________________
८६६
द्वाविंशतिः परीषहाः दिगिंछापरियावेण, तवस्सी भिक्खु थामवं ।
न छिदे न छिंदावए, न पए न पयावए ॥२॥ (छाया- बुभुक्षापरितापेन, तपस्वी भिक्षुः स्थामवान् ।
न छिन्द्यात् न छेदयेत् वा, न पचेत् न पाचयेत् ॥२॥) वृत्तिः - दिगिञ्छा-उक्तरूपा तथा परितापः-सर्वाङ्गीणसन्तापो दिगिञ्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ तृतीया, पाठान्तरं दिगिछापरिगते बुभुक्षाव्याप्ते देहे शरीरे सति, तपोऽस्यास्तीति अतिशायने विनिस्तपस्वी विकृष्टाष्टमादितपोऽनुष्ठानवान्, स च गृहस्थादिरपि स्यादत आह - भिक्षुः यतिः, सोऽपि कीहक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान्, भूम्नि प्रशंसायां वा मतुष्प्रत्ययः, अयं च किमित्याह - न छिन्द्यात् न द्विधा विदध्यात्, स्वयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत्, उपलक्षणत्वाच्च नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च न स्वयं क्रीणीयात् नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात्, क्षुत्प्रपीडितोऽपि न नवकोटीशुद्धिबाधां विधत्ते इति गाथार्थः ॥२॥
उक्तः क्षुत्परीषहः, एवं चाधिसहमानस्य न्यूनकुक्षितयैषणीयाहारार्थं वा पर्यटतः श्रमादिभिरवश्यंभाविनी पिपासा, सा च सम्यक् सोढव्येति तत्परीषहमाह -
तओ पुट्ठो पिवासाए, दुगुंछी लद्धसंजमे ।
सीओदगं ण सेवेज्जा, वियडस्सेसणं चरे ॥४॥ (छाया- ततः स्पृष्टः पिपासया, जुगुप्सी लब्धसंयमः ।
शीतोदकं न सेवेत, विकृतस्य एषणां चरेत् ॥४॥) वृत्तिः - तत इति क्षुत्परीषहात् तको वा उक्तविशेषणो भिक्षुः स्पृष्ट अभिद्रुतः पिपासया अभिहितस्वरूपया 'दोगुंछी 'ति जुगुप्सी, सामर्थ्यादनाचारस्येति गम्यते, अत एव लब्धः-अवाप्तः संयमः-पञ्चाश्रवादिविरमणात्मको येन स तथा, पाठान्तरं वा 'लज्जसंजमेत्ति' लज्जा-प्रतीता संयमः-उक्तरूपः एताभ्यां स्वभ्यस्ततया सात्मीभावसमुपगताभ्यामनन्य इति स एव लज्जासंयमः, पठ्यते च 'लज्जासंजए'त्ति, तत्र लज्जया सम्यग्यततेकृत्यं प्रत्याहतो भवतीति लज्जासंयतः, सर्वधातूनां पचादिषु दर्शनात्, स एवंविधः किमित्याह - शीतं शीतलं, स्वरूपस्थतोयोपलक्षणमेतत्, ततः स्वकीयादिशस्त्रानुपहतम्, अप्रासुकमित्यर्थः, तच्च तदुदकं, न सेवेत न पानादिना भजेत, किन्तु 'वियडस्स'त्ति