________________
८७४
न प्रदूषयेत् न कोपतो विकृतं कुर्वीत, किन्तु तितिक्षां क्षमां
'धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१॥ '
इत्यादिवचनतः परमां धर्मसाधनं प्रति प्रकर्षवतीं ज्ञात्वा अवगम्य भिक्षुधर्मे यतिधर्मे, यद्वा भिक्षुधर्मं क्षान्त्यादिकं वस्तुस्वरूपं वा चिन्तयेत्, यथा- क्षमामूल एव मुनिधर्मः, अयं चास्मन्निमित्तं कर्म्मोपचिनोति, अस्मद्दोष एवायम्, अतो नेमं प्रति कोप उचित इति सूत्रार्थ:
॥२६॥
परैरभिहतस्य च तथाविधौषधादि ग्रासादि च सदोपयोगि यतेर्याचितमेव भवतीति याञ्चापरीषहमाह
(छाया - दुष्करं खलु भो ! नित्यं, अनगारस्य भिक्षोः ।
दुक्करं खलु भो ! णिच्चं, अणगारस्स भिक्खुणो । सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं ॥ २८ ॥
ततश्च
-
द्वाविंशतिः परीषहाः
वृत्तिः - दुःखेन क्रियत इति दुष्करं - दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेषं द्योतयति, भो इत्यामन्त्रणे नित्यं सर्वकालं, यावज्जीवमित्यर्थः, अनगारस्य भिक्षोरिति च प्राग्वत्, किं तत् दुष्करमित्याह - यत् सर्वम् आहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद् दन्तशोधनाद्यपि अयाचितं, ततः सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥२८॥
सर्वं तस्य याचितं भवति, नास्ति किञ्चिदपि अयाचितम् ॥२८॥)
गोयरग्गपविट्ठस्स, हत्थे नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥२९॥
(छाया - गोचराग्रप्रविष्टस्य, हस्तो न सुप्रसारकः । श्रेयोऽगावास इति, भिक्षुः न चिन्तयेत् ||२९|| )
वृत्तिः - गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्त्तते तथा साधुरपि भिक्षार्थं, तस्याग्र्यं - प्रधानं यतोऽसौ एषणायुक्तो गृह्णाति न पुनगौरिव यथा कथञ्चित्, तस्मिन् प्रविष्टो गोचराग्रप्रविष्टः तस्य, पाणिः हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादि