________________
द्वाविंशतिः परीषहाः
८७१
अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीषहः सोढव्य इति माह
एग एव चरे लाढे, अभिभूय परीसहे ।
गामे वा नगरे वावि, णिगमे वा रायहाणी ॥ १८ ॥
(छाया- एक एव चरेत् लाढे, अभिभूय परीषहान् । ग्रामे वा नगरे वापि, निगमे वा राजधान्याम् ॥१८॥ )
वृत्तिः - एक एवेति रागद्वेषविरहितः चरेत् अप्रतिबद्धविहारेण विहरेत्, सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम् -
'ण या लभिज्जा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एक्कोऽवि पावाइं विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ॥१॥ ' (छाया - न चापि लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन्, विहरेत् कामेषु असजन् ॥१॥
'लाढे' त्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति लाढ:, प्रशंसाभिधायि वा देशीपदमेतत्, पठ्यते च - 'एग एगे चरे लाढं' ति, तत्र चैकः - असहायः प्रतिमाप्रतिपन्नादिः स चैको रागादिवैकल्याद् अभिभूय निर्जित्य परीषहान् क्षुदादीन्, क्व पुनश्चरेदित्याह - ग्रामे चोक्तरूपे नगरे वा करविरहितसन्निवेशे अपिः पूरणे निगमे वा वणिग्निवासे राजधान्यां वा प्रसिद्धायाम्, उभयत्र वाशब्दानुवृत्तेः, मडम्बाद्युपलक्षणं चैतद्, आग्रहाभावं चानेनाहेति सूत्रार्थः ॥ १८ ॥
यथा चायं ग्रामादिष्वप्रतिबद्धेनाधिसह्यते एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह
सुसाणे सुन्नगारे वा, रुक्खमूले य एगओ । अकुक्कु निसीएज्जा, न य वित्तासए परं ॥२०॥
(छाया - श्मशाने शून्यागारे वा, वृक्षमूले च एककः । अकुत्कुचः निषीदेद्, न च वित्रासयेत् परम् ॥२०॥
वृत्तिः - शबानां शयनमस्मिन्निति श्मशानं तस्मिन् - पितृवने, ( पा० ५-१-२ ) श्वभ्यो हितमिति वाक्ये 'उगवादिभ्यो यदि 'त्यत्र ( पा० ५- १-२ ) 'शुनः संप्रसारणं वा दीर्घ