________________
द्वाविंशतिः परीषहाः
८७५ ग्रहणार्थं प्रवर्त्यत इति सुप्रसारः स एव सुप्रसारकः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः, उत्तरत्रेति शब्दस्य भिन्नक्रमत्वाद् इतीत्यस्माद्धेतोः श्रेयान् अतिशयप्रशस्यः अगारवासो गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'इती'त्येतद्भिक्षुः न चिन्तयेद्, यतो गृहवासो बहुसावद्यो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः स्वयंपचनादिप्रवृत्तेभ्यो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः ॥२९॥ याचाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह -
परेसु गासमेसिज्जा, भोयणे परिणिट्ठिए।
लद्धे पिंडे आहरिज्जा, अलद्धे नाणुतप्पए ॥३०॥ (छाया- परेषु ग्रासमेषयेत्, भोजने परिनिष्ठिते ।
लब्धे पिण्डे आहरेत्, अलब्धे नानुतप्येत ॥३०॥) वृत्तिः - परेषु इति गृहस्थेषु ग्रासं कवलम्, अनेन च मधुकरवृत्तिमाह, एषयेद् गवेषयेत्, भुज्यत इति भोजनम्-ओदनादि तस्मिन् परिनिष्ठिते सिद्धे, मा भूत्प्रथमगमनात्तदर्थं पाकादिप्रवृत्तिः, ततश्च लब्धे गृहिभ्यः प्राप्ते पिण्डे आहारे अलब्धे वा अप्राप्ते वा नानुतप्येत संयतः, तद्यथा - अहो ! ममाधन्यता यदहं न किञ्चिल्लभे, उपलक्षणत्वाल्लब्धे वा लब्धिमानहमिति न हृष्येत्, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः ॥३०॥ अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीषहमाह -
णच्चा उप्पइयं दुक्खं, वेदणाए दुहट्टिए।
अदीणो ठावए पण्णं, पुट्ठो तत्थऽहियासए ॥३२॥ (छाया- ज्ञात्वा उत्पत्तिकं दुःखं, वेदनया दुःखार्त्तः ।
अदीनः स्थापयेत् प्रज्ञां, स्पृष्टः तत्र अध्यासीत ॥३२॥) वृत्तिः - ज्ञात्वा अधिगम्य उत्पत्तिकम् उद्भूतं, दुःखयति इति दुःखः प्रस्तावात् ज्वरादिरोगस्तं वेदनया स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्तितः, एवंविधोऽपि अदीन: अविक्लवः स्थापयेत् दुःखात्तित्वेन चलन्ती स्थिरीकुर्यात् प्रज्ञां स्वकर्मफलमेवैतदिति तत्त्वधियं, स्पृष्ट इत्यपेर्लुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरविक्लवतया तोति प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थः ॥३३॥