________________
सोलस उग्गमदोसा सोलस उपायणाय दोसन्ति । दस एसणाय दोसा बायालीसं इह हवन्ति ॥ ५६४ ॥ आहाकम्मु १ देसिय २ पूर्वकम्मे ३ य मीसजाए य ४ । ठवणा ५ पाहुडियाए ६ पाओयर ७ की ८ पामिचे ९ ॥ ५६५ ॥ परियहिए १० अभिहड ११ भिन्ने १२ मालोहडे १३ य अच्छि १४ । अणिसिट्ठे १५ ऽज्झोयरए १६ सोलस पिण्डुग्गमे दोसा ॥ ५६६ ॥
षोडश उद्गमदोषाः उद्गमनमुद्गमः - पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयो दोषा उद्धमदोषाः, तथा षोडश उत्पादनादोषाः उत्पादनं उत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं तद्विषया दोषा उत्पादनादोषाः, तथा दश एषणादोषाः एषणमेषणा – अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः, एते चेह त्रयोऽपि मिलिता द्विचत्वारिंशद्भवन्ति ।। ५६९ ।। तत्र तावदुद्गमविषयान् षोडश दोषान्नाममाहमाह - 'आहाकम्भे'त्यादिगाथाद्वयं, आधाकर्मादयोऽध्यवपूरकान्ताः षोडश पिण्डोद्गमविषया दोषा भवन्तीतिगाथाद्वयस्य परमार्थः, तत्र 'आहाकम्मं 'ति आधानमाधा-साधु निमित्तं चेतसः प्रणिधानं यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति आधया कर्म - पाकादिक्रिया आधाकर्म तद्योगाद्भक्ताद्यप्याधाकर्म, इह दोषाभिधानप्रक्रमेsपि यद्दोषवतो भक्तादेरभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यं एवमन्यत्रापि यद्वा आधाय - साधुं चेतसि प्रणिधाय यत् क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद्यलोपः, साधुनिमित्तं सचित्तस्याचित्तीकरणमचित्तस्य वा पाक इति भावः १ । ' उद्देसिय'त्ति उद्देशनमुद्देशो - यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं तत्प्रयोजनं वा औद्देशिकं, तद् द्विविधं - ओधेन विभागेन च, तत्र ओषः - सामान्यं विभागः - पृथकरणं, इयमत्र भावना - नादत्तमिह किमपि लभ्यते ततः कतिपया मिक्षा दय इति बुद्ध्या कतिपयाधिकतण्डुलप्रक्षेपेण यन्निवृत्तमशनादि तदोघौद्देशिकं, ओघेन - सामान्येन स्वपरपृथग्विभागकरणाभावरूपेण औद्देशिकमोघौद्देशिकमिति व्युत्पत्तेः, तथा विवाहप्रकरणादिषु यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्विभागौदेशिकं, विभागेन -स्वसत्ताया उत्तार्य पृथक्करणेनौदेशिकं विभागौदेशिकमिति व्युत्पत्तेः, तत्रौघौद्देशिकमेवं प्रायेण भवति-इह कश्चिदनुभूतदुर्भिक्षबुभुक्षः सम्प्राप्तसुभिक्षो गृहस्थश्चिन्तयति, यथा- जीवितास्तावद्वयं कथमपि महाकष्टेनास्मिन् दुर्भिक्षे, इदानीं किमपि सम्प्राप्तवर्तनस्य प्रतिदिनमर्थिजनसम्पूर्ण भोजनदानशक्त्यभावे मम मिक्षा अपि तावत्कि - यत्योऽपि दातुं युक्ताः, यतो नादत्तमिह जन्मन्यमुत्र च स्वर्गाद्यवायोपभुज्यते, दत्तस्यैव भोगात्, नाप्यकृतं पुण्यं स्वर्गगमनाद्यवाप्तये सम्पद्यते, कृतस्यैव फलदानसमर्थत्वादिति, ततः पुण्योपार्जनबुद्ध्या यदा गृहिणा प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते तावत्प्रमाणे एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य मिक्षादानार्थमेतावत् स्वार्थमेतावच मिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलानघिकतरान् प्रक्षिपति तदा ओघौदेशिकं भवति, विभागौदेशिकं पुनः प्रथमं तावत् त्रिधा - उद्दिष्टं