SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८८४ ध आभ्यन्तरग्रन्थः (छाया- विंशतिः उत्कृष्टपदे वर्तन्ते जघन्यतो भवति एकः । शीतोष्णे चर्या नैषेधिकी च युगपत् न वर्तेते ॥८२॥) __वृत्तिः - विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, जघन्यतः जघन्यपदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्तन्त इत्याह - 'सीउसिण'त्ति शीतोष्णे चर्यानषेधिक्यौ च युगपद् एककालं न वर्तेते न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि - न शीतमुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नैषेधिक्यां वा चर्येत्यतो यौगपद्येनामीषामेकत्रासम्भवान्नोत्कृष्टतोऽपि द्वाविंशतिरिति, आह - नैषेधिकीवत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवान्नैषिधिको तु स्वाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ॥८२॥' गुरुरेतान् द्वाविंशति परीषहान् सम्यगधिसहते । 'ग्रथ्यते-बध्यते कषायवशगेनात्मनेति ग्रन्थः यद्वा ग्रथनाति बध्नात्यात्मानं कर्मणेति ग्रन्थः । स द्विभेदः - आभ्यन्तरो बाह्यश्च, तत्राऽऽभ्यन्तरो मिथ्यात्वादिश्चतुर्दशविधः बाह्यश्च धनादिको दशविधो मतः-कथितः ।' (७२० वृत्तवृत्तिः) इति ग्रन्थस्य स्वरूपभेदाः प्रदर्शिताः प्रवचनसारोद्धारवृत्तौ । आभ्यन्तरग्रन्थश्चतुर्दशविधः । तद्यथा - मिथ्यात्वं, २ पुरुषवेदः, ३ स्त्रीवेदः, ४ नपुंसकवेदः, ५ हास्यं, ६ रतिः, ७ अरतिः, ८ भयं, ९ शोकः, १० जुगुप्सा, ११ क्रोधः, १२ मानः, १३ माया, १४ लोभश्च । उक्तञ्च प्रवचनसारोद्धारे तद्वत्तौ च - 'मिच्छत्तं वेयतियं हासाईछक्कगं च नायव्वं । कोहाईण चउक्कं चउदस अभितरा गंथा ॥७२१॥ (छाया- मिथ्यात्वं वेदत्रिकं हास्यादिषट्कञ्च ज्ञातव्यम् । क्रोधादीनां चतुष्कं चतुर्दश आभ्यन्तरा ग्रन्थाः ॥७२१॥) वृत्तिः - अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनायाह - 'मिच्छत्तं' गाहा, मिथ्यात्वंतत्त्वार्थाश्रद्धानं, वेदत्रिकं-पुंस्त्रीनपुंसकवेदलक्षणं, हास्यादिषट्कं च - हास्यरत्यरतिभयशोकजुगुप्सालक्षणं ज्ञातव्यं, तत्र हास्यं - विस्मयादिषु वक्त्रविकाशात्मकं, रतिः-असंयमे
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy