________________
८७२
द्वाविंशतिः परीषहाः त्व'मिति (वार्तिकं ५-१-२) वचनतो यति सम्प्रसारणे दीर्घत्वे च शून्यम् - उद्वसं तच्च तत् अगारं च शून्यागारं तस्मिन्वा, वृश्च्यत इति वृक्षः तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, एकः उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्यविगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, अकुक्कुचः अशिष्टचेष्टारहितो निषीदेत् तिष्ठेत्, न च नैव वित्रासयेत् परम् अन्यं, किमुक्तं भवति ?
'पडिमं पडिवज्जिया मसाणे, णो भायए भयभेरवाइ दिस्स ।
विविहगुणतवोरए य णिच्चं, ण सरीरं चाभिकंखए स भिक्खू ॥१॥' (छाया- प्रतिमां प्रतिपद्य श्मशाने, न बिभेति भयभैरवाणि दृष्ट्वा ।
विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाङ्क्षते स भिक्षुः ॥१॥) इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संबिभीयात्, न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेत्, यद्वा 'अकुक्कुए' त्ति कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निषीदेत्, न च वित्रासयेत् विक्षोभयेत् परम् उन्दूरादि, मा भूदसंयम इति सूत्रार्थः ॥२०॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवर्तेतातस्तत्परीषहमाह -
उच्चावयाहि सिज्जाहिं, तवस्सी भीक्खू थामवं ।
णाइवेलं विहणिज्जा, पावदिट्ठी विहण्णइ ॥२२॥ (छाया- उच्चावचाभिः शय्याभिः, तपस्वी भिक्षुः स्थामवान् ।
नातिवेलं विहन्यात्, पापदृष्टिः विहन्यते ॥२२॥) वृत्तिः - ऊर्ध्वं चिता उच्चा, उपलिप्ततलाधुपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोच्चाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः शय्याभिः वसतिभिः तपस्वी प्रशस्यतपोऽन्वितो, भिक्षुः प्राग्वत्, स्थामवान् शीतातपादिसहनं प्रति सामर्थ्यवान् नातिवेलं स्वाध्यायादिवेलातिक्रमेण विहन्यात् हनेर्गतावपि वृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत्, यद्वा अतिवेलाम् अन्यसमयातिशायिनी मर्यादां-समतारूपामुच्चां शय्यामवाप्याहो ! सभाग्योऽहं यस्येदृशी सकलर्तुसुखोत्पादिनी मम शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना न विहन्यात् नोल्लङ्घयेत्, किमित्येवमुपदिश्यत इत्याह – 'पावदिट्ठी विहन्नइ' त्ति प्राग्वदिति सूत्रार्थः ॥२२॥