________________
८६८
तत्परीषहमाह -
उसिणपरितावेण, परिदाहेण तज्जिओ । घिसु वा परितावेणं, सायं ण परिदेव ॥८ ॥
(छाया - उष्णपरितापेन परिदाहेन तर्जितः । ग्रीष्मे वा परितापेन, सातं
वृत्तिः - उष्णम् - उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन यथा परिदाहेन बहिः स्वेदमलाभ्यां वह्निना वा अन्तश्च तृष्णया जनितदाहस्वरूपेण तर्जितः भत्सितोऽत्यन्तपीडित इति यावत्, तथा ग्रीष्मे वाशब्दात् शरदि वा परितापेन रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह - सातं सुखं प्रतीति शेषः, न परिदेवेत्, किमुक्तं भवति ? - 'नारीकुचोरुकरपल्लवोपगूढैः क्वचित्सुखं प्राप्ताः ।
क्वचिदङ्गारैर्ज्वलितैस्तीक्ष्णैः पक्वाः स्म नरकेषु ॥१॥'
इत्यादि परिभावयन् हा ! कथं मम मन्दभागस्य सुखं स्यादिति प्रलपेत्, यद्वा - सातमिति सातहेतुं प्रति, यथा हा ! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवेतेति सूत्रार्थः ॥८॥
उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दंशमशकसम्भव इति तत्परीषहमाह
पुट्ठो य दंसमसएहिं, समरे व महामुनी । नागो संगामसीसे व, सूरे अभिभवे परं ॥ १० ॥
(छाया - स्पृष्टश्च दंशमशकैः, समरे वा महामुनिः ।
द्वाविंशतिः परीषहा:
नागः सङ्ग्रामशीर्षे इव, शूरः अभिभवेत् परम् ॥१०॥)
-
वृत्तिः - स्पृष्टः अभिद्रुतः चः पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'समरे व'त्ति 'एदोदुरलोपाविसर्जनीयस्ये 'ति रेफात् ततः सम एव तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः - शत्रवो यस्मिंस्तत्समरं तस्मिन्निति सङ्ग्रामशिरोविशेषणं, वेति पूरणे, महामुनिः प्रशस्तयतिः किमित्याह - 'णागो संगाम सीसे वे 'ति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव - हस्तीव सङ्ग्रामस्य शिर इव शिरः - प्रकर्षावस्था सङ्ग्रामशिरस्तस्मिन् शूरः पराक्रमवान्, यद्वा शूरो- योधः, ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूरवद्वाऽभिहन्यात्, कोऽर्थः ? अभिभवेत् परं शत्रुम्, अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रून् जयति,