________________
८८०
द्वाविंशतिः परीषहाः तद्विपरीतं, वेत्यस्य गम्यमानत्वात्, यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति (अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम्, अयमाशयः - यदि विरतौ कश्चिदर्थः सिध्येन्नैवं ममाज्ञानं भवेत् ॥४२॥
कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह - तपो-भद्रमहाभद्रादि उपधानम् - आगमोपचाररूपमाचाम्लादि आदाय स्वीकृत्य चरित्वेति यावत् प्रतिमां मासिक्यादिभिक्षुप्रतिमां 'पडिवज्जिय' त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च 'पडिमं पडिवज्जओ' त्ति प्रतिपद्यमानस्य - अभ्युपगच्छतः, एवमपि-विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि शब्दार्थः 'विहरतो' त्ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म - ज्ञानावरणादिकर्म न निवर्तते - नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः । अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकषोपलकल्पना(ता)यामपि न दपाध्मातमानसो भवेत्, किन्तु
'पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् ।
श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥१॥' इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् - 'णिरद्वयं' सूत्रद्वयम्, अक्षरगमनिका सैव, नवरं 'निरट्ठयंमिऽवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपे रतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात्' समक्षं नाभिजानामि धर्म कल्याणं पापकं वा, अयमभिप्राय:-'जे एगं जाणति से सव्वं जाणति (जे सव्वं जाणति) से एगं जाणति' (छाया- य एकं जानाति स सर्वं जानाति (यः सर्वं जानाति) स एकं जानाति ।) इत्यागमात् छद्मस्थोऽहमेकमपि धर्मं वस्तुस्वरूपं न तत्त्वतो वेद्मि, ततः साक्षाद्भावस्वभावावभासि चेन्न विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुस्वरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपउपधानादिभिरप्युपक्रमणहेतुभिः उपक्रमयितुमशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति सूत्रद्वयार्थः ॥४३॥ साम्प्रतमज्ञानाद्दर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाह -
णत्थि णूणं परे लोए, इड्डी वावि तवस्सिणो।
अदुवा वंचिओमित्ति, इइ भिक्खू ण चिंतए ॥४४॥ (छाया- नास्ति नूनं परे लोके, ऋद्धिर्वापि तपस्विनः ।
अथवा वञ्चितोऽस्मीति, इति भिक्षुः न चिन्तयेत् ॥४४॥) वृत्तिः - नास्ति न विद्यते नूनं निश्चितं परलोको जन्मान्तरमित्यर्थः, भूतचतुष्टया