________________
८६७
द्वाविंशतिः परीषहाः विकृतस्य वयादिना विकारं प्रापितस्य प्रासुकस्येतियावत्, प्रक्रमादुदकस्य 'एसणं'ति चतुर्थ्यर्थे द्वितीया, ततश्चैषणाय गवेषणार्थं चरेत्, तथाविधकुलेषु पर्यटेत्, अथवा एषणाम्एषणासमिति चरेत्, चरतेरासेवायामपि दर्शनात् पुनः पुनः सेवेत, किमुक्तं भवति ?एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपि गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः
॥४॥
इत्यवसितः पिपासापरीषहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्भव इति तत्परीषहमाह -
चरंतं विरयं लूह, सीयं फुसइ एगया।
नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नइ ॥६॥ (छाया- चरन्तं विरतं रूक्षं, शीतं स्पृशति एकदा ।
नातिवेलं विहन्यात्, पापदृष्टिः विहन्यात् ॥६॥) वृत्तिः - चरन्तम् इति ग्रामानुग्रामं मुक्तिपथे वा व्रजन्तं, धर्ममासेवमानं वा, विरतम् अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'लूहं ति स्नानस्निग्धभोजनादिपरिहारेण रूक्षं, किमित्याह - शृणाति इति शीतं, स्पृशति अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन बाध्यते, एकदेति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, ततः किम् ? न नैव वेलासीमा मर्यादा सेतुरित्यनर्थान्तरं, ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिनकल्पिकापेक्षया च स्थविरकल्पाच्चातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात्, कोऽर्थः-अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत्, किमेवमुपदिश्यत इत्याह - पासयति पातयति वा भवावर्त इति पापा तादृशी दृष्टिःबुद्धिरस्येति पापदृष्टिः 'विहन्नइ' इति सूत्रत्वाद्विहन्ति-अतिक्रामत्यतिवेलामिति प्रक्रमः, अयमत्र भावार्थ:-पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बुद्धिभिः परिहारो विधेयः, पठ्यते च - 'नाइवेलं मुणी गच्छे, सुच्चा णं जिणसासणं' तत्र वेला-स्वाध्यायादिसमयात्मिका तामतिक्रम्य शीतेनाभिहतोऽहमिति मुनिः तपस्वी न गच्छेत् स्थानान्तरमभिसप्त्, 'सोच्चे'ति श्रुत्वा 'ण'मिति वाक्यालङ्कारे जिनशासनं जिनागमम्-अन्यो जीवोऽन्यश्च देहस्तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः ॥६॥
इदानीं शीतविपक्षभूतमुष्णमिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति