SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८२ द्वाविंशतिः परीषहाः वृत्तिः - प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषह्यमाणे परीषहौ, ज्ञानावरणे कर्मणि भवतो द्वौ एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च अन्तराये अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः ॥७४॥ मोहनीयं द्विधेति यत्र तद्भेदे वेदनीये च यत्परिषहावतारस्तमाह - अई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरक्कारे चरित्तमोहमि सत्तेए ॥७५॥ अईइ दुगुंछाए पुंवेय भयस्स चेव माणस्स। कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥७६॥ दसणमोहे सणपरीसहो नियमसो भवे इक्को। सेसा परीसहा खलु इक्कारस वेयणीज्जंमि ॥७७॥ (छाया- अरतिः अचेलं स्त्री नैषेधिकी याचना च आक्रोशः । सत्कारपुरस्कार: चारित्रमोहे सप्तैते ॥७५॥ अरतेः जुगुप्सायाः पुंवेदस्य भयस्य चैव मानस्य । क्रोधस्य च लोभस्य च उदयेन परीषहाः सप्त ॥७६॥ दर्शनमोहे दर्शनपरीषहो नियमात् भवेत् एकः । शेषाः परीषहाः खलु एकादश वेदनीये ॥७७॥) वृत्तिः - अरतिः इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः 'अचेल' त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः सप्तैते वक्ष्यमाणरूपाः परीषहाः, चरित्रमोहे चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्वादेषाम् । चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीषहसद्भावस्तमाह - अरते: अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, पुंवेयत्ति सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीषह: जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रम योजना कार्येति, तथा दर्शनमोहे दर्शनपरीषहः वक्ष्यमाणरूपो ‘णियमसो'त्ति आर्षत्वेन नियमात् भवेद् एकः अद्वितीयः, शेषाः एतदुद्धरिताः, परीषहाः पुनः एकादश वेदनीये
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy