________________
द्वाविंशतिः परीषहाः
८७९
कुत एतदित्याह येन हेतुना अहं नाभिजानामि नाभिमुख्येनावबुध्ये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुई 'त्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः । न हि स्वयं स्वच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोऽ प्रकाशकत्वं किन्तु ज्ञानावृतिवशत एव, उक्तं हि -
-
'तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य ।
तत्पञ्चविधं ज्ञानमावृतं रविरिव मेघैस्तथा ॥१॥ '
अथवा 'से नूणं' ति सेशब्दः प्रतिवचनवाचिनोऽथशब्दास्यार्थे, स हि केनत्किञ्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन स्वयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मनैव प्रति वक्ति, 'से' इत्यथ नूनं निश्चितमेतत्, शेषं प्राग्वत् ।
इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यते
निरट्ठगंमि विरओ, मेहुणाओ सुसंवुडो ।
जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥
तवोवहाणमादाय, पडिमं पडिवज्जओ । एवंपि विहरओ मे, च्छउमं न णिअट्टइ ॥४३॥
(छाया- निरर्थके विरतः, मैथुनात् सुसंवृतः ।
यः साक्षात् नाभिजानामि, धर्मं कल्याणं पापकम् ॥४२॥
तपउपधानमादाय, प्रतिमां प्रतिपद्यमानस्य । एवमपि विहरतो मे, छद्म न निवर्त्तते ॥ ४३॥)
वृत्तिः - 'णिरदुगंमि त्ति अर्थः- प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, विरतः निवृत्तः, कस्मात् ? - मिथुनस्य भावः कर्म वा मैथुनम् - अब्रह्म तस्मात्, आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि -
'दुपच्चया इमे कामा'
(छाया - दुष्प्रत्यजा इमे कामा: 1)
इत्यादि, सुष्ठु संवृतः सुसंवृतः - इन्द्रियनोइन्द्रियसंवरणेन यः साक्षात् इति परिस्फुटं नाभिजानामि धर्मं वस्तुस्वभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं पापकं वा