तस्य भिक्षादानायोत्थिता सती तवापि तत्समयमेव भोजनं दास्यामीति, ततः साधुसङ्घाटके क्रमेणागते धर्माद्यर्थमुत्थाय भिक्षां ददाति बालकस्य च भोजनं, इह च यत्र क्षणे बालकेन याचितं भोजनं तदैव तया कर्तुमुचितस्य पुत्रभोजनदानस्य भविष्यत्कालभाविना साधुभिक्षादानेन समं यत्करणं तदुत्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मोत्ष्वष्कणप्राभृतिका, तथा काचिद् गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कर्तयामि तावत्पूणिकामेकां पश्चात्ते भोजनं दास्यामीति, अत्रान्तरे च साधुरागतः, तत उत्थाय तस्मै भिक्षां ददाति बालकस्य च भोजनं, इह च रूतपूणिकाकर्त्तनसमाप्त्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदर्वागेव बालकस्य भोजनदानं तदवष्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मावष्वष्कणप्राभृतिकेति, इयं च प्राभृतिका साध्वर्थमुत्थिताया बालकभोजनदानादनन्तरं हस्तधावनादिनाऽप्कायाद्युपमर्दहेतुत्वादकल्पनीयेति ६। 'पाओयर'चि साधुनिमित्तं वह्निप्रदीपमण्यादिस्थापनेन भित्त्याद्यपनयनेन वा बहिर्निष्काश्य धारणेन वा प्रादु:-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं तद्योगाद् भक्तायपि प्रादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं, तच्च द्विधा-प्रकाशकरणं प्रकटकरणं च, तत्र कोऽपि श्रावकः साधुभक्तिभूषितमानसो निरन्तरं सत्पात्रदानपवित्रीकृतनिजपाणिपल्लवो मनाक् मन्दविवेकः सान्धकारगृहमध्यस्थितस्य साधुदेयस्याशनादेरचक्षुर्विषयतया साधूनामकल्या परिभाव्य तस्य प्रकाशनार्थ भास्वरतरं मणिं तत्र व्यवस्थापयति अग्निप्रदीपौ वा कुरुते गवाक्षं वा : कारयति लघुतरं वा सद् द्वार बृहत्तरं करोति कुड्यच्छिद्रादि वा विधापयति, इत्थं यत्स्थानस्थितस्यैव देयवस्तुनः प्रकाशनं तत्प्रकाशकरणं, यत्पुनर्गृहमध्यवर्तिन्यां चुल्ल्यां स्वगृहार्थ राद्धस्यौदनादेरन्धकारादपसार्य बहिश्शुल्ल्यां चुल्लीव्यतिरिक्ते वाऽन्यस्मिन् सप्रकाशे प्रदेशे साधुदानार्थ स्थापनं प्रकटकरणं, एतच्च द्विविधमपि प्रादुष्करणं षट्कायोपमर्दप्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति ७ । 'कीय'त्ति क्रीतं यत् साध्वर्थ मूल्यादिना परिगृहीतं, तच्च चतुर्धा-आत्मद्रव्यनीतं आत्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतं च, तत्रात्मना-स्वयमेव द्रव्येण-उज्जयन्तादितीर्थशेषादिरूपपरावर्तादिकारिगुटिकासौभाग्यादिसम्पादकरक्षाटकादिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृहाति तदात्मद्रव्यक्रीतं, दोषाश्चात्र उज्जयन्तादितीर्थशेषादिसमर्पणानन्तरमेव दैवयोगेन तस्य गृहिणोऽकस्मादेव ज्वरादिके मान्ये जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्यं स्यात् , एवं झाते च राजादयः कर्षणकुट्टनादिकं विद्ध्युः, अथाग्रतो मन्दः सन् तेन शेषादिना समर्पितेन नीरोगः सम्पद्यते तदा चाटुकारिण एते यतय इत्युडाहो लोकस्य जल्पतो भवेत् , तथा निर्माल्यादिप्रदानेन प्रगुणीभूतशरीरस्य गृहव्यापारादिप्रयोजकतया षड्जीवघातापन्नः कर्मबन्धः स्यादित्यादयः १, तथा आत्मना-खयमेव भक्ताद्यर्थ धर्मकथकवादिक्षपकातापककविप्रमुखैः धर्मकथोपन्यासादिलक्षणेन भावेन विधीयमानेन धर्मकथोपन्यासाद्याक्षिप्तेभ्यो जनेभ्यो यदशनादिकं गृह्यते तदात्मभावक्रीतं, दोषाश्चात्र निर्मलनिजानुष्ठाननिष्फलीकरणादयः २, तथा परेण-गृहस्थेन साधुनिमित्तं सचित्ताचित्तमिश्रभेदेन द्रव्येण कृत्वा यदशनादिकं क्रीतं तत्परद्रव्यत्रीतं. अत्र च षटकायविराधनादयः प्रतीता एव दोषाः३, तथा परेण-मङ्खादिना भक्ति वशात्साधुनिमित्तं निजनिजविज्ञानप्रदर्शनादिरूपेण धर्मकथादिरूपेण वा भावेन परमावर्व यत्ततो गृहीतं तत्परभावक्रीतं, मकः-केदारको
93