________________
८७०
द्वाविंशतिः परीषहाः उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिमन्त्र्यमाणस्य तदभिलाषः प्रादुःष्यादतस्तत्परीषहमाह -
संगो एस मणुस्साणं, जाओ लोगंसि इथिओ ।
जस्स एया परिणाया, सुकडं तस्स सामण्णं ॥१६॥ .. (छाया- सङ्ग एष मनुष्याणां, या लोके स्त्रियः ।
यस्य एताः परिज्ञाताः, सुकृतं तस्य श्रामण्यम् ॥१६॥) वृत्तिः - सजन्ति-आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः एषः अनन्तरं वक्ष्यमाणो मनुष्याणां पुरुषाणां, तमेवाह - या इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्च्यो वा, 'लोगंसित्ति लोके तिर्यग्लोकादौ स्त्रियो नार्यश्च, एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति, अतः किमित्याह - यस्य इति यतेः एताः स्त्रियः परीति-सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः -
'विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं ।
णरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥१॥' (छाया- विभूषा स्त्रीसंसर्गः, प्रणीतरसभोजनम् ।
नरस्यात्मगवेषिणो, विषं तालपुटं यथा ॥१॥) प्रत्याख्यानपरिज्ञया च, तत एव च प्रत्याख्याताः, 'सुकडं' ति सुकृतं सुष्ठ्वनुष्ठितं, पाठान्तरतः सुकरं सुखेनैवानुष्ठातुं शक्यं तस्स' त्ति सुब्ब्यत्ययात्तेन 'सामण्णं ति श्रामण्यंव्रतं, किमुक्तं भवति ?- अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव च तत्त्वतस्तद्धेतू, उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः, ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, वक्ष्यति हि -
'एए उ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा ।
जहा महासागरमुत्तरित्ता, णई भवे अवि गंगासमाणा ॥१॥' (छाया- एतांस्तु सङ्गान् समतिक्रम्य, सुखोत्तारा एव भवन्ति शेषाः ।
यथा महासागरमुत्तीर्य, नदी भवेदपि गङ्गासमाना ॥१॥) इति सूत्रार्थः ॥१६॥