________________
द्वाविंशतिः परीषहाः
शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेदत
स्तत्परीषहमाह -
अक्कोसेज्ज परो भिक्खुं, न तेर्सि पइ संजले । सरसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥
(छाया - आक्रोशेत् परो भिक्षु, न तेषां प्रति सञ्ज्वलेत् ।
सदृशो भवति बालानां, तस्मात् भिक्षुः न सञ्ज्वलेत् ॥२४॥)
वृत्तिः - 'अक्कोसेज्ज' त्ति आक्रोशेत्-तिरस्कुर्यात् परः अन्यो धर्मापेक्षया धर्मबाह्य आत्मव्यतिरिक्तो वा भिक्षं यतिं, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति ?, 'न तेसिं' ति सुपो वचनस्य च व्यत्ययान्न तस्मै प्रतिसञ्ज्वलेत् निर्यातने प्रतिभूतश्चाक्रोशदानतः सञ्ज्वलते, तन्निर्यातनार्थं देहदाहलौहित्यप्रत्याक्रोशाभिघातादिभिरग्निवन्न दीप्येत, सञ्ज्वलनकोपमपि न कुर्यादिति सञ्ज्वलेदित्युपादानं, किमेवमुपदिश्यत इत्याह -सदृशः समानो भवति, सञ्ज्वलन्निति प्रक्रमः केषां ? - बालानाम् अज्ञानां, तथाविधक्षपकवत्, यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च मम कार्यमावेदनीयम्, अन्यदैकेन धिग्जातिना सह योद्धरारब्ध:, तेन च बलवता क्षुत्क्षामशरीरो भुवि पातितः ताडितश्च, रात्रौ देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततश्चासौ देवतयाऽभिहितो-भगवन् ! किं मयाऽपराद्धं ?, स प्राह - न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं सा चावादीत् न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयं च धिग्जातिरिति, यतः कोपाविष्टौ द्वावपि समानौ सम्पन्नाविति, ततः सती प्रेरणेति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थं निगमयितुमाह - 'तम्ह' त्ति यस्मात्सदृशो भवति बालानां तस्माद्भिक्षुर्न सञ्ज्वलेदिति सूत्रार्थः ॥२४॥
कश्चिदाक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि विदध्यादिति वधपरीषहमाह
ओण संजले भिक्खू, मपि णो पउस्सए ।
तितिक्खं परमं णच्चा, भिक्खुधम्मंमि चिंतए ॥ २६ ॥
(छाया - हतो न सवलेत् भिक्षुः, मनोऽपि न प्रदूषयेत् । तितिक्षां परमां ज्ञात्वा, भिक्षुधर्मे चिन्तयेत् ॥ २६॥)
-
८७३
वृत्तिः
हतः यष्ट्यादिभिः ताडितो न सञ्ज्वलेत् कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत्, भिक्षुः मनः चित्तं तदपि