________________
द्वितीयः २ भोजने शङ्कितो न ग्रहणे इति तृतीयः ३ न प्रहणे नापि भोजने इति चतुर्थः ४, तत्रायेषु त्रिषु भङ्गेषु षोडशोद्गमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं भवति तं दोषमाप्नोति, किमुक्तं भवति ?-यदा आधाकर्मत्वेन शङ्कितं गृह्णाति भुंक्ते वा तदा आधाकर्मदोषेण सम्बध्यते यदि पुनरौदेशिकत्वेन तत औद्देशिकेनेत्यादि, चतुर्थे तु भङ्गे वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः, एतेषां चैवं सम्भव:-यथा कोऽपि साधुः स्वभावतो लज्जावान् भवति, तत्र कापि गृहे स मिक्षार्थ प्रविष्टः सन् प्रचुरा मिक्षा लभमानः स्वचेतसि शङ्कते-किमत्र प्रचुरा मिक्षा दीयते ?, न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् भुते इति प्रथमभङ्गवर्ती, तथा मिक्षार्थ गतः कोऽपि साधुः कापि गेहे तथैव शङ्कितमनाः प्रचुरां भिक्षामादाय स्ववसतिमागमत्, ततो भोजनसमये तं दोलायमानमानसं समालोक्य कश्चिदपरसाधुर्विज्ञातभिक्षादायिगृहव्यतिकरस्तदभिप्रायं ज्ञात्वा भणति-भो साधो! यत्र त्वया विपुला मिक्षा लब्धा तद्गृहेऽद्य महत्प्रकरणं वर्तते लाभनकं वा महत्कुतोऽप्यागतमित्येवं तद्वचः श्रुत्वा शुद्धमेतदिति निश्चित्य विगतशकस्तद् भुङ्क्ते इति द्वितीयभगवर्ती, तथा कश्चित्साधुरीश्वरगेहान्निःशङ्कितः प्रचुरां मिक्षा गृहीत्वा वसतावागतोऽन्यान साधून गुरोः पुरतः स्वमिक्षातुल्यां मिक्षामालोचयतः श्रुत्वा सजातशङ्कश्चिन्तयति-यथा यादृश्येव मया मिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सक्वाटकैः तन्नूनमेतदाधाकर्मादिदोपदुष्टं भविष्यतीति भुखानस्तृतीयभङ्गवर्ती १ ॥ 'मक्खिय'त्ति म्रक्षितं-पृथिव्यादिनाऽवगुण्ठितं, तद् द्विधा-सचित्तम्रक्षितमचित्तम्रक्षितं च, तत्र सचित्तम्रक्षितं त्रिविधं-पृथिवीकायम्रक्षितं अकायम्रक्षितं वनस्पतिकायम्रक्षितं च, तत्र शुष्केणार्टेण वा सचित्तपृथिवीकायेन देयं मात्रकं हस्तो वा यदि म्रक्षितो भवति तदा सचित्तपृथ्वीकायम्रक्षितं, अप्कायम्रक्षिते चत्वारो भेदाः-पुरःकर्म पश्चात्कर्म सस्निग्धं उदकाई च, तत्र भक्तादेर्दानात्पूर्व यत् साध्वर्थ कर्म हस्तमात्रादेर्जलप्रक्षालनादि क्रियते तत्पुर:कर्म, यत्पुनर्भक्तादेर्दानात् पश्चात्क्रियते तत्पश्चात्कर्म, सस्निग्धं-ईषल्लक्ष्यमागजलखरण्टितं हस्तादि, उंदकाई-फुटोपलभ्यमानजलसंसर्ग, तथा चूतफलादीनां सद्यःकृतैः श्लक्ष्णखण्डैः खरण्टितं यद्धस्तादि तद्वनस्पतिकायम्रक्षितं, शेषैस्तु तेजःसमीरत्रसकायैक्षितं न भवति, तेजस्कायादिसंसर्गेऽपि लोके प्रक्षितशब्दप्रवृत्त्यदर्शनात् , अचित्तम्रक्षितं पुनर्द्विविधं-गर्हितमितरच, गर्हितं वसादिना लिप्तं इतरत् घृतादिना, इह च सचित्तम्रक्षितं तावत् साधूनां सर्वथा न कल्पते, अचित्तम्रक्षितं तु लोकानिन्दितेन घृतादिना म्रक्षितं कल्पते, निन्दितेन पुनर्वसादिना म्रक्षितं न कल्पते एवेति २ ॥ 