________________
८७६
द्वाविंशतिः परीषहाः रोगपीडितस्य शयनादिषु दुःसहतर(:) तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह -
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो।
तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥३४॥.. (छाया अचेलकस्य रूक्षस्य, संयतस्य तपस्विनः ।
तृणेषु स्वपतः, भवेत् गात्रविराधना ॥३४॥) वृत्तिः - अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत्, तरन्तीति तृणानि - दर्भादीनि तेषु शयानस्योपलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधनाविदारणा गात्रविराधना, अचेलकत्वादीनि तु तपस्विविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुषिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥३४॥ ततः किमित्याह -
आयवस्स निवाएणं, तिदुला हवइ वेयणा।
एयं णच्चा न सेवंति, तंतुजं तणतज्जिया ॥३५॥ (छाया- आतपस्य निपातेन, त्रिदुला भवति वेदना ।
____एतद् ज्ञात्वा न सेवन्ते, तन्तुजं तृणर्जिताः ॥३५॥) वृत्तिः - आतपस्य धर्मस्य नितरां पातो निपातस्तेन 'तिउल' त्ति सूत्रत्वात्तौदिका, यद्वा त्रीन्-प्रस्तावात् मनोवाक्कायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव स्वरूपचलनेन त्रिदुला, पाठान्तरन्तु-'अतुला' विपुला वा भवति वेदना, एवं च किमित्याह -एतद् अनन्तरोक्तं पाठान्तरतः एवं ज्ञात्वा न सेवन्ते न भजन्ते, आस्तरणायेति गम्यते, तन्तुभ्यो जातं तन्तुजं, पठ्यते च 'तंतयं' ति तत्र तन्त्रं-वेमविलेखन्याञ्छनिकादि तस्माज्जातं तन्त्रजम्, उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः-निर्भसिताः तृणतर्जिताः, किमुक्तं भवति ? यद्यपि तृणैरत्यन्तविलिखितशरीरस्य रविकिरणसम्पर्कसमुत्पन्नस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि -
'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित्, दह्यन्ते नरकाग्निना ॥१॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥२॥