कृतं कर्म च तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत्पृथक्कल्पितं तदुद्दिष्टं, यत्पुनरुद्धरितं सत् शाल्योदनादिकं मिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादिरूपतया कृतं तत्कर्मेत्यभिधीयते, एकैकमपि पुनश्चतुर्धा - उद्देशसमुद्देशादेशसमादेशभेदात्, तत्र यदुद्दिष्टं कृतं कर्म वा विभागौदेशिकं यावन्तः केऽपि मिक्षाचराः पाखण्डिनो गृहस्था वा समागमिष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति यदा सङ्कल्पितं भवति तदा तदुद्देशसंज्ञमुच्यते, यदाः पुनः पाखण्डिनां देयत्वेन कल्पयति तदा तत् समुद्देशात्यं, यदा श्रमणानां - शाक्यादीनां दास्यामीति चिन्तयति तदा तदेवादेशामिधं, यदा च निर्मन्थानामेव - आर्हतयतीनां दास्यामीति परामृशति तदा तत् समादेशनामकं, न चैतदनार्ष, यत उक्तं - " जावंतियमुद्देसं पासंडिणं भवे समुद्देसं । समणाणं आएसं नियाणं समाएसं ॥ १ ॥” इति [ यावतामुद्देशं पाषण्डिनां समुद्देशं भवेत् । श्रमणानामादेशं निर्मन्थानां समादेशं ॥ १ ॥ ] सर्वसङ्ख्यया विभागौदेशिकं द्वादशप्रकारं भवति, अथ आधाकर्मक मौदेशिकयोः कः परस्परं प्रतिविशेषः ?, उच्यते, यत्प्रथमत एव साध्वर्थं निष्पादितं न स्वार्थ तदाधाकर्म, यत्पुनः प्रथमतः स्वार्थ निष्पादितं सन् भूयोऽपि पाककरणेन संस्क्रियते तत्कमशिकमिति २ 'पूई-कम्मे य'त्ति उद्गमादिदोषरहिततया पूते :- पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिक भक्तादेरवयवेन सह सम्पर्कात् पूते:- पूतिभूतस्य कर्म - करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म, अयमर्थः - यथा सौरभ्य मनोहरत्वादिगुणैर्विशिष्टमपि शाल्यादि भोजनद्रव्यं कुथितगन्धाशुच्यादिद्रव्यलत्रेनापि युक्तमपवित्रं स्याद्विशिष्टजन परिहार्य च तथा निरतिचारचारित्रिणो यतेर्निरतिचारचारित्रस्य सातिचारतयाऽपवित्रत्वकरणेनाविशोधिकोटीनामवयवमात्रेणापि संयुक्तः स्वरूपतः परिशुद्धोऽप्याहार उपभुज्यमानो भावपूतेः कारणत्वात् पूतिरिति, तथा आधाकर्मिकाद्यवयवलेशेनापि संश्लिष्टाः स्थाली चटुकक रोटिकादयोऽपि पूतित्वात्परिहर्तव्याः ३, 'मी सजाए य'त्ति मिश्रेण - कुटुम्बप्रणिधान साधुप्रणिधानमीलनरूपेण भावेन जातं - पाकादिभावमापन्नं यद्भक्तादि तन्मिश्रजातं, तत् त्रिधा - यावदर्थिकं पाखण्डिमिश्रं साधुमिश्रं च तत्र दुर्भिक्षादौ बहून् मिक्षाचरानुपलभ्य तदनुकम्पया यावन्तः केचन गृहस्था अगृहस्था वा मिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्धितः सामान्येन मिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीलितं यत्पच्यते तद्यावदर्शिक मिश्रजातं, यत्तु केबलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रं, यत्पुनः केवलसाधु योग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमिश्र, श्रमणानां पास्खण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं पृथङ् नोकं ४ । 'ठवण'त्ति स्थाप्यते साधुनिमि तं कियन्तं कालं यावन्निधीयते इति स्थापना • यद्वा स्थापनं - साधुभ्यो देयमिदमितिबुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना तद्योगादेयमपि स्थापना, स्वस्थाने - चुलीस्था
92