________________
द्वाविंशतिः परीषहाः
८८१ त्मकत्वाच्छरीरस्य, तस्य चेहैव पातात्, चैतन्यस्य च भूतधर्मभूतत्वात्, तदतिरिक्तस्य चात्मनः प्रत्यक्षतोऽनुपलभ्यमानत्वाद्, ऋद्धिर्वा तपोमाहात्म्यरूपा, अपिः पूरणे, कस्य ? तपस्विनः, सा च आमर्शोषध्यादिः
'पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुर्युः । त्रिभुवनविस्मयजननान् दधुः कामांस्तृणाग्राद्वा ॥१॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् ।
अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥२॥' इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः, 'अदुव'त्ति अथवा, किं बहुना?वञ्चितोऽस्मि भोगानामिति गम्यते इतीत्यमुना शिरस्तुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तं - "तपांसि यातनाश्चित्राः, संयमो भोगवञ्चना।" इत्यादि, इतीत्यनन्तरमुपदर्शितं भिक्षुः न चिन्तयेत् न ध्यायेत् परिफल्गुरूपत्वादस्य ॥४४॥'
परीषहाणां कर्मगुणस्थानयोः समवतार एवमुक्त उत्तराध्ययनसूत्रद्वितीयाध्ययननियुक्तिवृत्त्योः - 'तत्र प्रकृतिनानात्वमाह -
णाणावरणे वेए मोहंमि य अंतराइए चेव ।
एएसुं बावीसं परीसहा हुंति णायव्वा ॥७३॥ (छाया- ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव ।
___ एतेषु द्वाविंशतिः परीषहा भवन्ति ज्ञातव्याः ॥७३॥ वृत्तिः - ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चतुर्षु कर्मसु वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषहा भवन्ति ॥७३॥ अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाह -
पन्नान्नाणपरिसहा णाणावरणमि हंति दुन्नेए ।
इक्को य अंतराए अलाहपरीसहो होइ ॥७४॥ (छाया- प्रज्ञाज्ञानपरीषहौ ज्ञानावरणे भवतो द्वावेतौ ।
एकश्चान्तराये अलाभपरीषहो भवति ॥७४।।)