SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपराः सः-श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकासमुदायः बहूनां गच्छानामेकजातीयानां समूहः कुलं-चान्द्रादि गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः कुलसमुदायो गणः-कोटिकादिः एषामेवाचार्यादीनामन्नपानव. सपात्रप्रतिश्रयपीठफलकसंस्तारकादिमिर्धर्मसाधनैरुपमहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यं ॥ अथ ब्रह्ममुतीराह-वसही'त्यादि, ब्रह्मचारिणा स्त्रीपशुपण्डकविवर्जिता वसतिरासेवनीया, तत्र नियो देवमानुषभेदात् द्विविधाः एताश्च सचित्ताः अचिचास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयादयः सम्भाव्यमानमैथुनाः पण्डका:-तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंसेवनामिरवाः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २, तथा निषद्या-आसनं, कोऽर्थः १ -श्रीमिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपविशेत् , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह-"इत्थीए मलिय सयणासणंमि तप्फासदोसओ जइणो। दूसेइ मणं मयणो कुटुं जह फासदोसेणं ॥१॥" [स्त्रिया परिषेविते शयनासने तत्स्पर्शदोषतो यतेर्मनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥ १॥] ३ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयननासिकामुखकर्णदेहादीनि उपलक्षणत्वादनानि च-स्तनजघनादीनि अपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत्, न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः सरलत्वं नाशावंशस्य स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाप्रचित्तश्चिन्तयेत् , तदवलोकनतचिन्तनयोर्मोहोदयहेतुत्वात् ४, तथा कुड्यान्तरं-यनान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गाभवाच तत्परित्यागः ५, तथा पूर्व-गृहस्थावस्थायां क्रीडितं-बीसम्भोगानुभवलक्षणं घूतादिरमणलक्षणं वा नानुस्मरेत् , तत्स्मरणेन्धनक्षेपात्स्मरामिः संधुक्ष्यते ६, तथा प्रणीतं-अतिस्निग्धमधुरादिरसं भक्कं न भुजीत, निरन्तरं वृष्यनिग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७, तथा रूक्षभक्ष्यस्याप्यतिमात्रमाहार-आकण्ठमुदरपूरणं वर्जयेत् , ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच ८, तथा विभूषणा-मानविलेपनधूपननखदन्तकेशसंमार्जनादिः खशरीरस्य संस्कारस्तां न कुर्यात् , अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९, एता ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयः-परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥ अथ सानादित्रिकमाह-'बारसे त्यादि, ज्ञानं-कर्मक्षयोपशमसमुत्थोऽवबोधः. तहेतुत्वाद् द्वादशानादि कमपि ज्ञानं आदिशब्दादुपाङ्गप्रकीर्णादिपरिप्रहः, तथा तत्त्वानि-जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषामर्थ:-अमिधेयं तस्य श्रद्धानं-तथेतिप्रत्ययरूपा रुचिरेतदर्शनं, तथा सर्वेभ्यः पापव्यापारेभ्यो विरतिः-बानश्रद्धानपूर्वकं परिहारश्चरणं, तब द्विविधं-देशतः सर्वतश्च, तत्र देशतः श्राद्धानां सर्वतः सानामिति ।। अथ द्वादशप्रकारं तप आह-'अणसण'मित्यादि, 'पायच्छित्त'मित्यादि, गाथाद्वयं, एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातं, न पुनरिहोच्यते ॥ अब क्रोपनिमहादीनाह-कोहो'इत्यादि, क्रोधो मानो माया लोभश्चत्वारो भवन्ति कषायाः, कष्यन्ते-हिंस्यन्ते प्राणिनो यत्रासौ कप:संसारस्तमेति-आप्नोति प्राणी येस्ते कषायास्तेषां निग्रहणं-नियन्त्रणं इति, चरणस्स-चारित्रस्यैते-पूर्वोक्ता भेदाः सप्ततिसजा भवन्ति ।। ब्रतानां पत्रके श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैवावृस्यदशके प्रमगुप्तिनवके झानादीनां विके तपसो द्वादशके क्रोधनिमहादीनां च चतुष्के मिलिते एतत्सङ्ख्यासम्भवादिति ५५२-५६२ ॥ ६६ ॥ इदानीं 'करण'ति सप्तषष्ठं द्वारमाह- ... पिंडविसोही ४ समिई ५ भाषण १२ पडिमा १२ य इंदियनिरोहो५ पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ७०॥५६३ ॥ 'पिंडे'त्यादिगाथा, 'पिडि समाते' इत्यस्य 'इदितो नुम्धातो'(पा०७-१-५८)रिति नुमि कृते पिण्डनं पिण्ड:-सहातो, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथश्चिदमिन इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविध-अनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिः-निर्दोषता पिण्डविशुद्धिः, सं-सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इति:-चेष्टा समितिः-ईर्यासमित्यादिका, भाव्यन्ते इति भावना:-अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः-प्रतिज्ञा अमिग्रहप्रकारा मासिक्यादयः, इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना-आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः-गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिमह इत्यर्थः, अमिगृह्यन्त इत्यमिग्रहा:-नियमविशेषा द्रव्यादिमिरनेकप्रकारा, चः समुपये एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणं मोक्षार्थिमिः साधुमिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय)। अत्राह पर:-ननु समितिग्रहणेनैव पिण्डविशुद्धग्रहीतत्वान पिण्डविशुद्धिप्रहणं कर्तव्यं, यत एषणासमिती सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येवणैव, तरिक भेदेनोपन्यासः। इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते बसत्याविरूपातहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धस्तु भेदेनोपन्यास: कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य शापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुखादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति ॥ तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोष रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभेदानाह 91
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy