SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८७८ द्वाविंशतिः परीषहाः __ जल्लोपलिप्तश्च शुचीन् सत्क्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह - __ अभिवादणं अब्भुट्टाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ॥३८॥ (छाया- अभिवादनमभ्युत्थानं, स्वामी कुर्यात् निमन्त्रणम् । ये तानि प्रतिसेवन्ते, न तेभ्यः स्पृहयेत् मुनिः ॥३८॥) व्याख्या - अभिवादनं शिरोनमनचरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं अभ्युत्थानं ससम्भ्रममासनमोचनं स्वामी राजादिः कुर्यात् विदधीत निमन्त्रणम् अद्य भवद्भिभिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीथिका वा तानि अभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् - यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सत्क्रियन्त इति मुनिः अनगार इति सूत्रार्थः ॥३८॥ साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाह - से नूणं मए पुव्वं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥४०॥ (छाया- अथ नूनं मया पूर्व, कर्माणि अज्ञानफलानि कृतानि । येनाऽहं नाऽभिजानामि, स्पृष्टः केनचित् कस्मिंश्चित् ॥४०॥) वृत्तिः - ‘से 'शब्दो मागधप्रसिद्ध्याऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मयेति आत्मनिर्देशः पूर्वं प्राक् क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह - अज्ञानम्-अनवबोधस्तत्फलानि ज्ञानावरणरूपाणीत्यर्थः कृतानि ज्ञाननिन्दादिभिरुपार्जितानि, यदुक्तम् - 'ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नेश्च, ज्ञानघ्नं कर्म बध्यते ॥१॥' मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवाद्, उक्तं च - 'शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥'
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy