________________
८८३
द्वाविंशतिः परीषहाः वेदनीयनाम्नि कर्मणि सम्भवन्तीति गाथात्रयार्थः ॥७५-७७॥ के पुनस्ते एकादशेत्याह -
पंचेव आणुपुव्वी चरिया सिज्जा वहे व (य) रोगे य ।
तणफासजल्लमेव य इक्कारस वेयणीज्जंमि ॥७॥ (छाया- पञ्चैव आनुपूर्व्या चर्या शय्या वधश्च रोगश्च ।
तृणस्पर्शो जल्ल एव च एकादश वेदनीये ॥७८॥) वृत्तिः - पञ्चैव पञ्चसङ्ख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह - आनुपूर्व्या परिपाट्या, क्षुत्पिपासाशीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शो जल्ल एव च इत्यमी एकादश वेदनीयकर्मण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥७८॥ सम्प्रति पुरुषसमवतारमाह -
बावीसं बायरसंपराए चउदस य सुहमरागंमि ।
छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥ (छाया- द्वाविंशतिः बादरसम्पराये चतुर्दश च सूक्ष्मसम्पराये ।
छद्मस्थवीतरागे चतुर्दश एकादश जिने ॥७९।।) वृत्तिः - द्वाविंशतिः द्वाविंशतिसङ्ख्याः प्रक्रमात्परीषहाः बादरसम्पराये बादरसम्परायनाम्नि गुणस्थाने, किमुक्तं भवति ? - बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, चतुर्दश चतुर्दशसङ्ख्याः , चः पूरणे, सूक्ष्मसम्पराये सूक्ष्मसम्परायनाम्नि गुणस्थाने, सप्तानां चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, छद्मस्थवीतरागे छद्मस्थवीतरागनाम्नि गुणस्थाने, चतुर्दश उक्तरूपा एव, एकादश एकादशसङ्ख्याः जिने केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥७९॥
वीसं उक्कोसपए वटुंति जहन्नओ हवइ एगो। सीउसिण चरियं निसीहिया य जुगवं न वटुंति ॥८२॥