'निक्खित्त'त्ति निक्षिप्तं-सचित्तस्योपरि स्थापितं, तच्च पृथिव्यप्तेजोवायुवनस्पतित्रसनिक्षिप्तभेदेन षोढा, पुनरेकै द्विधा-अनन्तरं परम्परं च, अनन्तरं-अव्यवधानेन परम्परं च-व्यवधानेन, तत्र सचित्ते-मृदादौ यत् पकान. मण्डकादिकमानन्तर्येण व्यवस्थापितं तदनन्तरनिक्षिप्त, सचित्तमृदादेरेवोपरिस्थिते पिठरकादौ यन्निक्षिप्तं पक्कान्नादि तत् परम्परनिक्षिप्तं, तथा यन्नवनीतस्त्यानीभूतघृतादिकं सञ्चित्ते उदके निक्षिप्तं तदनन्तरनिक्षिप्तं, तदेव नवनीतादि पक्कान्नादि वा जलमध्ये स्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तं, तथा वह्नौ पर्पटादि यत्प्रक्षिप्यते तदनन्तरनिक्षिप्त, यत्पुनरग्नेरुपरि स्थापिते पिठरादौ क्षिप्तं तत्परम्परनिक्षिप्त, तथा वातोत्पाटिताः शालिपर्पटकादयोऽनन्तरनिक्षिप्तं, यद् येनोत्पाट्यते तत्तत्र निक्षिप्तमुच्यते इति विवक्षया, परम्परनिक्षिप्तं तु पवनापूरितहत्याद्युपरिस्थितमण्डकादि, तथा वनस्पत्यनन्तरनिक्षिप्तं सच्चित्तव्रीहिकाफलादिषु पूपमण्डकादि न्यस्तं, परम्परनिक्षिप्तं तु हरितादीनामेवो. परिस्थितेषु पिठरादिषु निक्षिप्ता अपूपादयः, तथा त्रसेऽनन्तरनिक्षिप्तं बलीवर्दादिपृष्ठेऽपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु बलीव. दिपृष्ठनिवेशितकुतुपादिभाजनेषु निक्षिप्ता घृतमोदकादय इति, अत्र च पृथिव्यादिषु सर्वेष्वप्यनन्तरनिक्षिप्तं देयं वस्तु यतीनामकल्पनीयमेव, सचित्तपृथिवीकायायुपरिस्थितत्वेन सबट्टादिदोषसम्भवात्, परम्परनिक्षिप्तं पुनः सचित्तसट्टादिपरिहारेण यतनया प्रासमपीति, केवलं तेजस्काये परम्परनिक्षिप्तस्य ग्रहणमाश्रित्य विशेषः प्रतिपाद्यते-ययेक्षुरसः पाकस्थाने अग्रुपरिस्थिते कटाहादौ यदि कटाहः सर्वतः पार्वेषु मृत्तिकयाऽवलिप्तो भवति दीयमाने चेक्षुरसे यदि परिशाटिर्नोपजायते सोऽपि च कटाहो यदि विशालमुखो भवति सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरसः कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुर्बहिः पतति तर्हि स लेप एव वर्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति, ततो मृत्तिकयाऽवलिप्त इत्युक्तं, तथा विशालमुखादाकृष्यमाण उदञ्चनः पिठरस्य कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजस्कायविराधनेत्यतो विशालमुख इत्युक्तं, बथा अत्युष्णे इक्षुरसादौ दीयमाने यस्मिन् भाजने तदत्युष्णं गृहाति तेन तप्तं सद् भाजनं हस्तेन साधुहन् दह्यते इत्यात्मविराधना, येनापि स्थानेन [दादिना] सा दात्री ददाति तेनाप्यत्युष्णेन सा दह्यते, अन्यच-अत्युष्णमिक्षुरसादि कष्टेन दात्री दातुं शक्नोति, कष्टेन च दाने कथमपि साधुसम्बन्धिभाजनाद्वहिरुज्झने हानिर्दीयमानस्येचुरसादेस्तस्य च भाजनस्य, साधुना वसतावानयनायोत्पाटितस्य पतगृहादेः दाव्या वा दानायोत्पाटितस्योदश्चनस्य दण्डरहितस्यात्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात् , तथा च षड्जीवनिकायविराधनेति संयमविराधना चेत्यतोऽनत्युष्णमित्युक्तं ३॥ 'पिहिय'त्ति पिहितं-सचित्तेन स्थगितं, तदपि षोढा पृथिवीकायादिपिहितभेदात् , एकैकमपि द्विधाअनन्तरं परम्परं च, तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टब्धं मण्डकादिकं सचित्ताप्कायानन्तरपिहितं, हिमादिगर्भपिठरादिना पिहितं सचिताप्कायपरम्परपिहितं, तथा स्थाल्यादौ संस्वेदिमादीनां मध्ये अङ्गार स्थापयित्वा हिमवादिवासो यदा दीयते तदा तेनाकारेण केषाश्चित्संखेदिमादीनां संस्पर्शोऽस्तीति तेजस्कायानन्तरपिहितं, एवं चनकादिकमपि मुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यं, अनारभृतेन शरावादिना
100