SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ८६९ द्वाविंशतिः परीषहाः एवमयमपि दंशादिभिरभिद्रूयमानोऽपि भावशत्रु-क्रोधादिकं जयेदिति सूत्रार्थः ॥१०॥ अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाह - परिजन्नेहि वत्थेहि, होक्खामित्ति अचेलए। अदुवा सचेलए होक्खं, इइ भिक्खु न चिंतए ॥१२॥ (छाया- परिजीर्णैः वस्त्रैः, भविष्यामीति अचेलकः । अथवा सचेलकः भविष्यामि, इति भिक्षुः न चिन्तयेत् ॥१२॥) वृत्तिः - परिजीर्णैः समन्तात् हानिमुपगतैः वस्त्रैः शाटकादिभिः 'होक्खामि 'त्ति इतिभिन्नक्रमः ततो भविष्यामि अचेलकः चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत्, अथवा सचेलकः चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, इदमुक्तं भवतिजीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत्, न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थः ॥१२॥ अचेलस्य चाप्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येतातस्तत्परीषहमाह गामाणुगामं रीयंतं, अणगारमकिंचणं । अई अणुप्पविसे, तं तितिक्खे परीसहं ॥१४॥ (छाया- ग्रामानुग्रामं रीयमाणं, अनगारमकिञ्चनम् । अरतिः अनुप्रविशेत्, तं तितिक्षेत परीषहम् ॥१४॥) वृत्तिः - ग्रसते बुद्ध्यादीन् गुणान् इति ग्रामः स च जिगमिषितः अनुग्रामश्चतन्मार्गानुकूलः अननुकूलगमने प्रयोजनाभावाद् ग्रामानुग्रामं, यद्वा ग्रामश्च महान् अणुग्रामश्च स एव लघुर्गामाणुग्रामम्, अथवा-ग्राममिति रूढिशब्दत्वादेकस्माद्ग्रामादन्यो ग्रामः ततोऽपि चान्यो ग्रामानुग्राममुच्यते, नगरोपलक्षणमेतत्, ततो नगरादींश्च, किमित्याह - 'रीयंत'ति तिव्यत्ययाद्रीयमाणं-विहरन्तम् अनगारम् उक्तस्वरूपम् अकिञ्चनं नास्य किञ्चन प्रतिबन्धास्पदं धनकनकाद्यस्तीत्यकिञ्चनो-निष्परिग्रहः, तथाभूतम् अरतिः उक्तरूपा अनुप्रविशेत् मनसि लब्धास्पदा भवेत्, तमित्यरतिस्वरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥१४॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy